________________ 258 10 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० व्यम् पूर्वादिप्रत्ययलिङ्गत्वात् , यत्तु न तथा न तत् पूर्वादिप्रत्ययलिङ्गम् यथा क्षित्यादि, तथा चेदम् , तस्मात्तथा इति / विभुत्व-एकत्व-नित्यत्वादयश्च अस्या धर्माः कालवद् अवगन्तव्याः / न च अस्या एकत्वे प्राच्यादिभेदव्यवहारो दुर्घटः; सवितुर्मेरुप्रदक्षिणमावर्त्तमा नस्य लोकपालपरिगृहीतदिप्रदेशैः संयोगात् तस्य सुघटत्वादिति / 5. अत्र प्रतिविधीयते / यत्तावदुक्तम्-'मूर्तेष्वेव द्रव्येषु' इत्यादि तदसमीचीनम् ; यतोऽमो प्रत्ययाः कार्यभूताः सन्तः किं कारणमात्रस्याऽनुमापकाः, पर्वोक्तदिग्द्रव्यप्रतिविधान _ दिग्द्रव्यलक्षणकारणविशेषस्य वा ? प्रथमपक्षे कथमतो दिग्पुरस्सरम् आकाशप्रदेशपतेरेव " द्रव्यस्य सिद्धिः कारणमात्रस्यैव सिद्धेः ? तत्र च सिद्धसाध्यपूर्वाऽपरादिप्रत्ययहेतुत्वप्रसाधनम् ता तेषाम् आकाशलक्षणकारणपूर्वकत्वाऽभ्युपगमात्, तस्यैव 'दिग्' इति नामान्तरकरणे नाम्नि एव विवादः नाऽर्थे, दिशः ततो द्रव्यान्तरत्वाऽसिद्धेः। एतेन द्वितीयविकल्पोऽपि प्रत्याख्यातः ; दिगद्रव्यस्य हि शशविषाणवत् सर्वथाऽसंभवे कथं तत्पूर्वकत्वं तत्प्रत्ययानां स्यात् यतस्ते तस्याऽनुसापकाः स्युः ? न च तदसंभवे क्व प्राच्यादिव्यवहारः स्यात् इत्यभिधातव्यम् ? आकाशप्रदेशश्रेणिष्वेव आदित्यो दयादिवशात् प्राच्यादिव्यवहारोपपत्तेः, तथा च एषां न निर्हेतुकत्वम् नाप्यविशिष्टपदार्थहेतु१५ कत्वं स्यात् / तथाभूतप्राच्यादिदिक्सम्बन्धाच्च मूर्त्तद्रव्येषु पूर्वाऽपरादिप्रत्ययविशेषस्य उत्पत्तेः न परस्परापेक्षया मूर्त्तद्रव्याण्येव तद्धेतवः, येन ‘एकतरस्य पूर्वत्वाऽसिद्धौ अपरस्य अपरत्वाऽसिद्धिः, तदसिद्धौ च एकतरस्य पूर्वत्वाऽसिद्धिः' इति इतरेतराश्रयत्वेन उभयाऽभावः स्यात् / ननु मूर्त्तद्रव्येषु पूर्वादिप्रत्ययस्य आर्कोशप्रदेशश्रेणिहेतुत्वे तत्र तत्प्रत्ययस्य किं हेतुत्वं स्यादिति चेत् ? 'स्वरूपहेतुत्वमेव ' इति ब्रूमः / तत्प्रदेशपङ्क्तेः स्व-पररूपयोः पूर्वाऽपरादि२० प्रत्ययहेतुस्वरूपत्वात् , प्रकाशस्य स्वपररूपयोः प्रकाशहेतुस्वरूपवत् , कथमन्यथा दिक्प्रदे शेष्वपि तत्प्रत्ययोत्पत्तिः स्यात् ? तत्र हि पूर्वाऽपरादिप्रत्ययोत्पत्तिः-स्वभावतः, दिग्द्रव्यान्तराऽपेक्षया, परस्पराऽपेक्षया वा स्यात् ? यदि स्वभावतः ; तदा तत्प्रत्ययपरावृत्तिर्न स्यात् , यत्र हि दिक्प्रदेशे पूर्वप्रत्ययहेतुत्वं तत्र तदेव न अपरप्रत्ययहेतुत्वं स्यात् , यत्र च तत् न तत्र पूर्व 1 "आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच प्राची / " " तथा दक्षिणा प्रतीची उदीची च / " "एतेन दिगन्तरालानि व्याख्यातानि / " वै० सू० 2 / 2 / 14, 15, 16 / “मेरुं प्रदक्षिणमावर्त्तमानस्य भगवतः सवितुर्ये संयोगविशेषाः लोकपालपरिगृहीतदिक्प्रदेशानामन्वाः प्राच्यादिभेदेन दशविधाः संज्ञाः"" प्रश० भा० पृ. 67 / २पृ० 257 पं० 15 / ३".."अतः कारणमात्रे साध्ये सिद्धसाध्यता विशेषेण साध्ये अनुमानबाधा" |" तत्त्वसं० पं० पृ०२०९ / सन्मति० टी० पृ. 670 / स्या० रत्ना० प्र०८९८ / 4 “दिशोऽपि आकाशेऽन्तर्भावः आदित्योदयाद्यपेक्षया आकाशप्रदेशपक्तिषु इत इदमिति व्यवहारोपपत्तेः / ":" सर्वार्थसि०, राजवा० 5 / 3 / प्रमेयक० पृ० 170 उ० / स्या. रत्ना० पृ० 898 / ५-काशश्रेणि-श्र०।