________________ 242 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० नाऽसौ तथा यथा रूपादिः, तथा च शब्दः, तस्मात् तद्वथतिरिक्ताश्रयाऽऽश्रित इति / यदाश्रितश्च असौ तदाकाशम् / शब्दलिंङ्गाऽविशेषाद् विशेषलिङ्गाऽभावाच्च एकं विभु च, निरतिशयपरिमाणाऽधिकरणत्वाच्च परमाणुवत् नित्यं सिद्धम् / तल्लिङ्गभूतस्य च शब्दस्य उत्पत्तिप्रक्रिया प्रदर्श्यते ; तथाहि-संयोगाद् विभागात् 5 शब्दाच्च शब्द उत्पद्यते / तत्र संयोगात् तदुत्पत्तौ आकाशं समवायिकारणम् , भेर्याद्याकाश संयोगः असमवायिकारणम् , भेरीदण्डसंयोगः निमित्तकारणम् / विभुद्रव्यविशेषगुणानां संयोगनिमित्तानां संयोगाऽसमवायिकारणत्वाऽव्यभिचारात्; प्रयोगः-संयोगनिमित्ता विभुद्रव्यविशेषगुणाः संयोगाऽसमवायिकारणाः, संयोगनिमित्तत्वे सति विभुद्रव्यविशेषगुणत्वात् , यद् यदित्थम् तत् तथा यथा बुद्ध यादयः, तथा च शब्दः, तस्मात्तथा इति / 10 तथा विभागादपि शब्दोत्पत्तौ आकाशं समवायिकारणम् , वंशदल-आकाशविभागोऽ समवायिकारणम् , वंशदलविभागः निमित्तकारणम् / ननु वंशदलविभागोत्तरकालं शब्दोत्पत्तिदर्शनात् युक्तं तस्य तन्निमित्तत्वम् , न पुनः वंशदल-आकाशविभागस्य असमवायिकारणस्य, तत्सद्भावे प्रमाणोऽभावात् ; इति च न चेतसि निधेयम् ; शब्दनिमित्तानामनेकद्रव्यगु णानां समानजातीयाऽसमवायिकारणसमन्वितानां शब्दारम्भकत्वप्रतीतेः / प्रयोगः-विभागः 15 स्वसमानजातीयेन असमवायिकारणेन सहितः शब्दमारभते, अनेकद्रव्यगुणत्वे सति शब्दारम्भ कत्वात् , यो य एवम् स स तथा यथा भेरीदण्डसंयोगः, तथा च विभागः, तस्मात्तथा इति / शब्दात् शब्दोत्पत्तौ तु आकाशं समवायिकारणम् , प्राक्तनः शब्दः असमवायिकारणम् , अदृष्टादिकं निमित्तकारणमिति | अत्र प्रतिविधीयते / यत्तावदुक्तम्-'शब्दः कचिदाश्रितः' इत्यादि; तदसमीक्षिताऽभिधानम् ; ___यतः किम् अतोऽनुमानात् शब्दस्य आश्रयमात्राश्रितत्वं प्रसाशब्दस्य आकाशगुणत्वाभावप्रसाधन-ध्यते. नित्यैकव्यापि-आश्रयाऽऽश्रितत्वं वा ? प्रथमपक्षे कथपूर्विका द्रव्यत्वसिद्धिः, आकाशस्य मतो नभोद्रव्यसिद्धिः आश्रयमात्रस्यैव सिद्धिप्रसङ्गात् ? तँत्र च सर्वथा नित्य-निरवयवत्वनिरसन सिद्धसाध्यता, शब्दस्य पुद्गलपरिणामतया तदाश्रितत्वाऽभ्युपगपुरस्सरा युगपन्निखिलार्थावगाहन मात् / नित्यैकव्यापि-आश्रयाऽऽश्रितत्वे तु साध्ये साध्यविकलो हेतुतया सिद्धिश्च दृष्टान्तः; रूपादीनां तद्विपरीताश्रयाऽऽश्रितत्वात् / गुणत्वञ्च अस्य असिद्धम् तत्प्रसाधकप्रमाणाऽभावात् / 20 १"शब्दलिङ्गाविशेषात् विशेषलिङ्गाभावाच्च / " वै० सू० 2 / 1 / 30 / २-त्तिक्रिया आ०।३"संयोगाद्विभागात् शब्दाच्च शब्दनिष्पत्तिः।" वै०सू० 2 / 2 / 31 / ४"भेर्याकाशसंयोगादुत्पद्यते-अत्रापि आकाशं समवायिकारणम् " प्रश०व्या०पृ० 650 / प्रश० कन्द० पृ० 289 / ५-णासभावात् श्र० / ६-कत्वाप्रतीतेः श्र० / 7 पृ०२४० पं. 6 / ८"यदि सामान्येन आश्रितत्वमात्रमेषां साध्यते शब्दानां तदा सिद्धसाध्यता।" तत्त्वसं० 50 पृ. 207 // “पुद्गलस्कन्धस्यैकद्रव्यस्य शब्दाश्रयत्वोपपत्तेः सिद्धसाधनत्वात्।" तत्त्वार्थश्लो० पृ० 422 / प्रमेयक० पृ० 164 पू० / सन्मति०टी० पृ० 650 / 9 "एकव्यापिध्रवव्योमसमवायस्तु सिद्ध्यति / नैषामन्वयवैकल्याद्यक्रमाद्याप्तितस्तथा // 628 // " तत्त्वसं० /