________________ लघी० प्रमाणप्र० का० 7] , आत्मद्रव्यवादः 261 न तावद् भिन्नजातीयैः ; विजातीयानामनारम्भकत्वात् / अथ समानजातीयैः / ननु समानजातीयत्वं तेषाम् आत्मत्वाभिसम्बन्धादेव स्यात्, तथा च 'आत्मभिः आत्मा आरभ्यते' इत्यायातम् , एतच्चायुक्तम् ; एकत्र शरीरे अनेकात्मनाम् आत्मारम्भकाणामसंभवात् / संभवे वा प्रतिसन्धानाऽनुपपत्तिः, न हि अन्येन दृष्टम् अन्यः प्रतिसन्धातुमर्हति अतिप्रसङ्गात् / तदारभ्यत्वे चास्य घटवद् अवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् / 5 - शरीरपरिमाणत्वे च आत्मनो मूर्त्तत्वाऽनुषङ्गात् शरीरेऽनुप्रवेशो न स्यात् मूर्तस्य मूर्तेऽनुप्रवेशविरोधात् , ततो निरात्मकमेव अखिलं शरीरमनुषज्यते / कथं वा तत्परिमाणत्वे तस्य बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः स्यात्-तत्परिमाणपरित्यागात् , अपरित्यागाद्वा ? यदि परित्यागात् ; तदा शरीरवत् तस्यानित्यत्वप्रसङ्गात् परलोकाद्यभावाऽनुषङ्गः / अथ अपरित्यागात् ; तन्न ; पूर्वपरिमाणाऽपरित्यागे शरीरवत् तस्य उत्तरपरिमाणो- 10 त्पत्त्यनुपपत्तेः / तत्परिमाणत्वे चात्मनः शरीरच्छेदे छेदप्रसङ्ग इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'आत्मा व्यापकः' इत्यादि; तदसमीचीनम् ; प्रत्यक्षबा धितपक्षनिर्देशाऽनन्तरप्रयुक्तत्वेन हेतोः कालात्ययापदिष्टत्वात् / आत्मनो व्यापकत्वादि 'सुखी अहम् ' इत्यादिप्रत्यक्षेण हि आत्मा गृह्यमाणः स्वश• निरसनपुरस्सरं शरीरपरिमाणत्वप्रसाधनम्- रीर एव गृह्यते, न परशरीरे नाप्यन्तराले, अन्यथा सर्वस्य 15 सर्वदर्शित्वापत्तिः भोजनादिव्यवहारसङ्करश्च स्यात् / ननु च अव्यापकत्वेन आत्मनः प्रतिपत्तौ पक्षस्य प्रत्यक्षबाधा युक्ता अनुष्णत्वे साध्ये अग्ने. . रुष्णत्वेन प्रतिपत्तिवत् , न चास्य तथा प्रतिपत्तिरस्ति नियतदेशाऽवच्छेदाऽभावादिति ; तद युक्तम् ; यतः कोऽयं तदवच्छेदाभावो नाम-नियतदेशाननुभवः, तदुल्लेखिशब्दाप्रयोगो वा ? तत्र आद्यः पक्षोऽनुपपन्नः ; नियतदेशाऽनुभवस्य आत्मनि प्रतीयमानत्वात् , 'सुख्यहम्' 20 इत्यादिप्रत्ययेन हि आत्मा सुखाद्यात्मकः शरीरप्रदेशे एवाऽनुभूयते, 'घटोऽयम्' इतिप्रत्ययेन पुरोदेशे पृथुबुध्नोदराद्याकारघटवत् / न खलु प्रत्यक्षेण वस्तु नियतदेशकालाकारानुभवव्यतिरेकेण अनुभवितुं शक्तम् अतिप्रसङ्गात् / द्वितीयविकल्पोऽप्ययुक्तः; यतो यदि नाम नियतदे 1 सजातीयत्वं आ० / 2 “अथ शरीरपरिमाणत्वादसिद्धमात्मनः परममहत्त्वं तथा च अल्पशरीरे अल्पो महति च महानात्मा"नन्वेतस्मिन् पक्षे सङ्कोचविकाशधर्मकत्वात् बालशरीरेऽप्यात्मनो विनाशे वृद्धावस्थायां नानात्मा सम्पद्यते इत्यन्यत्वे स्मरणं न स्यात् / न च पूर्वपरिमाणस्यानिवृत्तौ उत्तरपरिमाणेन शक्यं भवितुमिति पूर्वपरिमाणस्य आश्रयविनाशादेव निवृत्तिः / ..." प्रश० व्यो० पृ. 411 / "एवं चात्माऽकात्य॑म् / शरीरपरिमाणतायां च सत्यां"घटादिवदनित्यत्वमात्मनः प्रसज्येत''समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः / " ब्रह्मसू० शा० भा० 2 / 2 / 34 / 3 पृ० 259 पं० 23 / 4 "न चास्य तदुपेतत्वमुपपद्यते प्रत्यक्षविरोधात् ; प्रत्यक्षेण हि आत्मा...।" प्रमेयक० पृ. 171 पू० / सन्मति० टी० पृ० 142 / स्या. रत्ना० पृ. 899 / ५-देशाव्यवच्छेदा-ब०, ज० /