________________ 262 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० शोल्लेखिशब्दाऽप्रयोगः तथापि कथं प्रत्यक्षेण तदननुभवः ? नहि शब्दानुविद्धत्वं प्रत्यक्षस्य. स्वरूपम् , येन तदभावे तस्य अर्थस्वरूपविवेचकत्वाऽभावः स्यात् , तत्र तदनुविद्धत्वस्य प्रागेव कृतोत्तरत्वात् / अतः अनुभवोत्तरकालीन एव सर्वत्र शब्दप्रयोगः, अनुभूते हि अनेकधर्मा ध्यासिते वस्तुनि यत्रांशे अनुभव॑प्रबोधनिबन्धनं सङ्केतस्मरणमुपजायते तत्रैव शब्दप्रयोगः नान्यत्र, 5 तत्कथं तदप्रयोगात् तदनुभवाऽभावः ? नियतदेशोल्लेखिशब्दाऽप्रयोगात् देशनैयत्यस्य अन नुभवे च काल-आकारनैयत्यस्याप्यननुभवः स्यात् , नहि 'घटोऽयम, सुख्यहम्' इत्यादिबहिरन्तःप्रतीतौ देश-काल-आकारनैयत्योल्लेखिनाम् अत्र-इदानीम-ईदृशशब्दानां प्रयोगोऽस्ति / अतः अत्र प्रतीतौ प्रतिनियतस्य वस्तुस्वरूपस्य कस्यचिदपि प्रतिभासाऽभावात् खपुष्पप्रतीतितो नाऽस्याः कश्चिद्विशेषः स्यात् / सत्त्वाऽसत्त्वप्रतिभासकृतः सोऽत्रास्तीति चेन्न; सदसत्शब्द१० योरप्रयोगे तस्याप्यसंभवात् / अस्तु वाऽसौ ; तथापि परमाण्वाकाशप्रतीतितः किंकृतोऽस्या विशेषः स्यात् ? स्फुटत्व-अस्फुटत्वप्रतिभासकृतः इति चेन्न; नियतदेशकालाऽऽकारग्रहणा-ऽप्रहणव्यतिरेकेण स्फुटत्वाऽस्फुटत्वप्रतिभासस्यैव असंभवात् / ततः प्रत्यक्षप्रतीतेः इतरप्रतीतितो. विशेषमिच्छता देशादिनैयत्येन प्रतिभासः तच्छब्दाऽप्रयोगेऽपि अभ्युपगन्तव्यः, इति सिद्धा पक्षस्य प्रत्यक्षबाधा हेतोश्च कालात्ययापदिष्टता / 15 किञ्च, अणुपरिमाणाऽनधिकरणत्वम् तत्परिमाणाधिकरणत्वप्रतिषेधः, स किं पर्युदासरूपः, प्रसज्यरूपो वा स्यात् ? यदि पर्युदासरूपः ; तदाऽसौ भावान्तरस्वीकारद्वारेण प्रवर्त्तते / भावान्तरञ्चाऽत्र-परममहापरिमाणाऽधिकरणत्वम्, अवान्तरपरिमाणाऽधिकरणत्वं वा स्यात् ? प्रथमपक्षे विशेषणाऽसिद्धो हेतुः, यथा 'अनित्यः शब्दः अनित्यत्वे सति बाह्येन्द्रियप्रत्यक्षत्वात्' इति / द्वितीयपक्षे तु विरुद्धविशेषणः, यथा 'अनित्यः शब्दः नित्यत्वे सति बाह्येन्द्रियप्रत्यक्षत्वात्' इति / प्रसज्यपक्षे तु असिद्धत्वम् ; तुच्छस्वभावाऽभावस्य अभावविचाराऽवसरे प्रमाणाऽगोचरचारितया प्रतिपादयिष्यमाणत्वात् / सिद्धौ वा किमसौ साध्यस्य स्वभावः, कार्य वा स्यात् ? यदि स्वभावः; तदा साध्यस्यापि तद्वत् तुच्छरूपताऽनुषङ्गः तुच्छस्वभावाऽभावादभिनस्वभावत्वाद् गगनेन्दोवरवत् / अथ कार्यम् ; तन्न; तुच्छस्वभावस्यास्य कार्यत्वाऽनुपपत्तेः , यत् तुच्छस्वभावं तन्न कार्यम् यथा खपुष्पम् , तुच्छस्वभावश्च भवद्भिः परिकल्पितोऽणुपरि२५ माणप्रतिषेध इति / कार्यत्वे चास्य कादाचित्कत्वप्रसङ्गात् तदुत्पत्तेः प्राक् आत्मनोऽणुपंरिमा णाधिकरणत्वं स्यात् / कार्यत्वञ्चास्य-स्वकारणसत्तासमवायः, 'कृतम्' इति बुद्धिविषयत्वं वा स्यात् ? तत्राद्यः पक्षोऽयुक्तः ; अभावस्य भवता स्वकारणसत्तासमवायाऽनभ्युपगमात् , अन्यथा भावरूपतैव अस्य स्यात् / द्वितीयपक्षोऽप्यनुपपन्नः ; तुच्छस्वभावाभावस्य तद्विषयत्वाऽनुपपत्तेः, - १-चनत्वा-श्र० / 2 पृ० 144. / 3 अनुभूयते ब०, ज० / ४-वबोध-आ० / -वभवप्रबोध-श्र० / ५-परिमाणत्वं ब०, ज० / 6 तुच्छस्वभावस्य तद्वि-आ०, ब०, ज०, भा० /