________________ लघो० प्रमाणप्र० का०७] . आत्मद्रव्यवादः 265 क्यम् , 'यद् देवदत्तं प्रत्युपसर्पति तद् देवदत्तगुणाकृष्टम् तं प्रति उपसर्पणात्' इति हेतुश्च अनैकान्तिकः स्यात् / अदृष्टान्तरात्तस्य तं प्रति उपसर्पणे अनवस्था, तस्यापि अदृष्टान्तरात् तं प्रति उपसर्पणप्रसङ्गात् / अथ द्वीपान्तरवर्त्तिद्रव्यसंयुक्तात्मप्रदेशस्थमेव तत् तेषां तं प्रति उपसर्पणहेतुः; न ; अन्यत्र प्रयत्नादौ आत्मगुणे तथाऽनभ्युपगमात् , न खलु प्रयत्नो प्रासादिसंयुक्तात्मप्रदेशस्थ एव प्रासादेः देवदत्तमुखं प्रति उपसर्पणहेतुः अन्तरालप्रयत्नवैफल्यप्रस- 5 ङ्गात् / सर्वत्र च अदृष्टस्य वृत्तौ सर्वद्रव्यक्रियाहेतुत्वं स्यात् , 'यददृष्टं यद् द्रव्यमुत्पादयति तददृष्टं तत्रैव क्रियां करोति' इत्यत्रापि 'शरीरारम्भकपरमाणुषु क्रिया न स्यात्' इत्युक्तम् / ____ कालात्ययापदिष्टश्चायं हेतुः; प्रत्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वात् , अदृष्टस्य हि आश्रयः आत्मा, स च द्वीपान्तरवर्तिद्रव्यैर्वियुक्तमेव आत्मानं स्वसंवेदनप्रत्यक्षतः प्रतिपद्यते इति / तद्वियुक्तत्वेन अतस्तत्प्रतीतावपि आत्मनस्तद्र्व्यैः संयोगाऽभ्युपगमे घटादीनां मेर्वा- 10 दिभिः संयोगः किन्न स्यात् यतः सांख्यदर्शनं न स्यात् ? प्रमाणबाधनम् उभयत्र समानम् / किञ्च, धर्माऽधर्मयोः द्रव्यान्तरसंयोगस्य च आत्मा एक आश्रयः, सच भवन्मते निरंशः, अतो धर्मेण अधर्मेण उभाभ्यां वा सर्वात्मनाऽस्य आलिङ्गिततनुत्वान्न तत्संयोगादेस्तत्रावकाशः, तेन वा न धर्मादेः इति / अथ तदालिङ्गिततत्स्वरूपपरिहारेण द्रव्यान्तरसंयोगादिः तत्र प्रवर्त्तते; तर्हि घटादिवद् आत्मनः सावयवत्वं स्वारम्भकावयवारभ्यत्वमनित्यत्वञ्च स्यात् / 15 ___एतेन एतन्निरस्तम्-'देवदत्तं प्रति उपसर्पन्तः पश्वादयो देवदत्तगुणाकृष्टाः तं प्रति उपसर्पणवत्त्वात् प्रासादिवत्' इति; तेषां तद्गुणाकृष्टत्वं प्रोक्ताशेषदोषानुषङ्गात् / देवदत्त - शब्देन चात्र कोऽर्थः अभिप्रेतः-शरीरम् , आत्मा, तत्संयोगः, आत्मसंयोगविशिष्टं शरीरम् , तत्संयोगविशिष्ट आत्मा, शरीरसंयुक्त आत्मप्रदेशो वा ? यदि शरीरम् ; तर्हि तं प्रति उपसर्पणात् तद्गुणाकृष्टाः पश्वादयः इत्यात्मविशेषगुणाकृष्टत्वे साध्ये शरीरगुणाकृष्ट- 20 त्वस्य साधनाद् विरुद्धो हेतुः। अथ आत्मा; तस्य समाकृष्यमाणाऽर्थदेशकालाभ्यां सर्वदाऽभिसम्बन्धात् न तं प्रति किञ्चिद् उपसर्पत, नहि अत्यन्ताऽऽश्लिष्टकण्ठं कामिनी कामुकमुपसर्पति / अन्यदेशो हि अर्थः अन्यदेशमर्थ प्रति उपसर्पति यथा लक्ष्यं प्रति बाणादिः, अन्यकालं वा प्रति अन्यकालः यथा अङ्कुरं प्रति अपराऽपरशक्तिपरिणामलाभेन बीजादिः / न चैतदुभयं नित्य-व्यापित्वाभ्याम् आत्मनि सर्वत्र सर्वदा सन्निहिते संभवति / अतो 'देवदत्तं 25 . 1 "न खलु प्रयत्नो प्रासादिसंयुक्तात्मप्रदेशस्थ एव...।" प्रमेयक० पृ० 152 उ० / सन्मति० टी० पृ. 143 / 2 पृ. 260 पं. 4 / ३-वेऽत्रोक्ता-ब०, ज०। 4 "तत्र देवदत्तशब्दवाच्यः कोऽर्थः 1 शरीरमात्मा तत्संयोगो वाऽऽत्मसंयोगविशिष्टं शरीरं वा शरीरसंयोगविशिष्ट आत्मा शरीरसंयुक्त आत्मप्रदेशो वा " प्रमेयक. पृ० 173 उ० / सन्मति.टी. पृ. 144 / 5 तत्प्रति ब०, ज० / ६नित्यत्वव्या-ब०, ज० / 34