________________ लघी० प्रमाणप्र० का० 7] शब्दस्य आकाशगुणत्वनिरासः 249 प्रवेशन्यायेन सावयवत्वाऽङ्गीकार एव परिहारः, श्रोत्राऽऽकाशदेशात् ब्रह्माण्डवर्तिशब्दाऽऽधाराकाशदेशस्य अन्यत्वात्। ____ अव्याप्यवृत्तित्वञ्चास्य पर्युदासरूपम् , प्रसज्यरूपं वा स्यात् ? आद्यपक्षे एकदेशवृत्तित्वमेव उक्तं स्यात् , 'आकाश' हि व्याप्य शब्दो न वर्तते' इति ब्रुवता 'तदेकदेशे वर्तते' इत्यभ्युपगतं स्यात् / व्याप्यवृत्तित्वं हि सामस्त्यवृत्तित्वम् , तत्प्रतिषेधे च एकदेशवृत्तित्वं स्यात् ,तच्च 5 'आकाशस्य निष्प्रदेशत्वे अतिदुर्घटम् ' इत्युक्तम् / प्रसज्यपक्षे तु वृत्तिप्रतिषेधमात्रमेव उक्तं स्यात् / न चैतदुपपन्नम् / शब्दस्य गुणत्वेन द्रव्याश्रितत्वतः तत्प्रतिषेधविरोधात् , तत्प्रतिषेधे वा गुणत्वाऽनुपपत्तिः। यस्य सर्वथा वृत्तिप्रतिषेधः नासौ गुणः यथा वन्ध्यास्तनन्धयः, सर्वथा वृत्तिप्रतिषेधश्च शब्दस्य इति / समवायस्य तत्र तवृत्तेरभ्युपगमात् न 'एकदेशेन सामस्त्येन वा' इत्यादिदोषः; इत्यपि श्रद्धामात्रम् ; तस्य अग्रे निराकरिष्यमाणत्वात् / तन्निरवयवत्वे च 10 सन्तानवृत्त्या शब्दस्याऽऽगतस्य श्रोत्रण उपलब्धिर्न स्यात् ; अपरापर-आकाशदेशोत्पत्तिद्वारेण अस्य श्रोत्रसमवेतत्वाऽनुपपत्तेः। वोचीतरङ्गन्यायेन हि अपरापर-आकाशदेशे शब्दोत्पत्तिकल्पने कथन्नास्य सावयवत्वं सिद्धयेत् ? तन्न सर्वथा आकाशस्य अनवयवत्वं युक्तम् / नापि सर्वथा नित्यत्वम् ; तद्वत् शब्दस्यापि नित्यत्वप्रसङ्गात् / तस्य हि विनाशः आश्रयविनाशात् , विरोधिगुणप्रादुर्भावात् , तन्निमित्ताऽदृष्टाऽभावाद्वा ? न तावद् आश्रयविना- 15 शात् ; तस्य सर्वथा नित्यत्वप्रतिज्ञानात् / नापि विरोधिगुणप्रादुर्भावात् ; यतः को विरोधी गुणः-तन्महत्त्वम् , संयोगादिर्वा ? तत्राद्यपक्षोऽयुक्तः, तन्महत्त्वस्य एकार्थसमवेतत्वेन विरोधित्वाऽसिद्धः / तत्सिद्धौ वा श्रवणसमयेऽपि तदभावप्रसङ्गः अनुत्पत्तिरेव वा, सदापि तन्महत्त्वस्य सद्भावात् / द्वितीयपक्षोऽप्यनुपपन्नः; संयोगादेः शब्दोत्पादं प्रति कारणत्वेन विरोधित्वाऽनुपपत्तेः / नापि तन्निमित्तादृष्टाऽभावात् तदभावः; तुच्छाभावस्य अशेषसामर्थ्यशून्यत्वेन 20 अश्वविषाणवत् तद्विनाशाऽहेतुत्वात्। __ तदेवम् आकाशहेतुत्वस्य शब्देऽनुपपत्तेः पौद्गलिकत्वमेव अभ्युपगन्तव्यम् / तथाहि-पौद्गलिकः शब्दः , गुण-क्रियावत्त्वे सति अस्मदादिबाह्येन्द्रियप्रत्यक्षत्वात् , यदेवम् तदेवम् यथा घटादि, तथा च शब्दः, तस्मात्तथा इति / ततः शब्दस्य आकाशगुणत्वाऽसिद्धेः नाऽसौ तल्लिङ्गम् , इति नातः तत्सद्भावसिद्धिः / नन्वेवम् आकाशद्रव्यापह्नवे कथं भवतां नाऽप- 25 सिद्धान्तः स्यात् ? इत्यप्यसारम् ; परपरिकल्पितस्यैव सर्वथा नित्यनिरंशस्वभावस्याऽस्य अस्माभिः प्रतिक्षेपात् न तद्विपरीतस्य, अस्य उक्तदोषाऽगोचरचारित्वात् / १-शं व्या- आ० / २-स्यापि सर्वथा नि-श्र० / 3 अनुपपत्ति-ब०, ज० / 4 तदा हि तन्महत्त्वसद्भा-भां० / तदापि तन्महत्त्वसद्भा-श्र०। 5 "सद्दो खंदप्पभवो खंदो परमाणुसंघसंघादो। पुढेसु तेसु जायदि सद्दो उप्पादगो णिअदो // 79 // " पञ्चास्तिका० / 32