________________ लघी० प्रमाणप्र० का०७] दिग्द्रव्यवादः 259 प्रत्ययहेतुत्वमिति / अस्ति च तत्परावृत्तिः, यत्र हि दिक्प्रदेशे विवक्षितप्रदेशाऽपेक्षया पूर्वप्रत्ययहेतुत्वं दृष्टम् तत्रैव अपरप्रदेशाऽपेक्षया अपरप्रत्ययहेतुत्वम् / तदुक्तम् "प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः।। प्राग्भागः पुनरेतेषां तेषामुत्तरतः स्थितः // " [ ] इति / दिग्द्रव्यान्तराऽपेक्षया तत्र तत्प्रत्ययहेतुत्वे तु अनवस्था-तत्रापि तत्प्रत्ययहेतुत्वस्य अपरदिग्द्र- 5 व्यहेतुत्वप्रसङ्गात् / परस्परापेक्षया च तत्प्रदेशानां तत्प्रत्ययहेतुत्वे अन्योन्याश्रयानुषङ्गः / 'सवितुर्मेरुप्रदक्षिणमावर्त्तमानस्य' इत्यादिन्यायेन दिग्द्रव्ये प्राच्यादिव्यवहारोपपत्तौ तत्प्रदेशपङ्क्तिप्वपि अत एव तद्वयवहारोपपत्तेः अलं दिगद्रव्यकल्पनया / ___ अन्यथा देशद्रव्यस्यापि कल्पनाप्रसङ्गः, 'अयमतः पूर्वो देशः' इत्यादिप्रत्ययस्य देशद्रव्यमन्तरेणाप्यनुपपत्तेः, तथा च 'नव द्रव्याणि' इति द्रव्यसंख्याव्याघातः स्यात् / पृथिव्यादि- 10 रेव देशद्रव्यमित्यनुपपन्नम् ; तस्य पृथिव्यादिप्रत्ययहेतुत्वेन 'अयमतः पूर्वो देशः' इत्यादिप्रत्ययहेतुत्वाऽनुपपत्तेः। अथ पूर्वादिदिक्कृतः पृथिव्यादिषु पूर्वदेशादिप्रत्ययः; तदेतन्मनोरथमात्रम् ; दिशः गगनप्रदेशपङ्क्तेः उक्तन्यायेन अर्थान्तरत्वाऽसिद्धेः / नन्वेवम् आदित्योदयादिवशादेव आकाशप्रदेशपङ्क्तिष्विव पृथिव्यादिष्वपि पूर्वापरादिप्रत्ययसिद्धेः आकाशप्रदेशश्रेणिकल्पनापि अफला; इत्यप्यसमीक्षिताऽभिधानम् ; 'पूर्वस्यां दिशि पृथिव्यादयः' इति आधारा- 15 ऽऽधेयव्यवहारोपलम्भतः पृथिव्याद्यधिकरणभूतायाः तत्प्रदेशपङ्क्तः परिकल्पनस्य सफलत्वात् , प्रसाधितश्च आकाशं सुदृढप्रमाणेन प्राक् इत्यलं पुनः प्रसङ्गेन / ___एतेन. 'यदेतत्पूर्वाऽपरादिज्ञानम्' इत्याद्यनुमानम् ; तत्प्रत्युक्तम् ; तज्ज्ञानस्य मूर्त्तद्रव्यव्यतिरिक्त-आकाशप्रदेशपक्तिलक्षणपदार्थनिबन्धनतया दिग्द्रव्यनिबन्धनत्वाऽनुपपत्तेः / अतो दिग्द्रव्यस्य कुतश्चित्प्रमाणादप्रसिद्धेः 'दिग्द्रव्यम् इतरेभ्यो भिद्यते' इत्यादि वन्ध्यासुतसौ- 20 भाग्यव्यावर्णनप्रख्यमित्युपेक्षते। तन्न परपरिकल्पितं दिग्द्रव्यमपि व्यवतिष्ठते / नापि आत्मद्रव्यम् ; तस्यापि सर्वगतत्वादिधर्मोपेतस्य कुतश्चित् प्रमाणादप्रसिद्धः। नन्विदमयुक्तम् ; तद्धर्मोपेतत्वस्य अत्र अनुमानतः प्रसिद्धः। तथाहि-आत्मा व्यापकः, ... अणुपरिमाणाऽनधिकरणत्वे सति नित्यद्रव्यत्वात् , यद् यदेवम् 'अस्त्यात्मा व्यापकः शरीरपरिमा " तत् तथा यथा आकाशम् , तथा च आत्मा, तस्मात्तथा इति। 25 णत्वे दोषसंभवात् स च प्रतिशरीरं " भिन्नः' इति वैशेषिकस्य पूर्वपक्षः ___न चास्य अणुपरिमाणानधिकरणत्वमसिद्धम् ; तथाहि-अणुपरि माणाऽनधिकरण आत्मा अस्मदादिप्रत्यक्षविशेषगुणाऽधिकरण१ "व्यत्ययदर्शनाच्च; यैवैकत्र पूर्वा दिक् सैवान्यत्र दक्षिणा इति गृह्यते 'प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिणः' इति / ..." न्यायमं० पृ० 141 / 2 उद्धृतञ्चैतत्-न्यायवि० टी० पृ. 567 पू० / स्या. रत्ना० पृ. 858 / 3 " देशद्रव्यस्यापि कल्पनाप्रसङ्गात् / " प्रमेयक. पृ० 170 उ० / स्या० रत्ना० पृ. 899 / ४-व्यादिष्वधि-ब०,जः / 5 पृ० 255 पं०.२३ /