________________ 274 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० परिमाणव्यवहारकारणं परिमाणम् , 'महद्, अणु, दीर्घम् , हस्वम्" इति चतुर्विधम् / तत्र महद् द्विविधम्-नित्यम् , अनित्यञ्च / नित्यम् आकाश-काल-दिग्-आत्मसु परममहत्त्वम् , अनित्यं द्वयणु (व्यणु ) कादिद्रव्येषु / अण्वपि नित्यानित्यविकल्पाद् द्विभेदम् / परमाणु मनस्सु पारिमाण्डल्यलक्षणं नित्यम् , अनित्यं द्वथणुके एव / बदर-आमल-बिल्वादिषु तु 5 महत्स्वपि तत्प्रकर्षाऽभावमपेक्ष्य भाक्तोऽणुव्यवहारः। द्वयणुके ह्रस्वत्वमनित्यम् , ज्यणुकादौ दीर्घत्वमनित्यम् / ननु द्वचणुके अणुत्व-वस्वत्वयोर्वतमानयोः व्यणुकादौ च महत्त्व-दीर्घत्वयोर्नाऽन्योन्यं कश्चिद् विशेषः इति चाऽयुक्तम् ; 'महत्सु दीर्घम् आनीयताम, दीर्धेषु महद् आनीयताम्' इति व्यवहारभेदप्रतीतितो महत्व-दीर्घत्वयोः परस्परतः प्रतिप्राणि भेद प्रसिद्धेः / अणुत्व-हस्वत्वयोस्तु विशेषो योगिनामेव प्रत्यक्षः / एतच्च महदादिपरिमाणं रूपादि१० भ्योऽर्थान्तरम् तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात् सुखादिवत् / संयुक्तमपि द्रव्यं यद्वशात् 'अत्र इदं पृथग्' इति अपोभियते तद् अपोद्धारव्यवहारकारणं पृथक्त्वम् / तच्च एकत्वसंख्याविशेषितम् एकत्ववत् नित्यम् अनित्यञ्च बोद्धव्यम् / द्विपृथक्त्वादि तु परार्द्धपृथक्त्वान्तं द्वित्वादिवदनित्यमेव / अप्राप्तिपूर्विका प्राप्तिः संयोगः , प्राप्तिपूर्विका च अप्राप्तिर्विभागः / तौ च द्रव्येषु यथाक्रम 15 संयुक्त-विभक्तप्रत्ययजनकौ अनित्यावेव / 'इदं परम् , इदमपरम्' इति यतोऽभिधान-प्रत्ययौ भवतः तद् यथाक्रमं परत्वम् अपरत्वञ्च, तच्च अनित्यमेव / बुद्ध यादयश्च प्रयत्नान्ता अनित्यो एव / "गुरुत्वञ्च पृथिवी-उदकवृत्ति पतनक्रियानिबन्धनम् / तच्च पार्थिव-आप्याऽणुषु नित्यम् , द्वथणुकादिषु अनित्यम् / "द्रवत्वं पृथिवी-उदक-ज्वलनवृत्ति स्यन्दनहेतुः / तच्च पृथिवी-तेजसो 1 "परिमाण मानव्यवहारकारणम् / तच्चतुर्विधम् अथ त्र्यणुकादिषु वर्तमानयोः महत्त्वदीर्घत्वयोः परस्परतः को विशेषः द्वयणुकेषु चाणुत्वह्रस्वत्वयोरिति ? तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः महत्सु दीर्घमानीयताम् दीपेषु च महदानीयतामिति विशिष्टव्यवहारदर्शनात् / अणुत्वह्रस्वत्वयोस्तु विशेषस्तद्दर्शिनां प्रत्यक्ष इति / " प्रश० भा० पृ० 130 / 2 “अनित्येऽनित्यम् / " “नित्ये नित्यम् / " वै० सू०७१।१८,१९ / 3 “अनित्यं त्र्यणुकादावेव / " प्रश० भा० पृ०१३० / ४“नित्यं परिमण्डलम् / " वै. सू० 120 / 5 "पृथक्त्वमपोद्धारव्यवहारकारणम् / तत्पुनरेकद्रव्यमनेकद्रव्यञ्च / तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः / " प्रश० भा० पृ. 138 / ६"संयोगः संयुक्तप्रत्ययनिमित्तम्"अप्राप्तयोः प्राप्तिः संयोगः / " प्रश. भा० पृ. 139 / ७विभागो विभक्तप्रत्ययनिमित्तम... प्राप्तिपूर्विका अप्राप्तिर्विभागः / " प्रश० भा० पृ० 151 / ८"परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम् / " प्रश० भा० पृ० 164 / ९विभुद्रव्यविशेषगुणानामनित्यत्वनियमात् / १०"संयोगाभावे गुरुत्वात् पतनम् / " वै० सू० 5.1 / 4 / “अपां संयोगाभावे गुरुत्वात् पतनम् / " वै. सू. 5 / 2 / 3 / "गुरुत्वं जलभूम्योः पतनकर्मकारणम् / " प्रश. भा० पृ० 263 / 11 “द्रवत्वात् स्यन्दनम् / " वै० सू० 5 / 2 / 4 / "द्रवत्वं स्यन्दनकर्मकारणं त्रिद्रव्यवृत्ति / " प्रश० भा० पृ. 264 / ...