________________ 266 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० प्रति उपसर्पन्तः' इति धर्मिविशेषणम् 'देवदत्तगुणाकृष्टाः' इति साध्यधर्मः 'तं प्रति उपसर्प- . णवत्त्वात्' इति साधनधर्मः परस्य कल्पनाशिल्पिकल्पित एव स्यात् / शरीरात्मसंयोगस्य च देवदत्तशब्दवाच्यत्वे तं प्रति चैषामुपसर्पणे 'तद्गुणाकृष्टास्ते' इत्यायातम् , न च गुणेषु गुणाः सन्ति निर्गुणत्वात्तेषाम् / आत्मसंयोगविशिष्टं शरीरं तच्छब्दवा५ च्यम् ; इत्यत्रापि तदेव विरुद्धत्वं द्रष्टव्यम् / शरीरसंयोगविशिष्ट आत्मा तच्छब्दवाच्यः; इत्य त्रापि आत्मपक्षभावी दोषः स्यात् , तथाविधस्याप्यस्य नित्य-व्यापित्वेन सर्वत्र सर्वदा सन्निधानाऽनिवारणात् , न खलु घटसंयुक्तमाकाशं मेर्वादौ न सन्निहितम् / अथ शरीरसंयुक्त आत्मप्रदेशः तच्छब्देन उच्यते; स किं काल्पनिकः, पारमार्थिको वा ? काल्पनिकत्वे 'कल्पितात्मप्रदेशगुणाऽऽकृष्टाः पश्वादयः तल्लक्षणाऽऽत्मानं प्रति उपसर्पणवत्त्वात्' इति तद्गुणानामपि काल्पनिकत्वं प्रसाधयेत्, तथा च सौगतस्य इत्र तद्गुणकृतः प्रेत्यभावो न पारमार्थिकः स्यात् / नहि कल्पितस्य अग्नेः रूपादयो दाहादिकार्य वा पारमार्थिक दृष्टम् / अथ पारमार्थिकः; स किम् आत्मनः अभिन्नः, भिन्नो वा ? यदि अभिन्नः ; तदा . . आत्मैव असौ इति नोक्तदोषपरिहारः / अथ भिन्नः; तर्हि तद्विशेषगुणाकृष्टाः पश्वादयः' इत्येतत् तस्यैव आत्मत्वं प्रसाधयति, इति अन्यात्मकल्पनाऽनर्थक्यम् / कल्पने वा 'सावयवत्वेन 15 कार्यत्वम् अनित्यत्वञ्च स्यात्' इत्युक्तम् / / यदप्यभिहितम्'-'आत्मनोऽसर्वगतत्वे दिग्देशान्तरवर्तिभिः परमाणुभिः' इत्यादि; तदप्यभिधानमात्रम् ; 'यद् येन संयुक्तं तं प्रति तदेव उपसर्पति' इति नियमाऽसंभवात् , अयस्कान्तं प्रति अयसः तेनाऽसंयुक्तस्यापि आकर्षणोपलम्भात् / यस्य चात्मा सर्वगतः तस्य आरब्धकार्यैः अन्यैश्च परमाणुभिर्युगपत् संयोगात् तथैव तच्छरीरारम्भं प्रति एकमुखीभूतानां तेषाम् उपसर्पणप्रसङ्गान्न जाने कियत्परिमाणं तच्छरीरं स्यात् / अथ 'ये तत्संयोगाः तददृष्टाऽपेक्षाः ते एव स्वसंयोगिनां परमाणूनामाद्यं कर्म आरचयन्ति नान्ये' इत्युच्यते; ननु केयं तेषां तददृष्टापेक्षा नाम-एकार्थसमवायः, उपकारः, सह आद्यकर्मजननं वा ? तत्र आद्यः पक्षोऽनुपपन्नः; सर्वपरमाणुसंयोगानां देवदत्ताऽऽत्मनि अदृष्टेन सह एकार्थसमवायसंभवात् / द्विती यपक्षोऽप्ययुक्तः; अपेक्ष्याद् अपेक्षकस्य असम्बन्धाऽनवस्थानुषङ्गेण उपकारस्यैवाऽसंभवात् / 25 सह आद्यकर्मजननम् ; इत्यप्यसत् ; अविशेषतः सर्वत्र तज्जननस्यापि प्रसङ्गात् , तत्संयोगा ऽदृष्टयोरन्यतरस्य केवलस्यैव तज्जननसामर्थ्य परापेक्षाऽनुपपत्तेश्च / यदि पुनः स्वहेतोरेव अदृष्ट-संयोगयोः सहितयोरेव कार्यजननसामर्थ्यमिष्यते ; तर्हि तत एव अदृष्टस्यैव स्वाश्रय 20 1 पृ० 260 पं० 19 / 2 “स्यादेवं यदि यद्येन संयुक्तं तं प्रति तदेवोपसर्पति इति नियमः स्यात् , न चास्त्ययस्कान्तं प्रत्ययसः तेनासंयुक्तस्याप्युपसर्पणोपलम्भात् / " "प्रमेयक० पृ. 175 उ०। स्या. मं० पृ० 62, कारिका 9 / ३-ननस्यातिप्र-आ०, भा० /