________________ लघी० प्रमाणप्र० का०७] गुणपदार्थवादः 277 यदप्युक्तम्'-'बदरामलकादिषु भाक्तोऽणुव्यवहारः' इत्यादि; तदप्ययुक्तम् ; तत्र गौणत्वप्रतिपत्तेः कस्यचिदप्यभावात् , न खलु यथा सिंहमाणवकादिषु मुख्य-गौणविवेकप्रतिपत्तिः सर्वेषामविगानेन अस्ति, तथा 'द्वथणुके एव अणुत्व-वस्वत्वे मुख्ये अन्यत्र गौणे' इति तद्विवेकप्रतिपत्तिः / प्रक्रियामात्रप्रदर्शनस्य च सर्वशास्त्रेषु सुलभत्वान्नातः प्रतिनियतवस्तुस्वरूपव्यवस्थितिः। आपेक्षिकत्वाच्च परिमाणस्यागुणत्वम् , नहि रूपादेः सुखादेर्वा गुणस्य आपेक्षिकत्वं 5 दृष्टम् / योऽपि नील-नीलतरादेः सुख-सुखतरादेर्वा आपेक्षिको व्यवहारः, सोऽपि तत्प्रकर्षाऽपकर्षनिबन्धनो न पुनर्गुणस्वरूपनिबन्धनः / यदपि-'अपोद्धारव्यवहारकारणं पृथक्त्वम्' इत्याद्युक्तम् / तदपि न युक्तम् ; अपोद्धारव्यवहारो हि भेदव्यवहारः, स च सर्वार्थानां स्वगताऽसाधारणभेदकर्मनिबन्धनः इति किं तत्र पृथक्त्वलक्षणगुणान्तरकल्पनया ? अन्यथा अपृथक्त्वमपि अभेदव्यवहारकारणं गुणान्तरं 10 कल्प्यतामविशेषात् / द्विपृथक्त्वादिप्रक्रिया च द्वित्वादिसंख्यादूषणेनैव दूषिता / संयोगोऽपि नैरन्तर्याऽवस्थिताऽर्थव्यतिरेकेण अपरो न प्रतीयते। नैरन्तर्येण परिणता हि पदार्थाः संयुक्तव्यवहारगोचरतां प्रतिपद्यन्ते / नैरन्तर्यरूपसंयोगस्य च गुणत्वे सामीप्य-दूरत्वादेरपि गुणत्वप्रसङ्गाद् गुणसंख्याव्याघातः / विभागोऽपि संयोगाऽभावमात्रम्, न तु विभताऽर्थेषु गुणान्तरोत्पत्तिः , विभागगुणशून्येऽपि च सह्य-विन्ध्यादौ विभक्तप्रत्ययो दृश्यते / 15 नहि तत्र तद्गुणोऽस्ति संयोगविशिष्टाऽर्थेष्वेव तत्संभवात् / “प्राप्तिपूर्विका अप्राप्तिर्विभागः'' [प्रश० भा० पृ० 151 ] इत्यभिधानात् / न चाऽसौ प्रत्ययो भाक्तः; वैलक्षण्याऽभावात् , नहि 'मेषौ विभक्तौ, सह्य-विन्ध्यौ विभक्तौ' इत्यनयोः प्रत्यययोर्वेलक्षण्यमवधार्यते द्वयोरस्खलद्गतित्वाऽविशेषात् / परत्वाऽपरत्वयोरपि संख्यावत् निरासो बोद्धव्यः; अपेक्षाबुद्धिजन्यत्वाऽविशेषात्। सन्निकर्ष- 20 विप्रकर्षयोरेव हि पराऽपरप्रत्ययहेतुत्वोपपत्तेर्ने किञ्चित् परत्वाऽपरत्वाभ्यां प्रयोजनम् / किञ्च, अयं पराऽपरादिव्यवहारः सत्ताद्रव्यत्वादावप्यस्ति, स चेत् सङ्केतवशात् स्वरूपमात्रनिबन्धनः १पृ० 274 पं० 4 / 2 "अपोद्धारव्यवहृतिः पृथक्त्वाद्या तु कल्प्यते / कारणात्सा विभिन्नात्मभावनिष्ठा न किं मता // 651 // परस्परविभिन्ना हि यथा बुद्धिसुखादयः। पृथग्वाच्याः तदङ्गञ्च विनाऽन्येन तथा परे // 652 // " तत्त्वसं० / प्रमेयक० पृ० 178 उ० / सन्मति० टी० पृ० 677 / 3 पृ. 274 पं०११।४ "प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः / ये पश्यत्याहरत्येष वस्तुनी ते तथाविधे // 666 // " तत्त्वसं०। प्रमेयक० पृ. 179 पू० / सन्मति. टी. पृ० 679 / स्या. रत्ना० पृ० 931 / 5 "विभागेऽपि यथायोगं वाच्यमेतत् प्रमाद्वयं / एकस्यानेकवृत्तिश्च न युक्तति प्रबाधकम् // 674 // " तत्त्वसं० / 6 “यथा नीलादिरूपाणि क्रमभावव्यवस्थितेः। अन्योपाधिविवेकेऽपि तथोच्यन्ते तथाऽपरे // 676 // " तत्त्वसं० / प्रमेयक० पृ० 179 उ. / सन्मति० टी० पृ. 681 / स्या० रत्ना० पृ. 935 /