________________ लघी० प्रमाणप्र० का०७] आत्मद्रव्यवादः 263 यस्य हि प्रमाणाऽगोचरत्वं तस्य कथं कृतबुद्धिविषयत्वं स्यात् ? तन्न आत्मनो विचार्यमाणो:गुपरिमाणप्रतिषेधो घटते। ___ यदपि तत्सिद्धये 'अस्मदादिप्रत्यक्षविशेषगुणाऽधिकरणत्वात्' इति साधनमुक्तम'; तदप्ययुक्तम् ; तत्प्रतिषेधे प्रोक्ताशेषदोषानुषङ्गात् , सिद्धसाध्यताप्रसङ्गाच्च ; अणुपरिमाणप्रतिषेधमात्रस्य घटादिवद् आत्मन्यपि अभ्युपगतत्वात् / नित्यद्रव्यत्वञ्च आत्मनः कथञ्चिद् विवक्षितम् , सर्वथा वा ? कथञ्चिच्चेत् ; घटादिना अनेकान्तः, तस्य अणुपरिमाणाऽनधिकरणत्वे कथञ्चिन्नित्यद्रव्यत्वे च सत्यपि व्यापित्वाऽभावात् / अथ सर्वथा; तदसिद्धम् ; सर्वथा नित्यस्य वस्तुनोऽर्थक्रियाकारित्वाऽभावतः खरविषाणवत् सत्त्वस्यैवाऽसंभवात् / ___ एतेन ‘अस्पर्शवेंद्र्व्यत्वम्' आत्मनो नित्यत्वसाधनाय यदुक्तम् तदपि प्रत्युक्तम् ; अतो 10 हि तस्य कथञ्चिन्नित्यत्वसाधने सिद्धसाध्यता। सर्वथा तत्साधने हेतोरनन्वयत्वम् , आकाशादोनामपि सर्वथा नित्यत्वस्य प्रतिषिद्धत्वात् / एतेन 'क्षणिकविशेषगुणाधिकरणत्वात्' इत्यपि प्रत्युक्तम् ; विद्युदादिना अनैकान्तिकत्वाच्च; क्षणिकभासुररूपादिलक्षणविशेषगुणाधिकरणत्वेऽपि अस्य सर्वर्थी नित्यत्वाऽसंभवात् / अथ भासुररूपादेः क्षणिकविशेषगुणत्वं नास्ति वह्नयादौ तस्य अक्षणिकत्वप्रतीतेः ; तर्हि बुद्धथादेरपि 15 तद्विशेषगुणत्वं माभूद् ईश्वरे तस्य अक्षणिकत्वप्रतीतेः / यदप्युक्तम्-'देवदत्ताङ्गनाद्यङ्गम्' इत्यादि; तदप्यसाम्प्रतम् ; यतः तत्कारणत्वेनाऽभिप्रेता 'ज्ञानदर्शनादयो देवदत्तात्मगुणाः, धर्माऽधौं वा ? प्रथमपक्षे कालात्ययापदिष्टो हेतुः; ज्ञानादीनां देवदत्ताङ्गनाङ्गादिजन्मनि अव्याप्रियमाणानां तदेहे एव प्रत्यक्षादितः प्रतीतेः / अथ धर्माऽधौं ; तर्हि तदङ्गादिकार्य तन्निमित्तम् अस्माभिरपि इष्यत एव; तदात्मगुणत्वं तु तयो- 20 नेष्यते अचेतनत्वात् शब्दादिवत् / न च सुखादिना हेतोर्व्यभिचारिता; अस्य अचेतनत्वाऽभावात् , तद्विरुद्धेन स्वसंवेदनलक्षणचैतन्येन अस्य व्याप्तत्वात् / नाप्यसिद्धता; तथाहिअचेतनौ तौ स्वग्रहणविधुरत्वात् घटादिवत् / न ज्ञानेन अनेकान्तः; अस्य स्वग्रहणात्मकत्वप्रसाधनात् / प्रसाधयिष्यते च कर्मणां पौद्गलिकत्वं मोक्षविचाराऽवसरे इत्यलमतिप्रसङ्गेन / अस्तु वा तयोस्तद्गुणत्वम् ; तथापि न तदङ्गादिप्रादुर्भावदेशे तत्सद्भावसिद्धिः / न खलु 25 'कार्यदेशे सन्निहितमेव सकलं कारणं कार्यजन्मनि व्याप्रियते' इति नियमोऽस्ति, अञ्जनतिलके. 1 पृ० 259 पं० 27 / २-वद्रव्यं आ०, ब०, ज० / 3 पृ. 260 50 1 / 4 पृ. 260 पं० 2 / ५-लक्षणगुणा-ब०, ज० / ६-थाऽनित्यत्वसंभ-श्र० / 7 पृ. 260 पं०४ / 8 “यतो देव. दत्ताङ्गनाङ्गादिकार्यस्य कारणत्वेनाभिप्रेता ज्ञानदर्शनादयो देवदत्तात्मगुणा धर्माधौं वा ?..." प्रमेयक० पृ० 151 उ० / सन्मति० टी० पृ० 147 / स्या० रत्ना० पृ० 906 / ९-णात्मत्व-श्र० / १०-क ढव्यादेःब०, ज० / . .... .. .. ... . ..