________________ 276 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० 'कुञ्चिकाविवरप्रदेशादिना उपलभ्यमाने घटादौ यावद्र्व्यवर्तिनो रूपादेर्बहिरन्तश्च उपलब्धिः स्यात् , अन्यथा निरंशैकरूपताव्याघातः / न हि तद्रूपस्य प्रतिभासाऽप्रतिभासलक्षणविरुद्धधर्माध्यासो युक्तः विरोधात् / एवं जलसेकादिना पृथिव्यां क्वचिद् अभिव्यज्यमाने गन्धे समप्रभूगोलाऽवयविगतस्य गन्धस्य अभिव्यक्तिः स्यात् , अन्यथा अभिव्यक्ततरविरुद्धधर्मा५ ध्यासाद् अवयविव्यापी न कश्चिद् एको गुणः स्यात् / अग्निसंयोगात् पाकजरूपोत्पत्तौ तु विप्रतिपत्त्यभाव एव अस्माभिरपि अभ्युपगमात् / 'अपेक्षाबुद्धितो द्वित्वादिसंख्या उत्पद्यते' इत्येतत्तु अयुक्तम् ; तस्याः पदार्थेषु स्वभाव-.. सिद्धत्वात् एकत्ववत् / तद्वयवहार एव हि अपेक्षाबुद्धिजन्यः न स्वरूपम् , बदरामलकादौ स्थू लादिव्यवहारवत् , यथैव हि स्वकारणकलापात् स्थूलत्वादिधर्मोपेतेषु उत्पन्नेषु बदरादिषु 10 तद्वयवहारः अपेक्षाबुद्धितो जायते एवमत्रापि / न च 'अपेक्षाबुद्धितोऽर्थानामुत्पत्तिः' इति प्रामाणिको वक्ति; इच्छामात्रादर्थनिष्पत्तौ सर्वस्यैव अभिप्रेतार्थसिद्धिप्रसङ्गात् / किञ्च, एकस्यां बुद्धौ प्रतिभासमाना एकैकगुणाः कथं कदाचिद् द्वित्वमुत्पादयन्ति कदाचिच्च बहुत्वम् ? नहि. तेषामेकत्वे कश्चिद्विशेषः / न च यौ द्वौ एकैकगुणौ तौ द्वित्वसंख्यामुत्पादयतः, ये च बहवः ते बहुत्वसंख्याम् इत्यभिधातव्यम् ; द्वित्वादिसंख्योत्पत्तः प्राक् तेषु द्वित्वस्य बहुत्वस्य चाऽसं१५ भवात् / गुणत्वश्चास्या न संभाव्यम् ; गुणेष्वपि सद्भावात् , सुप्रसिद्धो हि 'एकं ज्ञानम् , द्वे ज्ञाने, चतुर्विंशतिर्गुणाः, षट् पदार्थाः' इत्यादिप्रतीतितो गुणेषु संख्यासद्भावः / न च भाक्तोऽयं प्रत्ययः; अस्खलद्गतित्वात् / स्खलद्गतित्वं हि भाक्तप्रत्ययस्य लक्षणम् माणवके अग्निप्रत्ययवत् / __ यदपि -'महद्, अणु, दीर्घम् , ह्रस्वम्' इति चतुर्धा परिमाणं प्रतिपादितम् ; तदपि अनल्प तमोविलसितम् ; वस्तुसंस्थानविशेषव्यतिरेकेण तद्भेदस्यासंभवात् कस्य गुणरूपता उपवर्येत ? 20 तद्विशेषस्यापि तद्रूपतोपवर्णने वर्तुल-व्यस्र-चतुरस्रादेरपि गुणरूपतोपवर्णनाऽनुषङ्गान्न तच्चतु विधत्वोपवर्णनं शोभेत / 1 "द्रव्ये महति नीलादिरेक एव यदीष्यते। रन्ध्रालोकेन तद्वयक्ती व्यक्तिर्दृष्टिश्च नास्य किम् // 636 // " तत्त्वसं० / सन्मति० टी० पृ. 673 / स्या. रत्ना० पृ. 920 / 2 "रन्ध्रालोकेन इत्युपलक्षणम् / भुव एकदेशे जलेन गन्धस्य अभिव्यक्ती प्रदेशान्तरेऽपि अभिव्यक्तयुपलब्ध्योः प्रसङ्गः।" तत्त्वसं० पं० पृ० 211 / ३-तन्न युक्तम् ब०, ज० / पृ० 273 पं० 15 / 4 "इच्छारचितसङ्कतमनस्कारान्वयं त्विदम् / घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्त्तते // 639 // अद्रव्यत्वान्न संख्यास्ति तेषु काचिद् विभेदिनी। तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः // 640 // " तत्त्वसं० / “यथाहि-एक ज्ञानं द्वे ज्ञाने इत्यादौ संख्यामन्तरेणापि एकादिबुद्धिर्भवति एवं घटादिष्वपि / " तत्त्वसं० 50 पृ. 212 / प्रमेयक. पृ. 177 उ० / सन्मति० टी० पृ० 674 / स्या० रत्ना० पृ. 924 / 5 पृ. 274 पं०१। ६“महद्दी_दिभेदेन परिमाणं यदुच्यते / तदप्यथें तथारूपभेदादेव न किं मतम् // 674 ॥"तत्त्वसं० / प्रमेयक० पृ० 178 उ० / सन्मति० टी० पृ. 675 / स्या. रत्ना• पृ० 928 / .