________________ लघो० प्रमाणप्र० का०७] मनोद्रव्यवादः . . 271 लभावानां क्षणिकत्वप्रसङ्गात् अक्षणिकत्वाध्यवसायस्य सर्वत्र आशुवृत्तिप्रवृत्तत्वात् , प्रत्यक्षबाधा उभयत्र तुल्या। अथात्र यौगपद्यप्रतीतेन्ततया प्रत्यक्षत्वाऽनुपपत्तेर्न क्रमप्रतीतिबाधकत्वम् ; ननु कुतोऽस्या भ्रान्ततासिद्धिः ? एकमनःपूर्वकत्वेन तद्योगपद्याऽनुपपत्तेः इति चेत् ; चक्रकप्रसङ्गः-तत्प्रतीतेन्ततासिद्धौ हि प्रत्यक्षत्वाऽनुपपत्तिसिद्धिः, तत्सिद्धौ च क्रमप्रतीतेरबाध्यत्वसिद्धिः, तत्सिद्धौ च एकमनःसिद्धिरिति / . ___ यच्चान्यदुक्तम्-'इन्द्रियार्थाः' इत्यादि ; तदप्येतेन प्रत्युक्तम् ; क्रमेण कार्यकर्तृत्वस्य एषामसिद्धत्वात् , दोघशष्कुलीभक्षणादौ युगपदपि ज्ञानपञ्चककर्तृत्वप्रतिपादनात् / मनसा अनैकान्तिकञ्चेदम् ; तद्धि इतरकारकसाकल्येऽपि क्रमेण कार्यकर्तृ न च क्रमवत्करणापेक्षम् अनवस्थाप्रसङ्गाद् अपसिद्धान्तप्रसङ्गाच्च / एतेन 'अनुत्पाद्योत्पादकत्वात्' इत्यपि प्रतिव्यूढम् ; भवदभ्युपगतेन मनसैव अनेकान्तात् ; 10 न खलु कारकान्तरसाकल्येऽनुत्पाद्योत्पादकमपि मनः क्रमवत्करणान्तराऽपेक्षम् अनवस्थाया अपसिद्धान्तस्य च प्रसङ्गात्। किञ्च, अनुत्पाद्योत्पादकत्वमस्य क्रमेण, युगपद्वा विवक्षितम् ? यदि क्रमेण ; तदा असिद्धो हेतुः, दोघशष्कुलीभक्षणादौ युगपदपि ज्ञानोत्पत्तिप्रतिपादनात् / अथ युगपत् ; तदा विरुद्धः, तथोत्पादकत्वस्य अंक्रमिककरणाऽधीनत्वात् प्रसिद्धसहभाव्यनेककार्यकारिसामग्रीवत् / . यदप्यभिहितम्-'सुखादिज्ञानम्' इत्यादि ; तदप्यभिधानमात्रम् ; हेतोः अप्रसिद्धविशेषणत्वात् , नहि सुखादिज्ञानस्य प्रत्यक्षत्वं सिद्धम् / इन्द्रियाश्रितं हि प्रत्यक्षं भवन्मते, न च . तज्ज्ञाने किञ्चिदिन्द्रियं कारणभूतमस्ति यदाश्रितत्वेन अस्य प्रत्यक्षता स्यात् / मनोऽस्तीति चेन्न ; अस्य कुतश्चिदपि अप्रसिद्धः / अत एव तत्सिद्धौ अन्योन्याश्रयः-मनःसिद्धौ हि तज्ज्ञानस्य तदाश्रितत्वेन प्रत्यक्षत्वसिद्धिः , तत्सिद्धौ च सविशेषणहेतुसिद्धेर्मनःसिद्धिरिति / विशे- 20 ज्याऽसिद्धश्चायम् ; सुखादेर्भिन्नस्य तद्ग्राहकज्ञानस्य अप्रतीतेः / अत एव आश्रयाऽसिद्धश्चायम् ; नहि 'घटादिवत् सुखादि अविदितस्वरूपं पूर्वमुत्पन्नं पुनरिन्द्रियेण सम्बद्धथते ततो ज्ञानं ग्रहणञ्च' इति लोके प्रतीतिरस्ति, प्रथममेव इष्टाऽनिष्टविषयाऽनुभवाऽनन्तरं स्वप्रकाशात्मनोऽस्य उदयप्रतीतेः / किञ्च, 'यत्र संयुक्तं मनः तत्र समवेते ज्ञानमुत्पादयति' इत्यभ्युपगमे सकलात्मसमवेते 25 सुखादौ तत् ज्ञानमुत्पादयतु, नित्यव्यापित्वेन मनसा तेषां संयोगाऽविशेषात् , तथा च प्रतिप्राणि भिन्नं मनोऽन्तरं व्यर्थम् / 'यस्य यन्मनः तत् तत्समवायिनि ज्ञानहेतुः' इत्यपि श्रद्धामात्रम् ; ___१-प्रवर्त्तमानत्वात् ब०, ज० / आशुप्रवृत्तित्वात् श्र० / २-धौ प्र-आ० / 3 पृ० 269 * पं० 7 / 4 पृ० 269 पं० 9 / 5 “भवदभ्युपगतेन मनसैवानेकान्तात् / ...' प्रमेयक० पृ. 36 उ०।६ अक्रमकर-ज०, श्र० / 7 पृ. 269 पं० 10 / 8 नहि ज्ञानस्य आ० / /