________________ 250 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० कुतस्तत्सद्भावसिद्धिः भवतामपीति चेत् ? 'युगपन्निखिलद्रव्याऽवगाहकार्यात्' इति ब्रूमः / तथाहि-युगपन्निखिलावगाहः साधारणकारणाऽपेक्षः, युगपन्निखिलावगाहत्वात् , य एवंविधोऽवगाहः स एवंविधकारणाऽपेक्षो दृष्टः यथा एकसरःसलिलान्तःपातिमत्स्याद्यवगाहः, तथावगाहश्चायमिति / ननु सर्पिषो मधुन्यवगाहः, भस्मनि जलस्य, जले अश्वादे५ र्यथा, तथैव आलोक-तमसोः अशेषार्थावगाहो भविष्यति, अतः कथमस्माद् आकाशसिद्धिः ? इत्यप्यसुन्दरम् ; अनयोरपि आकाशाऽभावे अवगाहाऽनुपपत्तेः / ननु निखिलानां यथा आकाशेऽवगाहः तथा तस्यापि 'अन्यस्मिन्नधिकरणे अवगाहेन भवितव्यम्' इत्यनवस्था, तस्य स्वरूपेऽवगाहे सर्वार्थानां स्वात्मन्यवगाहप्रसङ्गात् कथम् आकाशस्य अतः सिद्धिः ? इत्यप्यपेशलम् ; आकाशस्य व्यापित्वेन स्वावगाहित्वोपपत्तितः अनवस्थाऽनुपपत्तेः, अन्येषामव्यापित्वेन स्वावगाहित्वाऽयोगाच्च, नहि किञ्चिदल्पपरिमाणं वस्तु स्वाऽधिकरणं दृष्टम् अश्वादेर्जलाद्यधिकरणत्वप्रतीतेः। कथमेवं दिक्कालात्मनाम् आकाशेऽवगाहः व्यापित्वात् ? इत्यप्यसाम्प्रतम् ; तेषां व्यापित्वाऽसिद्धेः, तदसिद्धिश्च दिग्द्रव्यस्यासत्त्वेन कालात्मनोश्च असर्वगतद्रव्यत्वेन वक्ष्यमाणत्वात् सिद्धा। नन्वेवमपि अमूर्त्तत्वेन काल-आत्मनोः पाताऽभावात् कथं तदाधेयता ? इत्यप्ययुक्तम् ; अमूर्तस्यापि ज्ञानादेः आत्मनि 15 आधेयत्वप्रसिद्धः। एतेन 'अमूर्त्तत्वात् नाऽऽकाशं कस्यचिदधिकरणम्' इत्यपि प्रत्युक्तम् ; अमूर्त्तस्याप्यात्मनो ज्ञानाधिकरणत्वप्रतीतेः / समसमयवर्तित्वात् निखिलार्थानां नाधाराऽऽधेयभावः, अन्यथा आकाशादुत्तरकालं तेषां भावः स्यात् ; इत्यप्यसमीचीनम् ; समसमयवर्तिनामपि आत्म अमूर्त्तत्वादीनां तद्भावप्रतीतेः, न खलु परेणापि अत्र पूर्वाऽपरीभावोऽभ्युपगम्यते नित्यत्वाऽभावा२० ऽनुषङ्गात् / तन्न परपरिकल्पितम् आकाशद्रव्यं घटते ; नापि कालद्रव्यम् / 1 "सव्वेसिं जीवाणं सेसाणं तय पुग्गलाणं च / जं देदि विवरमखिलं तं लोए हवइ आयासम् // 9 // " पञ्चास्तिका० / “अवगाहणालक्खणेण णं आगासत्थिकाए / " व्या० प्रज्ञ. 13 / 4 / 481 / "आकाशस्यावगाहः / " तत्त्वार्थसू० 5 / 18 / 2 "आकाशधातो रूपधातौ आलोकतमःस्वभावत्वात् / " स्फुटार्थ अ० पृ०५८ / 3 ननु अखिला-व०, ज० / “यद्याकाशं स्वप्रतिष्ठं धर्मादीन्यपि स्वप्रतिष्ठान्येव / अथ धर्मादीनामन्य आधारः कल्प्यतेआकाशस्यापि अन्य आधारः कल्प्यः तथा सत्यनवस्थाप्रसङ्गः इति चेन्नैष दोषः; नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति यत्राकाशं स्थितमित्युच्यते सर्वतोऽनन्तं हि तत् / ..." सर्वार्थसि० 5 / 12 / ४-देः एकात्म-श्र० / 5 "युगपद्भाविनामपि आधाराधेयभावो दृश्यते घटे रूपादयः शरीरे हस्तादय इति / " सर्वार्थसि० 5 / 12 / 6 प्रायः अनयैव प्रक्रियया आकाशद्रव्यस्य चर्चा-तत्त्वार्थश्लो. पृ० 431, प्रमेयक० पृ० 163 उ०, तत्त्वार्थभा० टी० पृ. 358, सन्मति० टी० पृ० 670, स्या० रत्ना० पृ. 941, इत्यादिषु द्रष्टव्या /