________________ 260 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० त्वात् घटादिवत् / तथा, नित्यद्रव्यम् आत्मा अस्पर्शवद्र्व्यत्वाद् आकाशवत् / यदि वा, नित्य आत्मा क्षणिकविशेषगुणाऽऽधारत्वात् आकाशवत् / तथा, द्रव्यम् आत्मा गुणवत्त्वात् घटवत् / यदि च आत्मा व्यापको न स्यात् , तदा देवदत्ताङ्गनाङ्गस्य द्वीपान्तरवर्तिमणिमुक्ताफलादेश्च देवदत्तोपकारकस्य उत्पादो न स्यात् , तस्य तद्गुणपूर्वकत्वात् , तथाहि-देवदत्ताऽ५ जैनाद्यङ्गं देवदत्तगुणपूर्वकम् कार्यत्वे सति तदुपकारकत्वात् प्रासादिवत् / कार्यदेशे च सन्निहितं कारणं कार्यजन्मनि व्याप्रियते नान्यथा अतिप्रसङ्गात् , अतः तदङ्गनाङ्गादिप्रादु र्भावदेशे तत्कारणवत् तद्गुणसिद्धिः, यत्र च गुणाः प्रतीयन्ते तत्र तद्गुण्यपि अनुमीयते / तमन्तरेण तेषामनुपपत्तेः। स्वाश्रयसंयोगाऽपेक्षाणामाश्रयान्तरे कर्माऽऽरम्भकत्वोपपत्तेश्च ; तथाहि-अदृष्टं स्वाश्रय१० संयुक्ते आश्रयान्तरे कर्म आरभते एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात् प्रयत्नवत् / न चास्य क्रियाहेतुगुणत्वमसिद्धम् ; 'अग्नेरूद्मज्वलनं वायोस्तिर्यपवनम् अणु-मनसोश्च आद्यं कर्म देवदत्तविशेषगुणकारितम् कार्यत्वे सति तदुपकारकत्वात् पाण्यादिपरिस्पन्दवत्' इत्यनुमानतः तत्प्रसिद्धेः / नाप्येकद्रव्यत्वम् ; तथाहि-एकद्रव्यम् अदृष्टम् विशेषगुणत्वात् शब्दवत्। 'एकद्र व्यत्वात्' इत्युच्यमाने रूपादिभिर्व्यभिचारः; तन्निवृत्त्यर्थं 'क्रियाहेतुगुणत्वात्' इत्युक्तम् / 15 ‘क्रियाहेतुगुणत्वात्' इत्युच्यमाने च हस्तमुशलसंयोगेन स्वाश्रयाऽसंयुक्तस्तम्भादिक्रियाहेतुनाऽ नेकान्तः; तत्परिहारार्थ 'एकद्रव्यत्वे सति' इति विशेषणम् / 'एकद्रव्यत्वे सति क्रियाहेतुत्वात्' इत्युच्यमाने च स्वाश्रयाऽसंयुक्तलोहादिक्रियाहेतुना अयस्कान्तेन अनेकान्तः; तन्निवृत्त्यर्थ 'गुणत्वात्' इत्युक्तम् / किञ्च, आत्मनोऽसर्वगतत्वे दिग्-देशान्तर्वर्तिभिः परमाणुभिः युगपत्संयोगाभावः, 20 अतश्च आद्यकर्माऽभावः, तदभावाद् अन्त्यसंयोगस्य तन्निमित्तशरीरस्य तेन तत्सम्बन्धस्य च अभावात् अनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात् / अस्तु वा यथाकथञ्चित् शरीरोत्पत्तिः; तथापि सावयवं शरीरं प्रत्यवयवमनुप्रविशन् आत्मा सावयवः स्यात्, सावयवत्वे चास्य पटादिवत् कार्यत्वप्रसङ्गः। कार्यत्वे चासौ समानजातीयैः, भिन्नजातीयैर्वा कारणैरारभ्येत ? 1 अथवा ब०, ज० / २-णाधिकरणत्वात् ब०, ज०, भां०, श्र० / 3 “देवदत्तविशेषगुणप्रेरितभूतकार्याः तदुपगृहीताश्च शरीरादयः कार्यत्वे सति तदुपभोगसाधनत्वात् गृहवदिति / " "प्रश० किरणा० पृ० 149 // 4 "तथा धर्माधर्मयोः आत्मगुणत्वात् तदाश्रयस्य अव्यापकत्वे न स्यात् अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनमणुमनसोस्त्वाद्यं कर्म इति तयोः स्वाश्रयसंयोगापेक्षित्वात् / यथा प्रयत्नो हस्तकर्मणि आत्मसंयोगापेक्षः तथा धर्माधर्मों आत्मसंयोग विना न कर्म कुर्याताम् आत्मगुणत्वात् / नच तत्रान्यत् कारणमस्ति' इति स्वाश्रयसंयोगापेक्षोऽदृष्ट एव कारणम् अतो व्यापकत्वाच्च परममहत्त्वम्।" प्रश. व्यो० पृ. 411 / प्रश. कन्दली पृ. 88 / 4 आद्यकमाभावादन्त्यसंयोगस्य आ० /