________________ लघी० प्रमाणप्र० का० 7] गुणपदार्थवादः 275 नैमित्तिकमनित्यम् , अपां सांसिद्धिकम् , आप्याऽणुषु नित्यम् आप्यद्व-यणुकादौ तु अनित्यम् / 'स्नेहोऽम्भस्येव स्निग्धप्रत्ययहेतुः / स च आप्याऽणुषु नित्यः, द्वयणुकादौ अनित्यः / ___संस्कारस्त्रिविधः-वेगः, भावना, स्थितस्थापकश्चेति / तत्र वेगाख्यः पृथिवी-अप-तेजोवायु-मनस्सु मूर्त्तद्रव्येषु प्रयत्न-अभिघातविशेषापेक्षात् कर्मणः समुत्पद्यते , नियतदिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी च / भावनाख्यः पुनः आत्मगुणः ज्ञानजो ज्ञानहे- 5 तुश्च, दृष्ट-अनुभूत-श्रुतेष्वर्थेषु स्मृति-प्रत्यभिज्ञानकार्योन्नीयमानसद्भावः / मूर्तिमद्रव्यगुणः स्थितस्थापकः 'घनाऽवयवसन्निवेशविशिष्टं स्वमाश्रयं प्रयत्नतोऽन्यथास्थितमपि पूर्ववत् यथास्थितं स्थापयति' इति कृत्वा, दृश्यते च तालपत्रादेः प्रभूततरकालसंवेष्टितस्य प्रसार्यमुक्तस्य पुनस्तथैव अवस्थानं संस्कारवशात् , एवं धनुः-शाखा-वस्त्रादौ कार्यमस्य द्रष्टव्यम् / स च त्रिविधोऽप्ययं संस्कारः अनित्य एव / धर्माऽधुमौं आत्मविशेषगुणौ अनित्यावेव / शब्दस्तु 10 आकाशविशेषगुणः अनित्य एव इति / अत्र प्रतिविधीयते / यत्तावदुक्तम-'द्रव्याश्रयी' इत्यादि गुणानां लक्षणम् ; तदसमीचीनम् ; भवत्कल्पिते द्रव्ये प्रतिषिद्धे तेषां तदाश्रितत्वाऽनुपपत्तेः / अस्तु षट्पदार्थपरीक्षायां वैशेषिकोक्त वा तेषां तदाश्रितत्वादिकं लक्षणम् ; तथापि 'तल्लक्षणलक्षिता गुणपदार्थस्य तत्संख्यायाश्च ___ रूपादयश्चतुर्विंशतिरेव गुणाः' इत्यवधारणमनुपपन्नम् ; अने- 15 - कधा गुणानां श्रवणात्-लोके हि शौर्य-औदार्यादयो अनेकधा गुणाः श्रूयन्ते / वैयाकरणमते तु 'विशेष्यं द्रव्यम् , विशेषणं गुणः' इति प्रसिद्धम् / “यस्य * गुणस्य हि. भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ" [पात० महाभा० 5 / 1 / 116 ] इत्यभिधानात्।"वैद्यकतन्त्रेतु विशद-स्थिर-खैर-पिच्छलत्वादीनां गुणत्वप्रसिद्धिः / सांख्याः पुनः सत्त्वरजस्तमसां गुणत्वं प्रतिपन्नाः, इति कथं तेषामियत्ताऽवधारयितुं शक्या ? किञ्च, एते 20 रूपादयः एकस्मिन् "घटाद्यवयविनि निरंशैकस्वभावा" भवताऽभ्युपगम्यन्ते, तथा च 1 "स्नेहोऽपां विशेषगुणः सङ्ग्रहमृजादिहेतुः।" प्रश० भा० पृ० 266 / 2 "संस्कारस्त्रिविधः / " प्रश० भा० पृ. 266-67 / 3 यथावस्थि-ब०, ज०। यथाव्यवस्थि-भां०।४"धर्मःपुरुषगुणः. अधर्मोऽप्यात्मगुणः / " प्रश० भा० पृ. 272, 280 / 5 "शब्दोऽम्बरगुणः।" प्रश. भा० पृ. 287 / 6 पृ. 272 पं० 21 / 7 " द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः / गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः // 634 // " तत्त्वसं० / 8 ते पुनः वि-ब०, ज० / ९-णं तु गु-ब०, ज० / १०-विनिवेशः आ०। 11 “गुरुर्लघुः स्निग्धरूक्षौ तीक्ष्णः इलक्ष्णः स्थिरः सरः / पिच्छिलो विशदः शीत उष्णश्च मृदुकर्कशौ // स्थूलः सूक्ष्मो द्रवः शुष्कः आशुर्मन्दः स्मृता गुणाः / " सुश्रुत० सूत्रस्थान अ० 41 / 12 “सरस्तेषां प्रवर्तकः / " भावप्रका० 5 / 218 / सुश्रुते-खरनामापि गुणः / 13 " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः / गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // 13 // " सांख्यका / 14 घटावयविनि आ० / १५-भावभवता आ० / प्रतिविधानम्