________________ कालद्रव्यवादः लघी० प्रमाणप्र० का०७] 251 ननु कालद्रव्यस्य पराऽपरादिप्रत्ययलक्षणाल्लिङ्गात् प्रसिद्धेः कथमघटमानता ? तथाहि दिग्देशकृतपरापरादिप्रत्ययविपरीताः परापरादिविशिष्टप्रत्ययाः 'पराऽपरादिप्रत्ययाल्लिङ्गात् अस्ति / . विशिष्टकारणपूर्वकाः, विशिष्टप्रत्ययत्वात् , यो विशिष्टप्रत्ययः स नित्यः एकः विभुश्च कालः' इति / - वैशेषिकस्य पूर्वपक्षः * विशिष्टकारणपूर्वको दृष्टः यथा 'दण्डी' इत्यादिप्रत्ययः, विशि टाश्च एते परा-ऽपर-'योगपद्या-ऽयोगपद्य-चिर-क्षिप्रप्रत्यया इति। 5 पराऽपरयोर्हि दिग्-देशकृतयोर्व्यतिकरोऽत्र 'दृश्यते यत्रैव हि दिग्-देशभागे स्थिते पितरि उत्पन्नं परत्वम् तत्रैव स्थिते पुत्रेऽपरत्वम् , यत्र च स्थिते पुत्रेऽपरत्वमुत्पन्नम् तत्रैव स्थिते पितरि परत्वमुत्पद्यमानं दृष्टम् इति / अतः दिग्देशाभ्याम् अन्यन्निमित्तान्तरम् अत्र प्रत्यये अभ्युपगन्तव्यम् , तदन्तरेण तद्वयतिकराऽनुपपत्तेः / न च पराऽपरादिप्रत्ययानाम् आदित्यादिक्रिया वलिपलितादिकं वा निमित्तं युक्तम् ; तत्प्रत्ययविलक्षणत्वात् पटादिप्रत्ययवत् / तथा च सूत्रम्- 10 “अपरास्मिन् परं युगपदयुगपचिरं क्षिप्रम् इति काललिङ्गानि” [वै० सू० 2 / 2 / 6] / तल्लिङ्गाऽविशेषाद् विशेषलिङ्गाऽभावाच्च आकाशवत् तस्य एकत्व-नित्यत्व-विभुत्वादयो धर्माः प्रतिपत्तव्याः / तथाभूतस्य च कालद्रव्यस्य इतरस्माद् भेदे 'कालः' इति वा व्यवहारे साध्ये पराऽपरादिप्रत्यय एव लिङ्गम ; तथाहि-कालेः इतरस्माद् भिद्यते, 'कालः' इति वा व्यवह व्यः, पराऽपरादिप्रत्ययलिङ्गत्वात् , यस्तु न इतरस्माद्भिद्यते 'कालः' इति वा न व्यवत्रियते 15 नाऽसौ उक्तलिङ्गः यथा पृथिव्यादिः, तथा च कालः, तस्मात्तथा इति / अत्र प्रतिविधीयते / यत्तावदुक्तम् -'पराऽपर' इत्यादि ; तदसमीचीनम् ; यतः अतो _ लिङ्गात् कालः किम् एकद्रव्यस्वरूपः, अनेकद्रव्यस्वरूपो वा षट्पदार्थपरीक्षायां कालस्य . साध्येत ? तत्र आद्यपक्षोऽनुपपन्नः; नित्यनिरंशैकरूपतया नित्यैकनिरंशरूपतानिरसनपुर . विचार्यमाणस्य अस्यानुपपद्यमानत्वात् / यद् यद्रूपतया विचार्य- 20 स्सरा अणुरूप-अनेकद्रव्यत्वसिद्धिः माणं नोपपद्यते न तत् तद्रूपतया अभ्युपगन्तव्यम् यथा जगत् ब्रह्माद्यद्वैतरूपतया, नित्यनिरंशैकरूपतया विचार्यमाणो नोपपद्यते च काल इति / न चेदमसिद्धम् ; तत्र तद्रूपतायाः परस्परविलक्षणपराऽपरप्रत्ययादिकार्यभेदाऽनुपपत्त्या अतीतादितद्रूपभेदाऽनुपपत्त्या च अनुपपद्यमानत्वात् / नहि सर्वथा नित्यस्य निरंशस्य एकस्वभावस्य च अर्थस्य अनियं-विभिन्नदेशानेकस्वभावकार्यकारित्वं घटते; ब्रह्मणोऽप्येवंविधस्य अनेकग्रामारामादि- 25 १-योगपद्यचिर-व०, ज०। 2 “यत्र हि दिग्विवक्षयोत्पन्नं परत्वं तत्रैवापरत्वं यत्रैवापरत्वं तत्रैव परत्वमुत्पद्यमानं दृष्टम् / ..." प्रश. व्यो० पृ. 343 / ३-यलिंगत्ववत् श्र० / 4 तथा सू-आ०, ब०, ज०। 5 "काल इतरस्माद् भिद्यते''व्यवहारो वा साध्यते विवादापन्नं काल इति व्यवहर्त्तव्यम् परापरव्यतिकरादिलिङ्गत्वात् / " प्रश. व्यो० पृ. 342 / 6 पृ. 251 पं० 1 / 7 "निरंशैकस्वभावत्वात् पौर्वापाद्यसंभवः / तयोः सम्बन्धिभेदाच्चेदेवं तौ निष्फलौ ननु // 630 // " तत्त्वसं० / प्रमेयक. पृ० 169 उ० / स्या. रत्ना० पृ० 892 / ८-त्यावि-आ० /