________________ 248 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० दादिप्रत्यक्षत्वे सति स्पर्शवत्त्वात् घटादिवत् / वायुना अनेकान्तश्च ; स हि सामान्यविशेषवत्त्वे सति बाझैकेन्द्रियप्रत्यक्षोऽपि अनेकद्रव्यः , चक्षुषैकेन प्रतीयमानैश्चन्द्राऽर्कादिभिश्च / अस्मदादिविलक्षणैः बाह्येन्द्रियान्तरेण तत्र प्रतीतिः, शब्देऽपि समाना, अत्र तथाऽनुपलम्भः अन्यत्रापि तुल्यः। यदपि 'अनित्यत्वे सति नियमेन अचाक्षुषप्रत्यक्षत्वात् ' इत्युक्तम्'; तदप्ययुक्तम् ; वायुना अनैकान्तिकत्वात् , स हि अनित्यत्वे सति नियमेनाऽचाक्षुषप्रत्यक्षोऽपि द्रव्यम् इति / यदपि-'व्यापकद्रव्यसमवेतत्वात् ' इत्यभिहितम् ; तदप्यभिधानमात्रम् ; असिद्धत्वात् , सिद्धे हि गुणत्वे तत्र अस्य समवेतत्वं सिद्धयेत् , न च तत्सिद्धम् उक्तप्रकारेण निरस्तत्वात् / ___ यच्चान्यदुक्तम्-'न तावत्स्पर्शवतां परमाणूनाम् ' इत्यादि; तत् सिद्धसाधनम् , तद्गुणत्वस्य 10 शब्देऽनभ्युपगमात् / यथा च अस्मदादिप्रत्यक्षत्वे शब्दस्य परमाणुविशेषगुणत्वविरोधः तथा आकाशविशेषगुणत्वविरोधोऽपि / नहि अस्मदादिप्रत्यक्षत्वं परमाणुविशेषगुणत्वमेव निराकरोति शब्दस्य न आकाशविशेषगुणत्वम् उभयत्राऽविशेषात् / यथैव हि परमाणुगुणो रूपादिः अस्मदाद्यप्रत्यक्षः तथा आकाशगुणो महत्त्वादिरपि / यदपि-'आश्रयाद् भेर्यादेरन्यत्रोपलब्धेः' इत्याद्युक्तम् / तदप्ययुक्तम् ; भेर्यादेः शब्दाss१५ श्रयत्वाऽसिद्धेः तस्य तन्निमित्तकारणत्वात् / आत्मादिगुणत्वनिषेधस्तु सिद्धसाधनात् न समाधानमर्हति / याऽपि शब्दोत्पत्तौ प्रक्रिया-'आकाशं समवायिकारणम्' इत्यादिका; साऽपि एतेन निरस्ता; शब्दस्य आकाशगुणत्वनिषेधे तं प्रति अस्य समवायिकारणत्वाऽनुपपत्तेः / यदि वा, आकाशं निरवयवं शब्दस्य समवायिकारणं स्यात् ; तर्हि तद्वत् तस्यापि व्यापित्वप्रसङ्गः / 20 देशकृतं हि नैयत्यम् अव्यापित्वमुच्य ते, तच्च आकाशस्य तत्समवायिकारणस्य अदेशत्वे अतिदुर्घटम् / यो निष्प्रदेशद्रव्यगुणः नासौ स्वाश्रयाऽव्यापकः यथा तन्महत्त्वम् , परमाणुरूपादिर्वा , निष्प्रदेशस्य आकाशस्य गुणश्च भवद्भिः परिकल्पितः शब्द इति / तस्य अव्याप्यवृत्तित्वे वा कथं तदाधारस्य आकाशस्य सावयवत्वं न स्यात् 'प्रदेशवृत्तिर्गुणः, निष्प्रदेशाधारश्च' इति कोऽन्यो जडात्मनो ब्रूयात् ? यदि न सावयवं नभो न भवेत् तदा श्रोत्रसमवेतस्येव 25 ब्रह्माण्डवर्तिनोऽपि शब्दस्य अस्मदादिभिरुपलम्भः स्यात् निरवयव-एकाकौशलक्षणश्रोत्रसम वेतत्वात् / अथ धर्माऽधर्माभिसंस्कृत कर्णशष्कुल्यवरुद्ध आकाशदेश एव श्रोत्रंम् ; तत्र ब्रह्माण्डवर्तिनः शब्दस्य असमवायात् न अस्मदादिभिरुपलम्भः; नन्वयम् अन्धसर्पबिल 1 पृ० 240 पं० 19 / 2 पृ. 241 पं० 2 / 3 पृ. 241 506 / 4 पृ० 241 पं० 9 / ५-दिसा-आ० / पृ. 242 पं० ३।६च श्र०।७-कारल-भां०। ८"श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः शब्दनिमित्तोपभोगप्रापक-धर्माधर्मोपनिबद्धः...।" प्रश. भा० पृ० 59 / 9 "नन्वयमन्धसर्पबिलप्रवेशन्यायेन सावयवत्वाङ्गीकार एव परिहारः / " स्या. रत्ना० पृ० 891 / .