________________ लघी० प्रमाणप्र० का०७] गुणपदार्थवादः 273 णेन लक्षिताः 'शुक्लः पटः, मधुरमानम् , सुगन्धिर्मंगमदः, शीतलं जलम्' इत्यादिविशिष्टप्रत्यया (याद्) द्रव्यादन्तरत्वेन प्रसिद्धा रूपादयश्चतुर्विंशतिरेव गुणाः / उक्तञ्च सूत्रकृता-"रूपरस-गन्ध-स्पर्शाः संख्या परिमाणानि पृथक्त्वं संयोग-विभागौ परत्वा-ऽपरत्वे बुद्धयः सुख-दुःखे इच्छा-द्वेषौ प्रयत्नश्च गुणाः' [ वैशे० सू० 1 / 1 / 6 ] इति सूत्रसगृहीताः सप्तदश, चशब्दसमुञ्चिता गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्म-अधर्म-शब्दाश्च सप्त इति / "तत्र रूपं चक्षुर्ग्राह्यम्, पृथिवी-उदक-ज्वलनवृत्तिः / " [प्रश० भा० पृ० 104 ] "रसो रसनेन्द्रियग्राह्यः, पृथिवी-उदकवृत्तिः।" [प्रश० भा० पृ० 105 ] “गन्धो घ्राणग्राह्यः, पृथिवीवृत्तिः / " [प्रश० भा० पृ० 105] "स्पर्शः त्वगिन्द्रियग्राह्यः, पृथिवी-उदक-ज्वलन-पवनवृत्तिः।" [ प्रश० भा० पृ० 106 ] एते च रूपरसगन्धस्पर्शाः पार्थिवपरमाणुष्वनित्याः पावकसंयोगात्तत्र पाऊँजरूपाद्युत्पत्तः, अपतेजोवाय्वणुषु यथासंभवं नित्याः कुतश्चित्तेषां तत्र अन्यप्रकारेण अनु- 10 त्पत्तेः, पार्थिवादिकार्यद्रव्येषु अनित्याः / ___संख्या तु एकादिव्यवहारहेतुः एकत्वादिलक्षणा, एकद्रव्या च अनेकद्रव्या च / तत्र एकसंख्या एकद्रव्या, अनेकद्रव्या तु द्वित्वादिसंख्या। सा च प्रत्यक्षत एव सिद्धा, विशेषबुद्धश्च निमित्तान्तराऽपेक्षत्वाद् अनुमानतोऽपि / तत्र एकत्वसंख्या नित्यद्रव्येषु नित्या, कार्यद्रव्येषु अनित्या। द्वित्वादिसंख्या तु परार्द्धान्ता अपेक्षाबुद्धिजन्या सर्वत्र अनित्या। 15 1 "गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुखेच्छाद्वेषप्रयनाश्चेति कण्ठोक्ताः सप्तदश, चशब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तवेत्येवं चतुर्विंशतिगुणाः।" प्रश० भा० पृ० 10 / 2 'रसनग्राह्यः प्रश० भा० / 3 "पृथिव्यादिरूपरसगन्धस्पर्शाः द्रव्यानित्यत्वादनित्याश्च / " “एतेन नित्येषु नित्यत्वमुक्तम् / " “कारणगुणपूर्वकाः पृथिव्यां पाकजाः / " वै. सू० 7112,3,6 / “पार्थिवपरमाणुषु रूपादीनां पाकजोत्पत्तिविधानम्-घटादेरामद्रव्यस्य अग्निना सम्बद्धस्य अग्न्यभिघातान्नोदनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते, तेभ्यो विभागाः, विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति / तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुषु अग्निसंयोगादौष्ण्यापेक्षात् श्यामादीनां विनाशः, पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते / तदनन्तरं भोगिनामदृष्टापेक्षादात्माऽणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते, तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः"" प्रश० भा० पृ० 106 / 4 "अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् / " "अनित्येष्वनित्या द्रव्याऽनित्यत्वात् / " वै० सू० 7.14,5 / 5 अन्यत्रकारणानुत्पत्तेः आ०। 6 “एकादिव्यवहारहेतुः संख्या / सा पुनरेकद्रव्या चानेकद्रव्या च / तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः / अनेकद्रव्या तु द्वित्वादिका परा‘न्ता / तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद् विनाश इति / " प्रश० भा० पृ० 111 / 35