________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० स च मुख्यकालः अनेकद्रव्यम्, प्रत्याकोशप्रदेशं व्यवहारकालभेदाऽन्यथानुपपत्तेः / प्रत्याकाशप्रदेशविभिन्नो हि व्यवहारकालः कुरुक्षेत्र-लङ्काऽऽकाशप्रदेशयोः दिवसादिभेदाऽन्यथाऽनुपपत्तेः / ततः प्रतिलोकाकाशप्रदेशं कालस्य अणुरूपतया भेदसिद्धिः / तदुक्तम् " लोयाँगासपयेसे एकिकके जे ठिया हु एक्किका / रयणाणं रासीविव ते कालाण मुणेयव्वा // " [ ] इति / ननु कालद्रव्यस्य विचार्यमाणस्य स्वरूपत एव असंभवात् कस्य एकद्रव्यत्वप्रतिक्षेपेण अनेकद्रव्यत्वं प्रतिपाद्यते / नहि अतीतादिभेदभिन्नः कालः संभ'प्रमाणापेक्ष एव अयम् अतीतादि वति यत्सम्बन्धादर्थानामतीतादित्वं स्यात् ; स्वतः परतो वा व्यवहारः न तु कालकृतः इति "" अस्य तद्भेदाऽनुपपत्तेः ? स्वतो हि कालस्य अतीतादित्वे अर्थानाकालद्रव्याऽभाववादिनः पूर्वपक्षः " मपि स्वत एव तदस्तु अलं कालकल्पनया / परतोऽपि अती तादिकालान्तराभिसम्बन्धात्, अतीतादिक्रियाभिसम्बन्धाद्वा तस्य अतीतादित्वाऽभ्युपगमे प्रागुक्तदोषाऽनुषङ्गः / अतः प्रमाणाऽपेक्ष एवायमतीतादिव्यवहारः; 1 "नानाद्रव्यं कालः प्रत्याकाशप्रदेशं युगपद्वयवहारकालभेदान्यथानुपपत्तेः / प्रत्याकाशप्रदेशभिन्नो व्यवहारकालः सकृत् कुरुक्षेत्राकाशलङ्काकाशदेशयोः दिवसादिभेदान्यथानुपपत्तेः / ..." तत्त्वार्थश्लो. पृ. 399 / 2 “अनेकद्रव्यत्वे सति किमस्य प्रमाणम् ?.."उक्तं च-लोयायास पयेसे...ते कालाणू असंखदव्वाणि / " सर्वार्थसि० 5 / 39 / तत्त्वार्थश्लो. पृ. 399 / बृहद्व्यसं० गाथा 22 / श्वेताम्बराणां कालद्रव्यविषये मतभेदः ; तथाहि-“कालश्च इत्येके" तत्त्वार्थसू० 5 / 38 / “एके तु आचार्या व्याचक्षते कालोऽपि द्रव्यमिति / " तत्त्वार्थाधि० भा० 5 / 38 / “तुशब्दो विशेषपरिग्रहार्थः, स च विशेषो भेदप्रधानो नयः तबलेन कालोऽपि, अपिशब्दः चशब्दार्थः ‘कालश्च द्रव्यान्तरमागमे निरूपितम्' इति कथयन्ति। 'कति णं भन्ते दव्वा पण्णत्ता ? गोयमा छद्दव्वा पण्णत्ता, तं जहा धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पुग्गलत्थिकाए जीवत्थिकाए अद्धा समए / ( अनुयोगद्वा० द्रव्यगुणपर्यायनामसू० 124 ) “विनिवृत्तौ वा तुशब्दः / कस्य व्यावर्तकः ? धर्मास्तिकायादिपञ्चकाऽ व्यतिरिक्तकालपरिणतिवादिनो द्रव्यनयस्य इति'''यतः तत्प्रतिद्वन्दिनयानुसारिसूत्रमपरमागमे अस्ति'किमिदं भन्ते कालोत्ति पउच्चदि ? गोयमा-जीवा चेव अजीवा चेव' / इदं हि सूत्रम् अस्तिकायपञ्चकाऽ व्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि जीवाजीवद्रव्यपर्यायः कालः इति सूत्रार्थः / " तत्त्वार्थभा० टी. पृ० 430-32 / “कालद्रव्यस्य नोक्तं प्रदेशपरिमाणं तत्र तद्विवक्षया तु इदमुच्यते-सोऽनन्तस मयः / (तत्त्वार्थाधि० सू० 5 / 39)" इत्यादिना कालद्रव्यस्य अनन्तप्रदेशित्वमुक्तं तत्त्वार्थभाष्यटीकायाम् / हेमचन्द्राचार्यास्तु दिगम्बरमतमेवानुसरन्ति; तथाहि-“लोकाकाशप्रदेशस्थाः भिन्नाः कालाणवस्तु ये। भावानां परिवतीय मुख्यः कालः स उच्यते // " योगशा० / उक्तमतान्तराणां विशेषपरिशीलनायधर्मसं०, द्रव्यानुयोगत० अ० 10 श्लो. 10-18, युक्तिप्रबो० गा० 23 / इत्यादयो द्रष्टव्याः। 3 लोयायासपएसे श्र० / 4 "विशिष्टसमयोद्भूतमनस्कारनिबन्धनम् / परापरादिविज्ञानं न कालान्न दिशश्च तत् // 629 // " “विशिष्टसमयः पौर्वापर्यादिदिनोत्पन्नेष्वर्थेषु पूर्वापरादिसंकेतः तदुद्भूतो मनस्कारः आभोगः स निबन्धनमस्येति तत्तथोक्तम् / अत एव नेतरेतराश्रयदोषः; विशिष्टपदार्थसंकेतनिबन्धनत्वादस्य ज्ञानस्येति / " तत्त्वसं. पं० पृ. 209 /