________________ 270 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० पेक्षया सजातीयत्वाऽनुपपत्तेः, नहि तन्तुत्वापेक्षया पटस्य सजातीयत्वं संभवति पटत्वापेक्षया तन्तूनां वा / अथ पृथिव्यादिद्रव्यमपेक्ष्य; तर्हि तदपेक्षया यथा तन्तुपटादीनां सजातीयत्वसंभवात् कार्यकारणभावः, तथा पुद्गलद्रव्यापेक्ष या अण्वादिना मनसः सजातीयत्वसंभवात् स स्यात् / तथा च सिद्धं मनसः पौद्गलिकत्वम् / प्रयोगः-पौद्गलिकं मनः इन्द्रियत्वात् चक्षुरादिवत् / ननु 5 चक्षुरादीनां प्रतिनियतरूपादिव्यजकतया प्रतिनियतभूतकार्यता प्रतिपन्ना, मनसस्तु अविशेषतो निखिलरूपादिव्यञ्जकतया तत्कार्यत्वाऽसंभवात् कथं तदृष्टान्तेन तस्य पुद्गलकार्यता स्यात् ? इत्यपि मनोरथमात्रम् ; तेषां प्रतिनियंतभूतकार्यत्वस्य 'द्रव्येन्द्रियं पुद्गलात्मकम्' इत्यत्र प्रपञ्चतः प्रतिक्षिप्तत्वात् / तद्भूतजातिभेदस्य च पृथिव्यादिचतुर्विधद्रव्यनिषेधावसर निषिद्धत्वात्। एक स्यैव रूपादिमतः पुद्गलस्य एते चक्षुरादयः पर्यायाः, अतो न दृष्टान्त-दार्टान्तिकयोवैषम्यम् / 10 यदि चक्षुरादीनां प्रतिनियतरूपादिव्यञ्जकत्वात् प्रतिनियतभूतकार्यता इष्यते; तदा मनसः सकलरूपादिव्यजकत्वात् सकलभूतकार्यता इष्यताम् अविशेषात् / ___ यदप्युक्तम्-'नित्यादिस्वभावस्य मनसः सद्भावसिद्धिस्तु युगपज्ज्ञानाऽनुत्पत्तिलिङ्गात्' इत्यादि; तदप्यसमीक्षिताभिधानम् ; परमाणुरूपस्य मनसः चक्षुराद्यधिष्ठायकत्वाऽनुपपत्तेः / अनेक रश्मिरूपं हि चक्षुः पार्थिवाद्यवयवस्वभावञ्च घ्राणादि, तत् किं मनसा युगपद् अधिष्ठीयते, 15 क्रमेण वा ? तत्राद्यपक्षोऽनुपपन्नः ; एकपरमाणुरूपेण अनेन युगपदनेकाऽधिष्ठानाऽनुपपत्तेः / यद् एकपरमाणुरूपं न तद् युगपदनेकाऽधिष्ठातृ यथा एकपरमाणुः, तद्रूपञ्च भवत्कल्पितं मन इति / द्वितीयपक्षेऽपि प्रत्यासन्न-दविष्ठार्थेषु क्रमेणैव प्रतीतिः स्यात् / आशुसञ्चारित्वात् क्रमप्रतीतावपि युगपत्प्रतीतिभ्रमः; इत्यप्यपेशलम् ; अवयविप्रतीतेरपि भ्रान्तित्वप्रसङ्गात् , अनेकस्मिन्नपि हि पुरोवर्त्तिन्यर्थे क्रमेण एकैकरश्मिजनितं ज्ञानं क्रमेण एकैकमेव अर्थरॅलीयात् , 20 युगपदखिलाऽवयवेषु एकाकाराप्रतीतिस्तु भ्रान्ता स्यात् , “धत्तूरकपुष्पवद् आदौ सूक्ष्माणामपि अन्ते महत्त्वम्" [ ] इति च विघटेत, नहि क्रमप्रवृत्तपरमाणूनां तथात्वं दृष्टम् / असिद्धा च युगपज्ज्ञानाऽनुत्पत्तिः ; दीर्घशष्कुलीभक्षणादौ युगपदपि रूपादिज्ञानपञ्चकोत्पत्तिप्रतीतेः। क्रमभावेऽपि आशुवृत्त्या तज्ज्ञानानां योगपद्यप्रतीतिः ; इत्यप्यचारु ; निखि कार्यकारणभावो न स्यात् तेषामन्योन्यासंभव्यवान्तरसामान्याधारतया तदपेक्षया सजातीयत्वासंभवात् / " स्या० रत्ना० पृ. 911 // १-यतका-भां०।२ पृ० 155 / 3 पृ. 238 / ४-पादिवतः आ० / 5 पृ० 269 506 / 6 “अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् / " न्यायसू० 3 / 2 / 60 / " उत्पलपत्रशतव्यतिभेदाभिमानवद् आशुभावित्वेन यौगपद्याभिमानोऽत्र द्रष्टव्यः / " प्रश० व्यो पृ० 426 / 7 एकस्मि-ब०, ज०, भा०, श्र०। 8 संगृ-ज०, भां० / 9 च न घटते श्र०।...