________________ 252 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० कार्यकर्तृत्वाऽनुषङ्गतः तदद्वैतसिद्धिप्रसङ्गात् / 'विचित्रसहकारिवशात् तथाविधस्यापि तत्कर्तृत्वाऽविरोधः' इत्यपि अन्यत्राऽविशिष्टम् , अविद्यादेः सहकारिणो ब्रह्मण्यपि संभवात् / न च स्वरूपमभेदयतां सहकारित्वं संभवति इत्युक्तम् ईश्वरपरमाणुविचारप्रक्रमे / अतोऽत्र योग___ पद्यादिप्रत्ययाऽनुत्पत्तिरेव, यत् खलु कार्यजातम् एकस्मिन् काले कृतम् तद् 'युगपत्कृतम्' 5 इत्युच्यते, कालस्य च नित्यैकत्वादिरूपत्वे तदुत्पाद्यत्वेन कार्याणाम् एकदैवोत्पत्तिप्रसङ्गान्न किञ्चिद् अयुगपत्कृतं स्यात् / / चिर-क्षिप्रव्यवहाराऽभावश्च; यद्धि बहुना कालेन कृतं तत् 'चिरेण कृतम्' इत्युच्यते, यच्च स्वल्पेन कृतं तत् ‘क्षिप्रं कृतम्' इति, तच्चैतदुभयं कालस्य सर्वथा नित्यादिरूपतायां दुर्घटम् / ननु कालस्य तद्रूपतायां सत्यामपि उपाधिभेदाद् भेदोपपत्तेर्न योगपद्यादिप्रत्ययाभावः, तदुक्तम्" मणिवत् पाचकवद्वा उपाधिभेदात् कालभेदः' [ ] इति; तदप्यसमीक्षिताऽभिधानम् ; यतः अत्र उपाधिभेदः कार्यभेद एव, स च 'युगपत्कृतम्' इत्यत्राप्यस्त्येव इति किमित्ययुगपत्प्रत्ययो न स्यात् ? अथ क्रमभावी कार्यभेदः कालभेदव्यवहारहेतुः; अथ कोऽस्य क्रमभावः ? युगपदनुत्पादश्चेत् ; ननु 'युगपदनुत्पादः' इत्यस्य भाषितस्य कोऽर्थः ? एकस्मिन् का लेऽनुत्पादश्चेत् ; नन्वयम् इतरेतराश्रयः-यावद्धि कालस्य भेदो न सिद्धयति न तावत् कार्याणां 15 भिन्नकालोत्पादलक्षणः क्रमः सिद्धयति, यावच्च कार्याणां तथाविधः क्रमो न सिद्धयति न तावत् कालस्य उपाधिभेदाद् भेदः सिद्धयति / ततः स्वरूपत एव कालस्य भेदोऽभ्युपगन्तव्यः, तथा च 'एककालमिदम् , चिरोत्पन्नम् , अनन्तरोत्पन्नम्' इत्यादिव्यवहारः सुघटः , नान्यथा / एतेन परापरव्यतिकरोऽपि चिन्तितः, सर्वथा नित्यादिस्वभावे काले तस्याप्यनुपपद्यमानत्वात् / यथैव हि भूम्यवयवैः आलोकाऽवयवैर्वा बहुभिरन्तरितं वस्तु 'विप्रकृष्टम् , परम्' इति 20 च उच्यते स्वल्पैस्तु अन्तरितं 'सन्निकृष्टम् , अपरम्' इति च, तथा बहुभिः क्षणैः अहोरात्रादि भिश्च अन्तरितम् 'विप्रकृष्टम् , परम्' इति च उच्यते स्वल्पैस्तु अन्तरितम् 'सन्निकृष्टम, अपरम्' इति च / बहु-अल्पभावश्च गुरुत्व-परिमाणादिवद् अपेक्षानिबन्धनः कालैकत्वे सर्वथा दुर्घटः / यत् परापरादिप्रत्ययहेतुः तद् अनेकम् यथा भूम्यादिप्रदेशाः, पराऽपरादिप्रत्ययहेतुश्च काल इति / यच्चान्यदुक्तम् -'तल्लिङ्गाऽविशेषात्' इत्यादि; तदप्युक्तिमात्रम् ; तदविशेषस्य असिद्धत्वात् / 25 नहि यौगपद्यादिप्रत्ययाः तल्लिङ्गभूताः स्वरूपतोऽन्योन्यमविशिष्टाः , परस्परस्वरूपविविक्ततया तेषां प्रत्यक्षतः प्रतीतेः / प्रत्येकमपि च एषां विशिष्टताऽनुभूयत एव, नहि 'युगपद्भुक्ताः युग १-स्य नि-ब०, ज०, आ० / 2 क्षिप्रकृतम् आ० / 3 "उपाधिभेदान्मणिवत् पाचकवद्वा नानात्वोपचारः / " प्रश. भा० पृ. 64 / “यथा मणेः स्वरूपापरित्यागेनैव उपाधिभेदादुपचर्यते नानात्वं पीतो रक्त इति 'यथा वा स्वरूपापरित्यागेनैव पुरुषस्य नानाक्रियावशात् पाचकादिभेदः तद्वदिहापि / ..." प्रश. व्यो० पृ० 351 / प्रश० कन्द पृ० 66 / 4 पृ० 251 पं० 12 / /