________________ 256 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० क्रियाप्रत्ययहेतुत्वं स्यात् न पुनः युगपदादिप्रत्ययहेतुत्वम् , 'युगपत् तदुदकसञ्चारः, क्रमेण तदुदकसञ्चारः' इति क्रियाविशेषोऽपि कालोपाधिक एव प्रतीयते तदन्यक्रियावत् तत्कथं स एव कालः स्यात् ? तस्य च उक्तकार्यनिवर्त्तकस्य कालस्य 'क्रिया' इति नामान्तरकरणे नाममात्रमेव भिद्येत् / ___अथ कर्तृ-कर्मणी एव योगपद्यादिप्रत्ययस्य निमित्तम् ; तदयुक्तम् ; यतो यौगपद्यम् बहूनां कर्तृणां कार्ये व्यापारः 'युगपद् एते कुर्वन्ति' इति प्रतीतिसमधिगम्यः, बहूनां च कार्याणामात्मलाभः 'युगपद् एतानि कृतानि' इति प्रत्ययाधिरूढः ; न चात्र कर्तृमात्रं कर्ममानं वा आलम्बनम् अतिप्रसङ्गात् , यत्र हि क्रमेण कार्य जायते तत्रापि कर्तृ-कर्मणोः सद्भावात् स्यादेतद्विज्ञानम् , न चैवम् / एतेन अयुगपत्प्रत्ययोऽपि चिन्तितः ; न हि सोऽपि 'अयुगपद् एते कुर्वन्ति, अयुगपद् एतत्कृतम्' इत्यादिरूपोऽविशिष्टं कर्तृकर्ममात्रमालम्बते अतिप्रसङ्गादेव / अतः तद्विशेषणं कालोऽभ्युपगन्तव्यः, कथमन्यथा चिर-क्षिप्रव्यवहारोऽपि स्यात् ? एक एव हि कर्त्ता किञ्चिकार्य चिरेण करोति व्यासङ्गाद् अनर्थित्वाद्वा, किञ्चित्त क्षिप्रम् अर्थितया, तत्र 'चिरेण कृतम् , क्षिप्रं कृतम्' इति प्रत्ययौ विशिष्टत्वात् विशिष्टं निमित्तमाक्षिपतः इति कालसिद्धिः / तन्न 15 ग्राहकप्रमाणाऽभावात् कालस्यासंभवः।. नापि अतीतादिभेदाऽसंभवात्; स्वरूपत एवास्य अतीतादिभेदसंभवात् , स्वपररूपयोः अतीतादिस्वरूपे स्वरूपतो नियतत्वेन अस्य तत्र परापेक्षाऽनुपपत्तेः / यद् यत्र स्वरूपतो नियतम् न ( तत् ) तत्र परमपेक्षते यथा स्वपररूपप्रकाशे प्रदीपः, स्वपररूपयोः अतीतादिस्वरूपे स्वरू पतो नियतश्च काल इति / न चैवम् अर्थानामपि स्वत एव अतीतादिस्वरूपभेदोऽस्तु इत्यभि२० धातव्यम् / प्रतिनियतस्वभावत्वाद् भावानाम् / न हि एकस्य स्वभावः सर्वस्य आपादयितुं युक्तः; १-कार्यनिवर्तक-आ०, ब०, ज०, भा० / “यदि च कर्तृकर्मव्यतिरिक्ता विशिष्टप्रत्ययसम्पादिका क्रिया स्यात् संज्ञाभेदमात्रम् / .." प्रश० व्यो० पृ० 343 / २-प्रत्ययनि-ब०, ज० / 3 इति समआ०, ब०, ज० / “बहूनां कर्तणां कार्यकरणम् बहूनां कार्याणामात्मलाभ इति। तथाहि-युगपदेते कुर्वन्तीति कालम्बनं ज्ञानं युगपदेतानि कृतानि इति कार्यालम्बनं च दृष्टम् / न चात्र कर्तृमात्र कार्यमानं चालम्बनम् अतिप्रसङ्गात् / तथाहि यत्र क्रमेण कार्य तत्रापि कर्तृकर्मणोः सद्भावात् स्यादेतद्विज्ञानम् / न चास्ति, कतरस्माद् ? विशिष्टं कतारं कार्य वाऽऽलम्ब्य उत्पद्यते विज्ञानमेतदिति ज्ञायते... / " प्रश० व्यो० पृ. 343 / प्रमेयक० पृ० 170 पू० / 4 कार्यमानं श्र० / 5 अयुगपदेतत् कु-आ०, ज० / 6 “तथैक एव कर्ता किश्चित्कार्य चिरेण करोति व्यासङ्गादनर्थित्वाद्वा, किश्चित् क्षिप्रं तदर्थितया / तत्र चिरेण कृतं क्षिप्रं कृतमिति प्रत्ययो विलक्षणत्वाद् विलक्षणं कारणमाक्षिपति / ..." प्रश. व्यो० पृ. 344 / प्रमेयक० पृ. 170 पू० / तत्त्वार्थभा० टी० पृ० 430 /