________________ 268 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० छिन्नोऽछिन्नावयवयोः सङ्घटनं पश्चादिति चेत् ; न; एकान्तेन छेदाऽनभ्युपगमात् पद्मनालतन्तुवद् अच्छेदस्याप्यभ्युपगमात् , तथाभूताऽदृष्टवशाच्च तत्सङ्घटनमविरुद्धमेव / __ यदप्युक्तम् -'शरीरपरिमाणत्वे मूर्त्तत्वाऽनुषङ्गात्' इत्यादि; तत्रै किमिदं मूर्त्तत्वं नाम यद् आत्मनोऽनुषज्येत-असर्वगतद्रव्यपरिमाणत्वम् , रूपादिमत्त्वं वा ? तत्र आद्यपक्षो न दोषावहः; 5 अभीष्टत्वात् , नहि इष्टमेव दोषाय जायते / द्वितीयपक्षस्तु अनुपपन्नः ; व्याप्त्यभावात् , नहि 'यद् असर्वगतं तत् नियमेन रूपादिमत्' इति अविनाभावोऽस्ति, मनसोऽसर्वगतत्वेऽपि तदसंभवात् / अतो न आत्मनः शरीरेऽनुप्रवेशाऽनुपपत्तिः यतो निरात्मकं तत् स्यात् , असर्वगतद्रव्यपरिमाणलक्षणमूर्त्तत्वस्य मनोवत् तदप्रतिबन्धकत्वात् / 'रूपादिमत्त्वलक्षणमूर्त्तत्वो पेतस्यापि हि जलादेः भस्मादावनुप्रवेशो न प्रतिबध्यते, आत्मनस्तु तद्रहितस्यापि तत्र असौ 10 प्रतिबध्यते' इति महच्चित्रम् ! ___ ततो यद् यथा निर्बाधबोधे प्रतिभासते तत् तथैव परमार्थतः सद्व्यवहारमवतरति यथा पुरः प्रतिनियतदेश-काल-आकारतया घटः, शरीरान्तः प्रतिनियतदेशकालाकारतया निर्बाधबोधे प्रतिभासते च आत्मा इति / न चायमसिद्धो हेतुः; शरीराद् बहिः तत्प्रतिभासाऽभावस्य प्रतिपादितत्वात् / उक्तप्रकारेण च अनवद्यस्य बाधकप्रमाणस्य कस्यचिदप्यसंभवात् न विशेष१५ णाऽसिद्धत्वम् / तथा, आत्मा व्यापको न भवति, सामान्यविशेषवत्त्वे सति अस्मदादिप्रत्यक्ष त्वात् , यद् यद् एवंविधं तत् तत् तथा यथा घटादि, सामान्यविशेषवत्त्वे सति अस्मदादिप्रत्यक्षश्च आत्मा, तस्माद् व्यापको न भवतीति / तन्न परेषां यथाभ्युपगतस्वभावम् आत्मद्रव्यमपि घटते / नापि मनोद्रव्यम् ; नित्यादिस्वभावस्य अस्यापि कुतश्चित् प्रमाणादप्रसिद्धः / . ननु कार्यत्वाऽनुपपत्तेः नित्यस्वभावता मनसः सिद्धैव, तदनुपपत्तिश्च तदारम्भककारणा२० 'युगपज्ज्ञानाऽनुत्पत्तेः अस्ति मनः ऽभावात् सुप्रसिद्धा / तस्य हि आरम्भकं कारणं विजातीयम् , पृथग् द्रव्यम् तच्च नित्यं परमाणु- सजातीयं वा स्यात् ? तत्र आद्यपक्षोऽनुपपन्नः ; विजातीयस्य रूपं प्रत्यात्मभिन्नं च ' इति वैशे- आरम्भकत्वाऽभावात् , " विजातीयानामनारम्भकत्वम् " [ - षिकस्य पूर्वपक्षः- ] इत्यभिधानात् / द्वितीयपक्षोऽप्ययुक्तः ; यतः मनःप्रादु र्भावे मनस एव सजातीयत्वम् , तथा च एकमनःप्रादुर्भावे कारणभूताऽनेकमनःसद्भाव२५ प्रसङ्गः एकस्य द्रव्यान्तरोत्पत्तौ अकारणत्वात् , "द्रव्याणि द्रव्यान्तरमारभते ( रभन्ते )" 1 "ननु कथं छिन्नाछिन्नयोः सङ्घटनं पश्चात् ? न; एकान्तेन छेदानभ्युपगमात् पद्मनालतन्तुवदविच्छेदस्याप्यभ्युपगमात् / " प्रमेयक पृ० 176 उ० / स्या० मं० पृ. 65, का० 9 / 2 पृ. 261 पं० 6 / 3 "तत्र केयं मूर्तिीम असर्वगतद्रव्यपरिमाणं रूपादिमत्त्वं वा ?" प्रमेयक० पृ० 174 पू० / सन्मति० टी० पृ० 145 / स्या. रत्ना० पृ०. 902 / स्या० म० पृ०६४ / ४-यतानु-श्र० / 5 तस्य आ-ब०।