________________ लघी० प्रमाणप्र० का०७] कालद्रव्यवादः 253 पत्सुप्ताः स्थिता गता वा' इत्यादौ तत्प्रत्ययानामविशेषोऽस्ति प्रतीतिविरोधात् / अस्तु वा तत्प्रत्ययाऽविशेषः; तथापि अतः कालस्यैकत्वाऽभ्युपगमे गुरुत्वादिप्रत्ययाऽविशेषात् गुरुत्वपरिमाणादेरपि एकत्वप्रसङ्गः तुल्याऽऽक्षेपसमाधानत्वात् / ततो गुरुत्व-परिमाणादेः अनेकगुणरूपतावत् कालस्य अनेकद्रव्यरूपता अभ्युपगन्तव्या। नित्य-निरंशैकद्रव्यरूपत्वे चास्य अर्थानां भूत-भविष्यत्-वर्तमानत्वं दुर्घटम् , अतीताऽ- 5 नागत-वर्तमानकालभेदाऽभावात् , सिद्धे हि तद्भेदे तत्सम्बन्धादर्थानां तथा व्यपदेशः स्यात् , नान्यथा अतिप्रसङ्गात् / न चास्य तत्सिद्धिर्घटते, नित्य-निरंशैकरूपत्वात् , यद् एवंविधम् न तत्र अतीतादिस्वरूपभेदः यथा परमाणौ, नित्यनिरंशैकरूपश्च भवद्भिः परिकल्पितः काल इति / अस्तु वा तत्र तभेदः; तथापि असौ स्वतः, अपराऽतीतादिकालसम्बन्धात् , अतीतादिक्रियासम्बन्धाद्वा स्यात् ? न तावत् स्वतः; निरंशत्व-भेदरूपत्वयोर्विरोधात् / नाप्यपराऽतीता- 10 दिकालसम्बन्धात्; तस्य एकरूपतया अपरकालस्यैव असंभवात् , संभवे वा अनवस्था, तदतीतत्वादेरपि अपराऽतीतादिकालसम्बन्धेनैव उपपत्तेः। अथ अतीतादिक्रियासम्बन्धात् तस्य अतीतादित्वम् ; ननु क्रियाणां कुतः अतीतादिरूपतासिद्धिः-अपराऽतीतादिक्रियासम्बन्धात् , तथाविधकालसम्बन्धाद्वा ? प्रथमविकल्पे अनवस्था / द्वितीयविकल्पे तु अन्योन्याश्रयःसिद्धे हि क्रियाणामतीतादित्वे तत्सम्बन्धात् कालस्य अतीतादित्वसिद्धिः , तत्सिद्धौ च तत्स- 15 म्बन्धात् तासां तत्सिद्धिरिति / - भवतु वा कुतश्चित् तत्र अतीतादिभेदसिद्धिः; तथापि कालस्य सर्वथैकत्वप्रतिज्ञाने स्ववचनविरोधः, स्ववाचैव अस्य अतीतादिरूपतया भेदप्रतिपादनात् / लोकविरोधश्च; न खलु लौकिका अतीतादिरूपस्य पूर्वाण-मध्याह्न-अपराहस्वभावस्य शीत-उष्ण-वर्षास्वरूपस्य च कालस्य एकत्वं प्रतिपद्यन्ते, प्रत्येकं तस्य तैर्भेदाऽभ्युपगमात् / अनुमानविरोधश्च; तथाहि-यत् सूक्ष्मे- 20 तरधर्माऽध्यस्तं द्रव्यम् तदनेकम् यथा पृथिव्यादि, सूक्ष्मेतरधर्माऽध्यस्तञ्च कालद्रव्यम् इति / यथैव हि पृथिव्यादिद्रव्याणां परमाणु-इतररूपतया, जीवद्रव्याणाञ्च कुन्थुगजादिजीवद्रव्यप्रभेदस्वभावतया सूक्ष्मेतरधर्माऽध्यस्तत्वाद् अनेकद्रव्यत्वम् , तथा कालद्रव्यस्यापि समय-मुहूर्त्तादितद्विशेषाऽपेक्षया तद्धर्माध्यस्तत्वसंभवात् अनेकद्रव्यत्वं प्रतिपत्तव्यम् / मुख्येतरविकल्पसंभवाच्च; न हि समय-आवलिकादिव्यवहारकालो मुख्यकालद्रव्यमन्तरेण उपपद्यते यथा मुख्यसत्त्वमन्त- 25 रेण क्वचिदुपचरितं सत्त्वम् / 1 "तद्धि किम् अपरातीतादिकालसम्बन्धात् , तथाभूतपदार्थक्रियासम्बन्धाद्वा स्यात् , स्वतो वा ? प्रथमपक्षे अनवस्था / ..." प्रमेयक. पृ० 145 पू० / सन्मति० टी० पृ. 671 / स्या. रत्ना० पृ. 894 / २“समयादीनां क्रियाविशेषाणां समयादिभिर्निर्वय॑मानानां च पाकानां समयः पाक इत्येवमादिस्वसंज्ञारूढिसद्भावेऽपि समयः कालः ओदनपाककालः इत्यध्यारोप्यमाणः कालव्यपदेशः तद्वथपदेशनिमित्तस्य मुख्यस्य कालस्य अस्तित्वं गमयति / कुतः ? गौणस्य मुख्यापेक्षत्वात् / ..." सर्वार्थसि० 5 / 22 /