________________ लघी० प्रमाणप्र० का०७] दिग्द्रव्यवादः / 257 प्रदीपस्य स्वत एव स्वप्रकाशोपलम्भतो घटादीनामपि तथा तत्प्रसङ्गात्, तथा च प्रतिनियतार्थस्वरूपव्यवस्थाविलोपः स्यात्। ___ यच्चान्यदुक्तम्-'प्रमाणाऽपेक्ष एव' इत्यादि / तत्र किमिदं प्रमाणेन युगपदनुभूयमानत्वं नाम ? प्रमाणेन सह एककालतयाऽनुभूयमानत्वमिति चेन्न; स्ववचनविरोधाऽनुषङ्गात्, एवं वदता हि भवता स्ववचनेनैव कालः प्रतिपादितः, तदनभ्युपगमे 'एककालतया' इत्यभिधातु- 5 मशक्तः, 'पूर्वक्षणभावि भूतम्' इत्यादिवचनाऽनुपपत्तेश्च, कालस्यैव क्षणाऽपरपर्यायेण अभिधानात् / अतः कालोपाधिकमेव इदं भावानां वर्तमानत्वादिकं स्वरूपं प्रमाणापेक्षया व्यवह्रियते देशोपाधिकदूर-निकटादिस्वरूपवत् / कालाऽनभ्युपगमे लोकप्रतीतिविरोधश्च ; लोके वसन्तादिकालप्रतीतिसद्भावात् , प्रतीयन्ते हि 'प्रतिनियत एव काले प्रतिनियता वनस्पतयः पुष्यन्ति' इत्यादिव्यवहारं कुर्वन्तो निखिलव्यवहारिणः, यथा 'वसन्तादिसमये एव पाटला- 10 दयः' इति / एवं कार्यान्तरेष्वपि अभ्यूह्यम् ‘प्रसवनकालमपेक्षते' इति व्यवहारात् , समयमुहूर्तादिव्यवहाराच्च तत्सिद्धिः। अतः सिद्धो वास्तवः कालः अनेकद्रव्यस्वभावः / तन्न परपरिकल्पितं कालद्रव्यमपि व्यवतिष्ठते ; नापि दिग्द्रव्यम् / नन्वस्य कालकृतपरापरादिप्रत्ययविपरीतपूर्वाऽपरादिप्रत्ययलिङ्गात् प्रतीयमानत्वात् कथ . मव्यवस्थितिः 1 तथाहि-मूर्तेष्वेव द्रव्येषु मूर्त्तद्रव्यमवधि- 15 'पूर्वाऽपरादिप्रत्ययलिङ्गात् प्रतीयमाना . ' कृत्वा 'इदम् अतः पूर्वेण, दक्षिणेन, पश्चिमेन, उत्तरेण, अस्ति दिक् पृथग् द्रव्यम्' इति वैशेषिकस्य पूर्वपक्षः " पूर्वदक्षिणेन, दक्षिणाऽपरेण, अपरोत्तरेण, उत्तरपूर्वेण, अध ___ स्तात् , उपरिष्टात् ' इति अमी दश प्रत्यया यतो भवन्ति सा 'दिक्' इति / तथा च सूत्रम्-"अतै इदम् इति यतः तदिशो लिङ्गम्।" [वैशे० सू० 2 / 2 / 10] नहि इमे प्रत्यया निर्निमित्ताः कादाचित्कत्वात् / नापि अविशिष्टनिमित्ताः ; विशिष्टप्रत्यय- 20 त्वात् 'दण्डी' इत्यादिप्रत्ययवत् / न च अन्योऽन्यापेक्षमूर्त्तद्रव्यनिमित्ताः; परस्पराश्रयत्वेन उभयप्रत्ययाऽभावाऽनुषङ्गात् / ततोऽन्यनिमित्तोत्पाद्यत्वाऽसंभवात् एते दिश एव अनुमापकाः। प्रयोगः-यदेतत् पूर्वाऽपरादिज्ञानं तत् मूर्त्तद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् तत्प्रत्ययविलक्षणत्वात् सुखादिप्रत्ययवत् / तथा, दिग्र्द्रव्यम् इतरेभ्यो भिद्यते, 'दिग्' इति वा व्यवहर्त 1 तथा प्रस-ब०, ज० / २पृ० 254 पं० 12 / 3 “वसन्तसमय एव पाटलादिकुसुमानामुद्भवो न कालान्तर इत्येवं कार्यान्तरेष्वप्यूह्यं प्रसवकालमपेक्षते इति व्यवहारात् कारणत्वं कालस्य " प्रश. व्यो० पृ० 349 / प्रमेयक० पृ० 170 पू० / ४-धिकृत्य ब०, ज० / “मूर्त्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति / " प्रश० भा० पृ. 66 / 5 “इत इदमिति यतः तद्दिश्य लिङ्गम् / " वै० सू०। प्रकृतपाठस्तु-प्रमेयक० पृ० 170 पू०, सन्मति० टी० पृ. 669 / 6 “तथा च दिगितरेभ्यो भिद्यते / " प्रश० व्यो. पृ० 357 / 33