________________ लघी० प्रमाणप्र० का०७] मनोद्रव्यवादः [वैशे० सू० 1 / 1 / 10 ] इति वचनात् / न चैकशरीरे अनेकमनःसद्भावोऽस्ति प्रतिशरीरमेकैकतया तेषां स्थितत्वात् , अन्यथा प्रतिशरीरं युगपदेव ज्ञानोत्पत्तिः स्यात् / न च प्रतिनियतशरीरावरुद्धत्वेन अन्योन्यं तेषां संयोगः संभवति, नाप्यसंयुक्तानां तज्जनकत्वम् ; अतिप्रसङ्गात् / अथ मुक्तमनसां तदवरुद्धत्वाऽभावतोऽन्योन्यं संयोगसंभवात् तज्जनकत्वमिष्यते; तदयुक्तम् ; धर्माऽधर्मानधिष्ठितानां तेषां तज्जनकत्वाऽनुपपत्तेः / अतोऽस्य कार्यत्वानुपपत्तेः सिद्धा नित्यता। 5 ___ सद्भावसिद्धिस्तु युगपज्ज्ञानाऽनुत्पत्तिलिङ्गात् , युगपत्स्वविषयसम्बद्धेषु हि सर्वेष्वपि इन्द्रियेषु यदेव मनसा प्रेर्यते तदेव स्वविषये बुद्धिमुत्पादयतीति / तथा, 'इन्द्रियार्था युगपत्सन्निहिताः स्वकार्ये क्रमवत्कारणापेक्षाः, इतरसामग्रीसद्भावेऽपि क्रमेण कार्यकर्तृत्वात् , हस्ताद्य. पेक्ष-अयस्कारादिवत् / चक्षुरादिकं क्रमवत्कारणापेक्षम् , कारणान्तरसाकल्ये सत्यपि अनुत्पाद्योत्पादकत्वात् , वासी-कर्त्तर्यादिवत् / सुखादिज्ञानम् इन्द्रियार्थसन्निकर्षजम् , प्रत्यक्षत्वे सति ज्ञान- 10 त्वात् , चक्षुरादिप्रभवरूपादिज्ञानवत्' इत्याद्यनुमानाच्च / तच्च आशुसञ्चारित्वेन अस्खलद्गतित्वाद् अस्पर्शम् , अस्पर्शत्वादेव आकाशवन्नित्यम् , क्रमेण अर्थपरिच्छेदकत्वादव्यापकम्", अहटविशेषवशाच्च "प्रत्यात्मभिन्नम् इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'तस्य आरम्भकं कारणं सजातीयं विजातीयं वा' इत्यादि; तदसमीचीनम् ; यतः किमपेक्ष्य कारणस्य सजातीयेतरचिन्ता 15 षट्पदार्थपरीक्षायां वैशेषिकाभ्यु प्रतन्यते-पृथिव्यादिद्रव्यमपेक्ष्य, अवान्तरसामान्यं वा ? यदि पगतस्य पूर्ववर्णितस्वभावस्य अवान्तरसामान्यम् ; 'तैदा तन्तुपटादीनामपि कार्यकारणभावो न मनोद्रव्यस्य खण्डनम् प्राप्नोति तेषामन्योन्याऽसंभवि-अवान्तरसामान्याधारतया तद१-कत्र श-श्र० / 2 " प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् / " वै० सू० 3 / 2 / 3 / "ज्ञानायोगपद्यादेकं मनः / " न्यायसू० 3 / 2 / 58 ।३"आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च लिङ्गम्।" वै० सू० 3 / 2 / 1 / “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् / " न्यायसू. 1 / 1 / 16 / 4 " चक्षुरादयो वा क्रमवत्कारणापेक्षाः सद्भावेऽपि क्रमेण कार्यजनकत्वात्"यथा वासीकतादि हस्तम् / " प्रश० व्यो० पृ. 425 / प्रश० कन्दली पृ० 90 / 5 अयस्कान्तादि-भां०। 6 “सत्यपि आत्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते।.." प्रश० भा० पृ० 89 / “आत्मेन्द्रियार्थाः कारणान्तरापेक्षाः सद्भावेऽपि अनुत्पाद्योत्पादकत्वात् , ये हि सद्भावेऽपि कार्यमनुत्पाद्य पश्चादुत्पादयन्ति ते सापेक्षाः यथा तन्त्वादयः अन्त्यसंयोगापेक्षा इति / " प्रश. व्यो० पृ० 424 / प्रश. कन्दली पृ० 90 / 7 “सुखादिप्रतीतिरिन्द्रियजा अपरोक्षप्रतीतित्वाद् रूपादिप्रतीतिवत् / " प्रश० कन्दली पृ० 90 / 8 “रूपादिग्रहणानि चक्षुरादिव्यतिरेकेण अधिष्ठायकान्तरापेक्षाणि अयुगपदुत्पत्तेः , तद्यथा-अनेकशिल्पपर्यवदातस्य पुरुषस्य अनेकं वास्यादि युगपत् सन्निधानेनोपस्थितं हस्ताद्यधिष्ठायकापेक्षं न युगपदनेकरथक्रियां निवर्तयति, तथा चक्षुरादि न युगपदनेकं ज्ञानं करोति तस्मात्तदपि अधिष्ठायकान्तरमपेक्षते इति... चक्षुरादीन्द्रियं आत्मप्रवृत्तावधिष्ठायकान्तरापेक्षं अयुगपत्प्रवृत्तेः वास्यादिवत् ।..."न्यायवा० पृ. 81 / .9 “प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारि चेति / " प्रश० भा० पृ० 89 / 10 “तदभावादणु मनः / " वै. सू० 1123 / “यथोक्तहेतुत्वाच्चाणु / " न्यायसू० 3 / 2 / 69 / 11 “प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् / " प्रश. भा० पृ.८९ / 12 पृ. २६८५०२०।१३."तदा तन्तुंपटादीनामपि