________________ लघी० प्रमाणप्र० का०७] आत्मद्रव्यवादः 267 संयोगनिरपेक्षस्य तत्सामर्थ्यमिष्यताम् / दृश्यते हि हस्ताद्याश्रयेण अयस्कान्तादिना स्वाश्रयाऽसंयुक्तस्य भूभागस्थितस्य लोहादेः आकर्षणम् / ___ यच्चान्यदुक्तम्'-'सावयवं शरीरमनुप्रविशन्नात्मा' इत्यादि; तदप्युक्तिमात्रम् ; सावयवत्वेन भिन्नाऽवयवारब्धत्वस्य घटादावप्यसिद्धः / न खलु घटादिः सावयवोऽपि प्राक्प्रसिद्धसमानजातीयकपालसंयोगपूर्वको दृष्टः, कुम्भकारकरादिव्यापारान्वितात् मृत्पिण्डात् प्रथममेव पृथुबु- 5 नोदराद्याकारस्याऽस्य उत्पत्तिप्रतीतेः / द्रव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वम् , तच्च बहिरिव अन्तरप्यनुभूयत एव / न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः; काष्ठे लोहलेख्यत्वोपलम्भात् वज्रेऽपि तथाभावप्रसङ्गात् , प्रमाणबाधनम् उभयत्रापि तुल्यम् / न च उक्तलक्षणकार्यत्वाभ्युपगमेऽपि आत्मनोऽनित्यत्वाऽनुषङ्गात् प्रतिसन्धानाऽभावोऽनुषज्यते ; कथञ्चिदनित्यत्वे सत्येव अस्य उपपद्यमानतया वक्ष्यमाणत्वात् / 10 एतेन 'बालशरीरपरिमाण' इत्यादि / प्रत्युक्तम् ; युवर्शरीरपरिमाणाऽवस्थायाम् आत्मनो बालशरीरपरिमाणपरित्यागेऽपि सर्वथा विनाशाऽसंभवात् विफणावस्थात्यागेन उत्फणावस्थोत्पादे सर्पवत् / अतः कथं परलोकाभावोऽनुषज्यते पर्यायतः तस्य अनित्यत्वेऽपि द्रव्यतो नित्यत्वात् ? यदप्युक्तम्-'शरीरच्छेदे तस्यापि छेदप्रसङ्गः' इति; तदप्यपेशलम् ; कथञ्चित् तच्छेदस्य इष्टत्वात् / शरीरसम्बद्धात्मप्रदेशेभ्यो हि तत्प्रदेशानां छिन्नशरीरप्रदेशे अवस्थानम् आत्मन- 15 श्छेदः, स चात्र अस्त्येव ; अन्यथा शरीरात् पृथग्भूताऽवयवस्य कम्पोपलब्धिर्न स्यात् / न च "छिन्नावयवाऽनुप्रविष्टस्य आत्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः / तत्रैव अनुप्रवेशात् , कथमन्यथा छिन्ने हस्तादौ कम्पादितल्लिङ्गस्यादर्शनम् ? न च अन्यत्र गतत्वात्तस्य तत्रं तल्लिङ्गाऽनुपलब्धिरित्यभिधातव्यम् ; एकत्वादात्मनः शेषस्यापि तेन सह गमनप्रसक्तेः / नापि तदवस्थितस्य अस्य तत्रैव विनष्टत्वान्न तदुपलब्धिः इत्यभिधातव्यम् ; शेषस्यापि एकत्वेन 20 'तेद्वद् विनाशप्रसक्तेः / न चैकत्र सन्ताने अनेक आत्मा ; अनेकाऽर्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाऽभावप्रसङ्गात् शरीरान्तरव्यवस्थिताऽनेकज्ञानावसेयाऽर्थसंवित्तिवत् / अतः अन्यत्राऽगतेः तत्राऽसत्त्वात् अविनष्टत्वाच्च तत्रैव तदनुप्रवेशोऽनुमीयते / कथं 1 पृ० 260 पं० 22 / 2 " न खलु घटादिः सावयवोऽपि प्राक्प्रसिद्धसमानजातीयकपालसंयोगपूर्वकः / " प्रमेयक० पृ. 176 पू० / सन्मति० टी० पृ. 149 / स्या. मं० पृ. 63, का० 9 / ३-त्यान-आ०। 4 "युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासंभवात् विफणावस्थोत्पादे सर्पवत् इति कथं परलोकाभावोऽनुषज्यते / " स्या० मं० पृ. 65, का० 9 / 5 पृ० 261 पं० 11 / ६-दे छेद-ब०, ज० / ७–नां विभिन्नश-भां०, श्र० / 8 शरीरपृ-ज० / ९-स्य सकम्पो-जः / 10 तच्छिन्ना-भां० / ११-त्र लिङ्गा-ब०, ज०। 12 तद्विनाश-आ० / पृ० 261 पं० 8 /