________________ लघी प्रमाणप्र० का० 7] शब्दस्य आकाशगुणत्वनिरासः 241 मेन' इति विशेषणम् , तयोः शब्दादिवद् अचाक्षुषप्रत्यक्षत्वनियमाऽसंभवात् / तथा शब्दो न द्रव्यं न कर्म, व्यापकद्रव्यसमवेतत्वात् , यद् यदित्थम् तत् तत् तथा यथा सुखादि, तथा च शब्दः, तस्मात्तथा इति / ततः सिद्धं 'द्रव्यकर्मान्यत्वे सति' इति विशेषणम् / 'द्रव्यकर्मान्यत्वात्' इत्युच्यमाने सामान्यादिना व्यभिचारः; तन्निवृत्त्यर्थ 'सत्तासम्बन्धित्वात् / इत्युक्तम् / __ अतः सिद्धं गुणत्वेन शब्दस्य क्वचिदाश्रितत्वम् / यश्च अस्याऽऽश्रयः तत् पारिशेष्याद् 5 आकाशम् ; तथाहि-न तावत् स्पर्शवतां परमाणूनां विशेषगुणः शब्दः ; अस्मदादिप्रत्यक्षत्वात् कार्यद्रव्यरूपादिवत् / नापि कार्यद्रव्याणां पृथिव्यादीनां विशेषगुणोऽसौ; कार्यद्रव्यान्तराऽप्रादुर्भावेऽप्युपजायमानत्वात् सुखादिवत् , अकारणगुणपूर्वकत्वाद् इच्छादिवत् , अयावद्र्व्यभावित्वात् , अस्मदादिपुरुषान्तरप्रत्यक्षत्वे सति पुरुषान्तराऽप्रत्यक्षत्वाच्च तद्वत् , आश्रयोद् भेर्यादेः अन्यत्रोपलब्धेश्च / स्पर्शवतां हि पृथिव्यादीनां यथोक्तविपरीता गुणाः प्रतीयन्ते इति / 10 नाप्यात्मविशेषगुणः; अहङ्कारेण विभक्तहणात् , बाह्येन्द्रियप्रत्यक्षत्वात् , आत्मान्तरग्राह्यत्वाच्च, बुद्ध यादीनाञ्च आत्मगुणानां तद्वैपरीत्योपलब्धेः / नापि "मनोगुणः; अस्मदादिप्रत्यक्षत्वात् रूपादिवत् / नापि दिक्कालविशेषगुणः; तयोः पूर्वाऽपरादिप्रत्ययहेतुत्वात् / अतः "पृथिव्यादिव्यतिरिक्ताश्रयाऽऽश्रितोऽसौ तवृत्तिबाधकप्रमाणसद्भावे सति गुणत्वात् , यस्तु एवं न भवति 1 “कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः / " वैशे० सू० 2 / 1 / 25 / “कार्यान्तरस्य स्वावयवकार्यसजातीयस्य अप्रादुर्भावाद् अननुभवात् अर्थात् भेर्यादौ / अयं भावः-यथा भेर्यादौ रूपादयो विशेषगुणाः स्वावयवरूपादिसजातीया अनुभूयन्ते तथा स्वावयवशब्दसजातीयः शब्दः भेर्यादौ नोपलभ्यते। निःशब्दैरपि भेाद्यवयवैः भेोद्यारम्भात् / " वै० सू० वि० पृ० 90 / 2 “शब्दः प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् , अयावद्व्यभावित्वात् , आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः / " प्रश० भा० पृ० 58 / “समवायिकारणेषु गुणाः कारणगुणाः ते पूर्व कारणं यस्य गुणस्य असौ कारणगुणपूर्वकः यथा पटरूपादिः तन्तुरूपादिपूर्वक इति / न चैवम् , शब्दकारणस्याकाशस्य अकार्यत्वेन समवायिकारणगुणाभावात् / .." प्रश० व्यो० पृ० 323 / “स्वाश्रयस्य यत् समवायिकारणं तद्गुणपूर्वः शब्दो न भवति पटरूपादिवदाश्रयोत्पत्त्यनन्तरमनुत्पादात् अतः सुखादिवत् स्पर्शवतां विशेषगुणो न भवति / " प्रश० कन्द० पृ. 59 / 3 "यावद्र्व्यं शब्दो न भवति सत्येव आश्रये शङ्खादौ तद्विनाशात् / " प्रश० कन्दली पृ० 59 / प्रश• किरणा० पृ० 107 / 4 अस्मदादिपुरुषान्तराणां समीपदेशवर्त्तिनां प्रत्यक्षत्वेऽपि पुरुषान्तराणां दूरदेशवर्तिनामप्रत्यक्षत्वं शब्दस्य / 5 "स्पर्शवद्विशेषगुणत्वे शब्दस्य शङ्खादिराश्रयो वाच्यः / स च तस्मादन्यत्र दूरे कर्णशष्कुलीदेशे समुपलभ्यते। न चान्यगुणस्य अन्यत्र ग्रहणमस्ति तस्मान्न स्पर्शवद्विशेषगुणः / ..." प्रश० कन्द० पृ. 60 / “आश्रयाभिमताच्छङ्खादेरन्यत्र कर्णशष्कुल्यवच्छिन्ने नभसि उपलब्धेः प्रश० किरणा० पृ० 107 / “अन्यत्रशब्दो विनार्थः तेन आश्रयं विना उपलब्धियोग्यत्वात् इत्यर्थः अयोग्याश्रयकत्वादिति यावत् / " न्यायली. प्रका० पृ. 277 / 6 "परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः / " वै. सू. 2 / 1 / 26 / "बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेण विभक्तग्रहणाच नात्मगुणः।" प्रश. भा० पृ. 58 / ७ग्रहणादात्मान्तर-आ०। ८-त्वात् ब०, ज०। ९-नां तु भां०, श्र० / 10 "श्रोत्रप्राह्यत्वाद् वैशेषिकगुणभावाच न दिक्कालमनसाम् / " प्रश. भा० पृ० 58 / 11 “शब्दः पृथिव्युदकज्वलनपवनदिक्कालात्ममनोव्यतिरिक्तद्रव्याश्रयः तवृत्तिबाधकप्रमाणसद्भावे सति गुणत्वात् / " प्रश०व्यो०पृ० 329 / .