________________ 246 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० प्रत्यासन्नतमादिपुरुषैः तीव्रतमादिभेदेन प्रतीयमानत्वाऽविशेषात् / बाणादेरपि चैवं तत्प्रसङ्गः लक्ष्यप्रदेशे प्रक्षिप्तस्य अस्यापि तथाविधैस्तैः तद्भदेन प्रतीयमानत्वसंभवात् / अथ अत्र तीव्रतमादिस्वभावक्रियानिबन्धनः तद्भेदप्रतिभासः; तदेतत् शब्देऽपि समानम् / अथ अत्र बाधकसद्भावात् क्षणिकत्वकल्पनाऽयुक्ता न बाणादौ विपर्ययात् ; ननु अत्र 5 किं बाधकम्-प्रत्यक्षम्, अनुमानं वा ? प्रत्यक्षञ्चेत् ; किम् एकत्वविषयम् , क्षणिकत्वविषयं वा ? नतावद् एकत्वविषयम् ; समविषयत्वेन तदनुकूलत्वात्। नापिक्षणिकत्वविषयम् ; शब्दे अन्यत्र वा तद्विषयस्य अस्य असिद्धत्वात् / अथ अनुमानं तद्विषयं तद्बाधकम्; तथाहि-क्षणिकः शब्दः अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्य विशेषगुणत्वात् सुखादिवत् / तदपि मनोरथमात्रम्; एकशाखाप्रभवत्ववत् कालात्ययापदिष्टत्वाद् हेतोः / न चास्य तदपदिष्टत्वमसिद्धम् ; प्रत्यभिज्ञा१० ख्यप्रत्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वात् / विभुद्रव्यविशेषगुणत्वंञ्चासिद्धम् ; शब्दस्य द्रव्यत्वप्रसाधनात् / ____वीचीतरङ्गन्यायेन च शब्दस्य उत्पत्त्यभ्युपगमे प्रथमतो वक्तृव्यापाराद् एकः शब्दः प्रादुर्भवेत् , अनेको वा ? यद्येकः; कथं नानादिक्काऽनेकशब्दोत्पत्तिः सकृत् स्यात् ? सर्वदिक्कताल्वा दिव्यापारजनितवाय्वाकाशसंयोगानाम समवायिकारणानां समवायिकारणस्य च आकाशस्य 15 सर्वगतस्य भावात सकृत् सर्वदिकाऽनेकशब्दोत्पत्त्यविरोधे शब्दस्य आरम्भकत्वाऽनुपपत्तिः / यथैव हि आद्यः शब्दो न शब्देनाऽऽरब्धः ताल्वाद्याकाशसंयोगादेव असमवायिकारणादुत्पत्तेः, तथा सर्वदिक्कशब्दान्तराण्यपि ताल्वादि व्यापारप्रभववाय्वाकाशसंयोगेभ्य एव असमवायिकारणेभ्यः तदुत्पत्तिसंभवात् / तथा च "संयोगाद्विभागात् शब्दाच्च शब्दोत्पत्तिः" [वै० सू० 2 / 2 / 31] इति प्लवते / अथ शब्दान्तराणां प्रथमः शब्दः असमवायिकारणं तत्स२० दृशत्वात् , अन्यथा तद्विसदृशशब्दान्तरोत्पत्तिप्रसङ्गो नियामकाऽभावात् ; नन्वेवं 'प्रथम स्यापि शब्दस्य अन्यस्माच्छब्दाद् असमवायिकारणादुत्पत्तिः तस्यापि अन्यस्मात् पूर्वशब्दात् ' इति अनादित्वापत्तिः शब्दसन्तानस्य स्यात् / अथ प्रथमः शब्दः प्रतिनियतः प्रतिनियताद् वक्तृव्यापारादेव उत्पन्नः स्वसदृशानि शब्दान्तराणि आरभते; तर्हि किम् आद्येन शब्देन असम वायिकारणेन कल्पितेन ? प्रतिनियतवक्तृव्यापारात् तत्प्रभवप्रतिनियतवाय्वाकाशसंयोगेभ्यः 25 स्वसदृश-अपरापरशब्दोत्पत्तिसंभवात् / तन्न एकः शब्दः शब्दान्तरारम्भकः / नाप्यनेकः; एकस्मात् ताल्वाद्याकाशसंयोगाद् अनेकशब्दोत्पत्तेरनुपपत्तेः / न च अनेकः 1 अथ बाध-भां० / २-भिज्ञानाख्य-श्र० / ३-त्वं वासि-आ० / 4 “शङ्खमुखसंयोगादाकाशे शब्दः प्रादुर्भवन् एक एव प्रादुर्भवेदनेको वा ?" तत्त्वार्थश्लो० पृ० 421 / प्रमेयक० पृ० 167 पू० / स्या० रत्ना० पृ० 942 / “वीचीतरङ्गवृत्त्यैवमन्त्यः श्रोत्रेण गृह्यते / अदृष्टकल्पना तस्मिन् पक्षे बही प्रसज्यते // 90 // " मी० श्लो. पृ. 753 / ५-त्तिः स्यात् त-भां०। 6 अपरस्मात् ब०, ज०। ७-रभेत श्र०। ८-भ्यश्च सह-ब०, ज०, भां० /