________________ 247 लघी प्रमाणप्र० का०७] शब्दस्य आकाशगुणत्वनिरासः ताल्वाद्याकाशसंयोगः सकृद् एकस्य वक्तुः संभवति; प्रयत्नस्य एकत्वात्। न च प्रयत्नभेदमन्तरेण ताल्वादिक्रियापूर्वकः अन्यतरकर्मजस्ताल्वाद्याकाशसंयोगो घटते यतोऽनेकः शब्दः स्यात् / अस्तु वा कुतश्चिद् आद्यः शब्दोऽनेकः; तथापि असौ स्वदेशे शब्दान्तराण्यारभते, देशान्तरे वा ? न तावत् स्वदेशे; देशान्तरे शब्दोपलम्भाऽभावप्रसङ्गात् / अथ देशान्तरे तत्रापि तत्र गत्वा, स्वदेशस्थ एव वा देशान्तरे तान्यसौ जनयेत् ? यदि स्वदेशस्थ एव; तर्हि अदृष्टमपि शरीर- 5 देशस्थमेव देशान्तरवर्तिमणिमुक्ताफलाद्याकर्षणं कुर्यात् , तथा च "धर्माऽधर्मों स्वाश्रयसंयुक्ते आश्रयान्तरे कर्म आरभेते" [ ] इत्यस्य विरोधः। श्रोतृश्रोत्रप्रदेशे वा ततः शब्दोत्पत्तेः तद्विषयविज्ञानोत्पत्तेर्वा प्रसङ्गाद् अन्तरालशब्दानां श्रोत्रे प्राप्यकारित्वस्य च कल्पनाऽनर्थक्यम् / न च वीचीतरङ्गादौ अप्राप्तकार्यदेशत्वे सति आरम्भकत्वं दृष्टम् , येन अत्रापि तथा कल्प्येत अध्यक्षविरोधात् / अथ तद्देशे गत्वा; सिद्धं तर्हि शब्दस्य क्रियावत्त्वम् / / 10 आकाशगुंगत्वे च अस्य अस्मदादिप्रत्यक्षताऽनुपपत्तिः, तस्य अत्यन्तपरोक्षत्वात् , यः अत्यन्तपरोक्षगुणिगुणः नासौ अस्मदादिप्रत्यक्षः यथा परमाणुरूपादिः, तथा च परेण अभ्युपगतः शब्द इति / तत्प्रत्यक्षत्वे वा; अस्य अत्यन्तपरोक्ष-आकाशविशेषगुणत्वाऽयोगः, यद् स्मदादिप्रत्यक्षम् तन्न अत्यन्तपरोक्षगुणिगुणः यथा घटरूपादयः, तथा च शब्द इति / यच्चोक्तम् -'सत्तासम्बन्धित्वात्' इति; तत्र किं स्वरूपभूतया सत्तया सम्बन्धित्वं विव- 15 क्षितम् , अर्थान्तरभूतया वा ? प्रथमविकल्पे सामान्यादिभिर्व्यभिचारः, तेषां द्रव्य-कर्माऽन्यत्वे सति तथाभूतया सत्तया सम्बन्धित्वेऽपि गुणत्वाऽभावात् / द्वितीयविकल्पस्तु अयुक्तः, स्वतोऽसतामर्थानाम् अर्थान्तरभूतसत्तातः सत्त्वस्य 'स्वतोऽर्थाःसन्तु सत्तावत्' इत्यंत्र निषेत्स्यमानत्वात् / ___ यच्चान्यदुक्तम् -'शब्दो द्रव्यं न भवति एकद्रव्यत्वात् ' इति; तत्र एकद्रव्यत्वसाधनम- 20 सिद्धम् ; यतो गुणत्वे गगने एव एकद्रव्ये समवायेन वर्त्तने च सिद्ध तत् सिद्धयेत् , तच्च उक्तनीत्या अपास्तमिति कथं तत्सिद्धिः ? यदपि एकद्रव्यत्वे साधनमुक्तम्-'एकद्रव्यः शब्दः सामान्यविशेषवत्त्वे सति बायैकेन्द्रियप्रत्यक्षत्वात्' इति तदपि प्रेत्यनुमानबाधितम् ; तथाहि-अनेकद्रव्यः शब्दः अस्म १-रे तत्र ग-ब०, ज० / 2 “अग्नेरूव॑ज्वलनं वायोस्तिर्यपवनमणूनां मनसश्चाद्यं कर्म अदृष्टकारितम् / " वैशे० सू० 5 / 2 / 13 / “धर्माधर्मौ च स्वाश्रयसमवेते सुखदुःखे पराश्रये तु क्रियामारभेते...।" प्रश० व्यो० पृ० 437 / 3 “अमूर्त्तगुणस्य आत्मगुणवद् इन्द्रियविषयत्वादर्शनात् / " तत्त्वार्थराज. पृ० 48 / तत्त्वार्थश्लो० पृ० 421 / “न तावदमूर्त्तद्रव्यगुणः शब्दः गुणगुणिनोरविभक्तप्रदेशत्वेन एकवेदनवेद्यत्वाद् अमूर्त्तद्रव्यस्यापि श्रवणेन्द्रियविषयतापत्तेः / " पञ्चा० टी० पृ. 185 / 4 पृ. 240 पं० 8 / 5 पञ्चमपरिच्छेदस्य चत्त्वारिंशत्तमकारिकाव्याख्यानावसरे / 6 पृ० 240 पं० 10 / 7 पृ० 240 पं० 13 / ८एकद्रव्यं आ० / ९प्रत्यक्षानुमान-ज०।