________________ लो० प्रमाणप्र० का०७] शब्दस्य आकाशगुणत्वनिरासः . 243 यदपि 'द्रव्यकर्माऽन्यत्वे सति सत्तासम्बन्धित्वात्' इति तत्प्रसाधकं साधनमुपन्यस्तम्'; तदपि विशेषणैकदेशाऽसिद्धत्वात् न तत्प्रसाधकम् / कर्माऽन्यत्वे सत्यपि हि शब्दस्य द्रव्यान्यत्वमसिद्धम् ; द्रव्यलक्षणलक्षितत्वेन अस्य द्रव्यत्वोपपत्तेः, गुण-क्रियावत्त्वं हि द्रव्यलक्षणम् , तच्च अविकलं शब्देऽस्तीति। अतः द्रव्यं शब्दः गुण-क्रियावत्त्वात् , यद् गुणक्रियावत् तद् द्रव्यम यथा वाणादि, गुण-क्रियावांश्च शब्द इति / न चायमसिद्धो हेतुः; तस्य तद्वत्त्वप्रसाधक- 5 प्रमाणसद्भावात् / तथाहि-गुणवान् शब्दः स्पर्श-अल्पत्व-महत्त्वपरिमाण-संख्या-संयोगाऽऽश्रयत्वात् , यद् एवंविधम् तद् गुणवत् तथा बदर-आमलकादि, तथा च शब्दः, तस्मात्तथा इति / तत्र न तावत् स्पर्शाऽऽश्रयत्वमस्य असिद्धम् ; तथाहि-स्पर्शवान् शब्दः स्वसम्बद्धाऽर्थान्तराऽभिंघातहेतुत्वात् , यद् इत्थम् तद् इत्थम् यथा मुद्गरादि, तथा च शब्दः , तस्मात्तथा इति / न चेदमसिद्धम् ; कंसपात्र्यादिध्वानाऽभिसम्बन्धे श्रोत्राऽभिघातप्रतीतेः / न च शब्दसह- 10 चरितेन वायुना अत्र अभिघात इत्यभिधातव्यम् ; शब्दान्वय-व्यतिरेकानुविधायित्वात् , तथाभूतस्याप्यस्य अन्यहेतुत्वकल्पने न कचिद् हेतु-फलभावप्रतिनियमः स्यात् / गुणत्वेन अस्य निर्गुणत्वतः स्पर्शाऽभावात् तदभिघाताऽहेतुत्वे चक्रकप्रसङ्गः-'गुणत्वं हि अद्रव्यत्वे सिद्ध सिद्धयेत् , तदपि अस्पर्शवत्त्वे, तदपि गुणत्वे' इति / तथा 'स्पर्शवान् शब्दः स्पर्शवताऽर्थेन अभिहन्यमानत्वात् तृणादिवत्' इत्यतोऽपि अनुमानाद् अस्य स्पर्शवत्त्वसिद्धेः / न चेदमसि- 15 द्धम् ; प्रतिवात-भित्त्यादिभिः स्पर्शवद्भिः तदभिघातप्रतीतेः / तन्न अस्य स्पर्शाश्रयत्वमसिद्धम् / नापि अल्पत्व-महत्त्वपरिमाणाश्रयत्वम् ; अल्प-महत्त्वप्रतीतिविषयत्त्वात् , यत् तत्प्रतीतिविषयः तत् तत्परिमाणाश्रयः यथा बदर-आमलकादि, तत्प्रतीतिविषयश्च शब्द इति / न चायमसिद्धो हेतुः; 'अल्पः शब्दः, महान् शब्दः' इति तत्प्रतीतिविषयतया अस्य आबालं सुप्रसिद्धत्वात् / तथाभूतस्याप्यस्य तत्प्रतीतिविषयत्वाऽपह्नवे बदरादावपि तत्प्रतीतिविषयत्वापह्नवप्रस- 20 ङ्गात् सर्वत्र तत्परिमाणाभावः स्यात् / न खलु प्रतीतेरन्यतः तत्र तत्परिमाणेसिद्धिः / अथ बदरादेव्यत्वात् तत्परिमाणप्रसिद्धिर्युक्ता न शब्दे विपर्ययात् ; तदप्यसत्; अन्योन्याश्रयाऽनुषङ्गात्-सिद्धे हि शब्दस्य अद्रव्यत्वे तत्परिमाणाऽभावसिद्धिः, तत्सिद्धौ च अद्रव्यत्वसिद्धिरिति। तत्र तत्परिमाणाऽनभ्युपगमे च किन्निबन्धना शब्दे तत्प्रतीतिः स्यात् ? कारणगताऽल्पत्वमहत्वपरिमाणनिबन्धना चेत् ; बदरादावपि असौ स्वकारणाऽल्पत्वमहत्त्वपरिमाणनिबन्धनाऽस्तु, 25 तथा अन्यत्राप्येवम् इति न कचित् मुख्यतोऽल्पमहत्त्वपरिमाणनिबन्धना तत्प्रतीतिः स्यात्, प्रतीतिविरोधः अन्यत्राप्यविशिष्टः। तन्न अस्य अल्पत्वमहत्त्वपरिमाणाश्रयत्वमप्यसिद्धम् / 1 पृ. 240 पं० 8 / 2 "द्रव्यं शब्दः स्पर्शाल्पत्व"." प्रमेयक० पृ० 164 पू० / 3 "कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिः अस्पर्शत्वकल्पनामस्तङ्गमयति / " अष्टश०, अष्टसह० पृ० 108 / ४-त्वे सिद्धे सिद्धयत् तदपि श्र०। ५-ण प्रसिद्धिः ब०, ज०, भां० / ६-णाल्पमहत्त्व-ब०, ज०, आ० / ७-मसि-ब०, ज०, आ० /