________________ 272 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [ 2 विषयपरि० प्रतिनियतात्मसम्बन्धित्वस्यैव अत्रासिद्धेः / तद्धि तत्कार्यत्वात् , तदुपक्रियमाणत्वात् , तत्संयोगात् , तददृष्टप्रेरितत्वात् , तदात्मप्रेरितत्वाद्वा स्यात् ? न तावत् तत्कार्यत्वात् ; अपसिद्धान्तप्रसङ्गात् , नित्यत्वविरोधाऽनुषङ्गाच्च / नापि तदुपक्रियमाणत्वात् ; सर्वथा नित्यतया अनाधेयाऽ प्रहेयाऽतिशये तस्यापि अनुपपद्यमानत्वात् / नापि तत्संयोगात् ; सर्वत्राप्यस्य अविशेषतः 5 सर्वसम्बन्धित्वाऽनुषङ्गण अविशेषतः तत्समवायिनि ज्ञानजनकत्वप्रसङ्गात् / - नापि यददृष्टप्रेरितं प्रवर्त्तते निवर्त्तते वा तत्तस्य इत्यभिधातव्यम् ; अचेतनस्य अदृष्टस्य अनिष्टनरकादिपरिहारेण इष्टे स्वर्गादौ तत्प्रेरणाऽसंभवात् , अन्यथा ईश्वराख्यचेतनाधिष्ठातृपरिकल्पनाऽनर्थक्यम् / 'तस्य अदृष्टप्रेरणे व्यापारात् नाऽनर्थक्यम्' इत्यभ्युपगमे मनस एवाऽसौ प्रेरकोऽस्तु अलमनया परम्परया / तस्य सर्वसाधारणत्वाच्च अतो न तन्नियमो युक्तः / न च 10 अदृष्टस्यापि प्रतिनियमः सिद्धः ; तस्य आत्मनोऽत्यन्तभिन्नत्वात् / ततस्तदत्यन्तभेदेऽपि सम वायात् प्रतिनियमसिद्धिः ; इत्यप्यसुन्दरम् ; तस्य असिद्धस्वरूपत्वात् सर्वसाधारणत्वाच्च / 'येन आत्मना यन्मनः प्रेर्यते तत्तस्य' इत्यप्यसारम् ; अनुपलब्धस्य प्रेरयितुमशक्यत्वात् , तथाविधस्यापि प्रेरणे अदृष्ट-परमाण्वादेरपि प्रेरणप्रसङ्गात् ईश्वरकल्पनावैयर्थ्यम् / तन्न मनसः कुतश्चित् सिद्धिः , सिद्धौ वा नै संयोगः ; निरंशयोः आत्म-मनसोः एकदेशेन संयोगे सांश१५ त्वम् , सर्वात्मनैकत्वम् उभयव्याघातकारि स्यात् / तन्न यथोपवर्णितस्वभावं मनोर्द्रव्यमपि परेषामुपपद्यते / तदेवं परपरिकल्पितो द्रव्यपदार्थो विचार्यमाणो न घटामटाट्यते / नापि गुणपदार्थः; तस्यापि विचार्यमाणस्य यथाभ्युपगतस्वरूपस्य अव्यवस्थितेः / ननु गुणपदार्थस्य अस्माभिरभ्युपगतं स्वरूपं द्रव्याश्रितत्वादि, तस्य च प्रमाणतः तथैव प्रतीयमानत्वात् कथमव्यवस्थितिः ? तथा च तल्लक्षणसूत्रम्'द्रव्याश्रय्यगुणवान्' इत्यादि ____ "द्रव्याश्रय्यगुणवान् संयोग-विभागेष्वकारणमनपेक्षः" [वैशे० सामान्यलक्षणलक्षिताः रूपादयश्चतुर्विंशतिर्गणाः' इति वैशेषिकस्य सू० 1 / 1 / 16 ] इति / द्रव्यम् आश्रयो यस्य असौ द्रव्याश्रयी पूर्वपक्षः द्रव्य तन्त्रः, अगुणवान् निर्गुणः, संयोगविभागेष्वकारणमनपेक्षः एतेषु कर्त्तव्येषु सापेक्षं कारणत्वमस्य इत्यर्थः / अनेनं च लक्ष 1 "तद्धि तत्कार्यत्वात्तदुपक्रियमाणत्वात्।" प्रमेयक० पृ. 36 उ० / 2 “तस्य सर्वसाधारणत्वाच्चातो न तन्नियमः...।" प्रमेयक० पृ० 37 पू० / 3 न तत्संयोगः ब०, ज० / "सिद्धौ वा न संयोगः निरंशयोरेकदेशेन"।" प्रमेयक० पृ. 36 उ० / 4 " बौद्धाः खलु ‘षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः" ( अभिध०को० 1117 ) इत्यादिना मनसो ज्ञानरूपत्वमेवामनन्ति, परं योगाचारदर्शने तु षड्विज्ञानव्यतिरिक्तोऽप्यस्ति मनोधातुः / ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोराश्रयं कल्पयन्ति / " स्फुटार्थअमि० पृ० 49 / 5 अनेनैव ल-भां० /