________________ लघी० प्रमाणप्र० का०७] कालद्रव्यवादः प्रमाणेन हि युगपदनुभूयमानं वस्तु 'वर्तमानम्' इत्युच्यते, अयुगपदनुभूयमानं तु पूर्वक्षणभावि 'भूतम्' उत्तरक्षणभावि तु 'भविष्यत्' इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्'-'कालद्रव्यस्य' इत्यादि ; तदविचारितरमणीयम् ; यतः कुतोऽस्य स्वरूपत एव असंभवः-ग्राहकप्रमाणाऽभावात् , तत्प्रतिविधान पुरस्सरा अनेकद्रव्य - अतीतादिभेदाऽसंभवाद्वा ? तत्र आद्यपक्षोऽनुपपन्नः ; पराऽपरा- 5 रूपस्य वास्तवकालद्रव्यस्य " दिप्रत्ययलिङ्गप्रभवाऽनुमानस्यैव तत्सद्भावाऽऽवेदकप्रमाणस्य सद्भासिद्धिः . वात् / नहि तत्प्रत्यया निर्निमित्ताः कादाचित्कत्वात् , नाप्यविशिष्टनिमित्ता विशिष्टप्रत्ययत्वात् , नापि दिग्-गुण-जातिनिमित्ताः ; तज्जन्यप्रत्ययवैलक्षण्येन उत्पत्तेः / तथा हि-अपरदिगव्यवस्थितेऽप्रशस्तेऽधमजातीये स्थविरपिण्डे 'परोऽयम्' इति प्रत्ययो दृश्यते, परदिगव्यवस्थिते च उत्तमजातीये प्रशस्ते यूनि पिण्डे 'अपरोऽयम्' इति / अथ आदित्यादिक्रिया तन्निमित्तम्-जन्मनो हि प्रभृति एकस्य आदित्यपरिवर्तनानि भूयांसि इति परत्वम् , अन्यस्य च अल्पीयांसि इति अपरत्वम् / नन्वेवं कथं योगपद्यादिप्रत्ययप्रादुर्भावः स्यात् कालाऽतिरिक्तस्य निमित्तस्य अत्र विचार्यमाणस्य अनुपपद्यमानत्वात् ? तद्धि आदित्यपरिवर्तनं स्यात् , क्रियाविशेषः, कर्तृकर्मणी वा ? न तावद् आदित्यपरिवर्त्तनम् ; एकस्मिन्नपि आदित्यपरिवर्त्तने सर्वेषामुत्पादात् / आदित्यस्य हि परिवर्तनं मेरुपादक्षिण्येन 15 परिभ्रमणम् अहोरात्रमभिधीयते, तस्मिन्नेकस्मिन्नपि थौगपद्यादिप्रतीतिविषयभूतानामर्थानामुत्पादः प्रतीयते एव / तथाव्यपदेशाऽभावाच्च ; 'युगपत्कालः' इति हि व्यपदेशः , न पुनः 'युगपदादित्यपरिवर्तनम्' इति / / क्रियाविशेषोऽपि-आदित्यपरिवर्तनरूपः, घटिकादौ उदकसञ्चारादिरूपो वा ? तत्र आद्यविकल्पोऽयुक्तः ; प्रागुक्तदोषाऽनुषङ्गात् / द्वितीयविकल्पोऽप्यनुपपन्नः / तस्य तदनुमापक- 20 त्वात् ; तथाहि-'एतावति तद्घटिकायाम् उदकसञ्चारे एतावान् कालः' इति क्रियाविशेषः कालाऽनुमापकः, न पुनः स एव कालः / किञ्च, तक्रियायाः क्रियारूपतया तदन्यक्रियावत् 1 पृ० 254 पं० 6 / 2 “तथा चाधमजातीये दिग्विवक्षया परस्मिन् स्थविरपिण्डे वलिपलितादिसान्निध्यमपेक्षमाणस्य उत्कृष्टजातीयं युवानमवधिं कृत्वा इतरस्मात् परोऽयं विप्रकृष्टोऽयमिति बुद्धिर्भवति / ..." प्रश० व्यो० पृ. 343 / तत्त्वार्थभा. टी. पृ. 429 / 3. "जन्मनः प्रभृत्येकस्य आदित्यपरिवर्तनानि भूयांसि इति परत्वम् अन्यस्य चाल्पीयांसीत्यपरत्वम् , अथादित्यपरिवर्तनमेवास्तु किं कालेनेति चेत् ; न; युगपदादिप्रत्ययानुमेयत्वात् / नचादित्यपरिवर्तनादेव युगपदादिप्रत्ययाः संभवन्ति इति। एकस्मिन्नेवादित्यपरिवर्त्तने सर्वेषामुत्पादात् / " प्रश० व्यो० पृ. 343 / 4 "व्यपदेशाभावाच्च ; युगपत्काल इति हि व्यपदेशो न युगपदादित्यपरिवर्तनमिति / न च क्रियैव काल इति वाच्यम् ; युगपदादिप्र. त्ययाभावप्रसङ्गात् / ' प्रश० व्यो० पृ. 343 / 5 "क्रियामात्रमेव कालः तद्व्यतिरेकेणानुपलब्धेरिति चेन्न; तदभावे कालाभिधानलोपप्रसङ्गात् / ..." तत्त्वार्थराज पृ० 228 /