________________ 244 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० नापि संख्याश्रयत्वम् ; 'एकः शब्दः, द्वौ शब्दो, बहवः शब्दाः' इति प्रतीत्या घटादिवत् शब्दे संख्यावत्त्वप्रसिद्धेः / अथ उपचारात् शब्दे संख्यावत्त्वप्रतीतिः; ननु किंगता संख्या तत्र उपचर्यते-कारणगता, विषयगता वा ? यदि कारणगता; तत्रापि किं समवायिकारणगता, कारणमात्रगता वाऽसौ तत्र उपचर्येत ? तत्राद्यपक्षे 'एकः शब्दः' इति सर्वदा व्यपदेशप्रसङ्गः 5 गगनलक्षणतत्समवायिकारणस्य एकत्वात् / द्वितीयपक्षे तु 'बहवः शब्दाः' इति सदा व्यपदेशः स्यात् तन्मात्रस्य बहुत्वात् / विषयसंख्योपचारे तु गगन-आकाश-व्योमादिशब्दाः बहुव्यपदेशभाजो न स्युः तद्विषयस्य एकत्वात् , पश्वादीनाञ्च बहुत्वात् ‘एको 'गोशब्दः' इति व्यपदेशः स्वप्नेऽपि दुर्लभः / यथाऽविरोधं संख्योपचारः; इत्यप्ययुक्तम् ; स्वयं संख्यावत्त्वे एव अवि रोधसंभवात् / किञ्च, विपरीतोपलम्भस्य बाधकस्य सद्भावे सति उपचारकल्पना स्यात् 10 'अग्निर्माणवकः' इत्यादिवत् , न च अग्निरहितमाणवकस्य इव एकत्वादिसंख्यारहितशब्दस्य उपलम्भोऽस्ति, इति कथम् उपचारतस्तत्र तत्कल्पना स्यात् ? तथापि तत्तथात्वकल्पने अनुपचरितमेव न किञ्चित् स्यात् / कथमेवं भवतामपि 'एकं रूपम्' इत्यादिगुणेषु संख्याव्यपदेशः ?. इत्यप्ययुक्तम् ; यन्मते हि संख्याया गुणत्वम् तन्मते एव अस्यास्तत्राऽसंभवतः तद्वन्यपदेशाऽ भावप्रसङ्गः , नाऽस्माकम् प्रमेयत्ववस्तुत्वादिवत् तद्धर्मतया तस्या अभ्युपगमात् / धर्माणाञ्च 15 गुणादौ भावो न विरुद्धयते, अन्यथा तेषामप्रमेयत्वादिप्रसङ्गः / कथमन्यथा 'षट् पदार्थाः इत्यादिव्यपदेशः स्यात् ? तन्न संख्याऽऽश्रयत्वमपि अस्य असिद्धम् / नापि संयोगाऽऽश्रयत्वम् ; वाय्वादिना अभिहन्यमानत्वात् , यद् वाय्वादिनाऽभिहन्यमानम् तत् संयोगाश्रयः यथा पाश्वादि, तेन अभिहन्यमानश्च शब्द इति। न चेदमसिद्धम् ; देवदत्तं प्रति आगच्छतः शब्दस्य प्रतिवातादिना प्रतिनिवर्त्तनप्रतीतेः , यत्र येन प्रतिनिव२० र्तनं प्रतीयते तत्र तेन अभि|तोऽस्ति यथा पाश्वादौ, प्रतिवातादिना प्रतिनिवर्त्तनं प्रतीयते च शब्दे इति / तत्प्रतिनिवर्तनप्रतीतिश्च अन्यदिगवस्थितस्य अस्य अन्यदिगवस्थितेन ग्रहणादवसीयते, यद् अन्यदिगवस्थितम् अन्यदिगवस्थितेन गृह्यते तत्र प्रतिनिवर्त्तनमस्ति यथा तृणादौ, तथाभूतः तथाभूतेन गृह्यते च शब्द इति / ननु गन्धादयो देवदत्तं प्रत्यागच्छन्तः तेन प्रतिनिवर्त्यन्ते, न च तेषां तेन संयोगः निर्गुणत्वाद् गुणानाम् ; इत्यप्यचोद्यम् ; तद्वतो द्रव्यस्यैव अनेन प्रतिनिवर्त्तनात् , केवलानां तेषां निष्क्रियत्वेन आगमनप्रतिनिवर्त्तनाऽनुपपत्तेः / अतः सिद्धं शब्दस्य संयोगाऽऽश्रयत्वम् ; क्षकारादौ अक्षरसंयोगप्रतीतेश्च / जात्यन्तरस्य अस्योत्पत्तौ सर्वत्र संयोगवातॊच्छेदप्रसङ्गः, दण्ड्यादेरपि जात्यन्तरस्यैव उत्पत्तिप्रसक्तेः / तन्नासिद्धं शब्दस्य गुणवत्त्वम् / 1 गौशब्दः आ०, ब०, ज०, भा० / २-लम्भस्य सद्भा-ब०, ज० / 3 इत्यादिगुणेषु संख्याव्य-श्र०।४-तोऽप्यस्ति श्र० /