________________ 264 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० मन्त्रादेः आकृष्यमाणाऽङ्गनादिदेशेऽसतोऽपि आकर्षणादिकार्यकर्तृत्वोपलम्भात् / 'कार्यत्वे सति'. इति विशेषणञ्च किमर्थम् ? काल-ईश्वरादिना व्यभिचारनिवृत्त्यर्थमिति चेत् ; तर्हि कालईश्वरादिकम् अतद्गुणपूर्वकमपि यदि तदुपकारकम् कार्यमपि किञ्चिद् अन्यपूर्वकमपि तदु पकारकं भविष्यति इति सन्दिग्धविपक्षव्यावृत्तिकत्वाद् अनैकान्तिको हेतुः, सर्वज्ञत्वाऽभावे 5 साध्ये वक्तृत्वादिवत् / _ 'ग्रासादिवत्' इति दृष्टान्तश्च साध्यविकलः; तत्र हि आत्मनः को गुणः अभिप्रेतःधर्मादिः, प्रयत्नो वा ? यदि धर्मादिः ; साध्यवत् प्रसङ्गः। अथ प्रयत्नः / ननु कोऽयं प्रयत्नो नाम ? आत्मनः तदवयवानां वा हस्ताद्यवयवप्रतिष्ठानां परिस्पन्दः, स तर्हि चलनलक्षणा क्रिया . कथं गुणः ? अन्यथा गमनादेरपि गुणत्वानुषङ्गात् क्रियावाोंच्छेदः स्यात् / एतेन 'अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कर्म आरभते' इत्यादि प्रत्याख्यातम् ; अदृष्टस्य उक्तप्रकारतो गुणत्वाऽसिद्धः, अतो विशेष्याऽसिद्धो हेतुः / विशेषणाऽसिद्धश्च तदेकद्रव्यत्वाऽप्रसिद्धेः / तद्धि किम् एकस्मिन् द्रव्ये संयुक्तत्वात् , समवायेन वर्तनात् , अन्यतो वा स्यात् ?. न तावत् संयुक्तत्वात् ; संयोगस्य गुणत्वेन द्रव्याश्रयत्वात् अदृष्टस्य च अद्रव्यत्वात् , अन्यथा गुणवत्त्वेन अस्य द्रव्यत्वाऽनुषङ्गात् 'क्रियाहेतुगुणत्वात' इति वचो विघटते / समवायेन 15 वर्तनञ्च समवाये सिद्धे सिद्धयेत्, स चासिद्धो निषेत्स्यमानत्वात् / तृतीयपक्षस्तु अनभ्युपगमादेव अयुक्तः / क्रियाहेतुत्वमप्यस्याऽसिद्धम् ; तथाहि-देवदत्तशरीरसंयुक्तात्मप्रदेशे वर्तमानमदृष्टं द्वीपान्तरवर्तिषु मणिमुक्ताफलेषु देवदत्तं प्रति उपसर्पणवत्सु क्रियाहेतुः, उत् द्वीपान्तरवर्त्तिद्रव्यसंयु क्तात्मप्रदेशे, किं वा सर्वत्र ? तत्र आद्यविकल्पोऽनुपपन्नः ; अतिव्यवहितत्वेन तत्रास्य 20 संबन्धाऽभावतः क्रियाहेतुत्वाऽनुपपत्तेः / अथ स्वाश्रयसंयोगसम्बन्धसंभवात् तदभावोऽसिद्धः ; तदयुक्तम् ; तस्य सर्वत्र सद्भावतः सर्वस्य आकर्षणप्रसङ्गात् / 'यदद्दष्टेन यत् जन्यते तदहटेन तदेव आकृष्यते न सर्वम्' इत्यप्ययुक्तम् ; देवदत्तशरीरारम्भकपरमाणूनां तददृष्टाऽजन्यतया आकर्षणाऽभावप्रसङ्गात् , तथाप्याकर्षणे अतिप्रसङ्गः / 'द्वितीयविकल्पेऽपि यथा वायुः स्वयमुपसर्पणवान् अन्येषां तृणादीनां तं प्रति उप२५ सर्पणहेतुः तथा अदृष्टमपि स्वयं तं प्रति उपसर्पद् अन्येषामुपसर्पणहेतुः, द्वीपान्तरवर्तिद्रव्य संयुक्तात्मप्रदेशस्थमेव वा ? प्रथमपक्षे स्वयमेव अदृष्टं तं प्रति उपसर्पति, अदृष्टान्तराद्वा ? स्वयमेवास्य तं प्रति उपसर्पणे द्वीपान्तरवर्तिद्रव्याणामपि तथैव तत्प्रसङ्गात् अदृष्टकल्पनाऽनर्थ १-णं कि-आ० / 2 "साध्यांवकलं चेदं निदर्शनं ग्रासादिवदिति तत्र हि आत्मनः ... / " प्रमेयक० पृ. 172 पू० / सन्मति० टी० पृ. 148 / ३-प्रविष्टानां ब०, ज०।४ पृ. 260 पं० 9 / ५-ति विव-व., ज० / 6 सम्बन्धाभावात भां० / 7 “अथ यददृष्टेन यजन्यते..., प्रमेयक. पृ० १७२उ० / सन्मति टी. पृ. 143 / स्या. रत्ना० पृ. 906 /