________________ 245 लघीप्रमाणप्र० का० 7] शब्दस्य आकाशगुणत्वनिरासः ___ नापि क्रियावत्त्वम् ; पूर्वदेशत्यागेन देशान्तरे समुपलभ्यमानत्वात् , यद् इत्थं देशान्तरे समुपलभ्यते तत् क्रियावद् दृष्टम् यथा बाणादि, तथा तत्र समुपलभ्यते च शब्द इति / न चेदमसिद्धम् ; वक्तृमुखप्रदेशत्यागेन श्रोतृश्रोत्रप्रदेशे शब्दस्योपलब्धः सकलजनप्रसिद्धत्वात् / नापि सामान्यादिना व्यभिचारि; तत्र विशेषणस्यास्याप्रवृत्तेः / ननु न आद्य एव आकाशतच्छङ्खमुखसंयोगादेः समवायि-असमवायि-निमित्तकारणाज्जातः शब्दः श्रोत्रेण आगत्य स- 5 म्बद्धयते येनास्य क्रियावत्त्वं स्यात् , किन्तु वीचीतरङ्गन्यायेन अपरापर एव आकाशशब्दादिलक्षणात् समवायि-असमवायि-निमित्तकारणाज्जातः अन्य एव, अतः कथमस्य क्रियावत्त्वसंभावना ? इत्यप्यसमीक्षिताभिधानम् ; सर्वत्र एवं क्रियोच्छेदप्रसङ्गात् , 'बाणादयोऽपि हि पूर्वपूर्वसमानजातीयक्षणप्रभवा लक्ष्यप्रदेशव्यापिनः न पुनः ते एव' इति कल्पयतो न वक्त्रं वक्रीभवेत् / प्रत्यभिज्ञानाद् अत्र स्थायित्वसिद्धः नैवं कल्पना, इत्यन्यत्रापि समानम्- 10 'उपाध्यायोक्तं शृणोमि शिष्योक्तं शृणोमि' इति एकत्वग्राहिणः प्रत्यभिज्ञानस्य शब्देऽपि प्रतीतेः / ननु प्रत्यभिज्ञानस्य भवन्मते दर्शन-स्मरणकारणकत्वात् , अत्र च तदभावात् कथं तदुत्पत्तिः ? न खलु उपाध्यायाद्युक्ते शब्दे दर्शनवत् स्मरणं संभवति अस्य पूर्वदर्शनाद्याहितसंस्कारप्रबोधनिबन्धत्वात् , न च कारणाऽभावे कार्यस्य उत्पत्तियुक्ता अतिप्रसङ्गात्; इत्यप्यनुपपनम् ; सम्बन्धिताप्रतिपत्तिद्वारेण अत्र एकत्वस्य प्रतीतेः, सम्बन्धितायाञ्च दर्शन-स्मरणयोः 15 सद्भावसंभवात्. प्रत्यभिज्ञानस्य उत्पत्तिरविरुद्धा / तथाहि-प्रत्यक्षानुपलम्भतोऽनुमानतो वा तत्कार्यतया तत्सम्बन्धिनं शब्दं प्रतिपद्य इदानीं तदर्शनस्मृतिप्रभवं प्रत्यभिज्ञानं तत्सम्बन्धितया शब्दं प्रतिपद्यमानम् एकत्वविशिष्टमेव प्रतिपद्यते व्यजनाऽनिलवत् , कथमन्यथा 'उपाध्यायोक्तं शृणोमि' इत्यादि प्रतीतिः स्यात् ? 'तदुक्तोद्भूतं तत्सदृशं शब्दान्तरं शृणोमि' इति प्रतीतिप्रसङ्गात् / अथ लून-पुनर्जातनख-केशादिवत् सदृश-अपरापरोत्पत्तिनिबन्धनमेतत् 20 प्रत्यभिज्ञानम् नैकत्वनिबन्धनम् ; तदेतद् बाणादावपि समानम् , इति अशेषाऽर्थानां क्षणिकत्वप्रसङ्गात् सौगतमतसिद्धिः स्यात् / ___ ननु शब्दः तीव्रतम-तीव्रतर-तीव्र-मन्द-मन्दतर-मन्दतमलक्षणषड्विधभेदभिन्नः प्रतीयते न बाणादिः, अतः तत्र तद्भेदप्रतीत्यन्यथाऽनुपपत्त्या क्षणिकत्वं परिकल्प्यते, न बाणादौ विपययात् , तत्कथं सौगतमतसिद्धिः स्यात् ? इत्यप्यविचारितरमणीयम्; तद्भेदप्रतीतेः क्षणिक- 25 त्वाऽप्रसाधकत्वात् , अन्यथा वायोरपि क्षणिकत्वप्रसङ्गः, व्यजनादिकारणकलापप्रभवस्य अस्यापि 1 "वीचीसन्तानवच्छब्दसन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य ग्रहणम् / श्रोत्रशब्दयोः गमनागमनाभावात् अप्राप्तस्य ग्रहणं नास्ति परिशेषात् सन्तानसिद्धिः / " प्रश. भा०पृ०२८८ / “यथाहि महतः पाषाणाद्यभिघातादुपजाता वीची वीच्यन्तरमारभते साऽपि पुनर्वीच्यन्तरमिति सन्तानाः तद्वच्छन्दसन्तानाः / " प्रश० व्यो० पृ० 650 / प्रश० कन्द० पृ० 289 / २-ध्यायेनोक्तं ब०, ज० / ३णत्वात् ब०, ज० / 4 तीव्रतीव्रतरतीव्रतमतीव्रमन्द-ब०, ज० / ५-कल्पते आ०, ब० /