________________ 240 लघीयनयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० घटादिवत् चन्द्रकान्तादौ जलादेरप्रतीतितोऽभावात् , आत्यन्तिकभेदे च उपादानोपादेयभावाsनुपपत्तेः 'पर्यायभेदेन अन्योन्यं पृथिव्यादीनां भेदः, रूप-रस-गन्धस्पर्शात्मकपुद्गलद्रव्यरूपतया च अभेदः' इति प्रेक्षादक्षैः प्रतिपत्तव्यम् / तन्न नित्यादिस्वभावम् आत्यन्तिकभेदभिन्नं परपरि कल्पितं पृथिव्यादिचतुःप्रकारं द्रव्यं व्यवतिष्ठते / नाप्याकाशद्रव्यम् ; परपरिकल्पितस्वभावस्य 5 अस्यापि सद्भावे प्रमाणाऽभावाऽविशेषात् / ननु तत्सद्भावे शब्दलिङ्गप्रभवमनुमानमस्त्येव प्रमाणम् ; तथाहि-शब्दः कचिदाश्रितः __ गुणत्वात् रूपादिवत् / न चास्य गुणत्वमसिद्धम् ; गुणैः शब्दः षट्पदार्थपरीक्षायां 'शब्दगु ___ द्रव्य-कर्मान्यत्वे सति सत्तासम्बन्धित्वात् , यद् यदेवंविधम् तत् णकम् आकाशम्' इति वैशेषिकस्य पूर्वपक्षः ____ तद् गुणः यथा रूपादि, तथा च शब्दः, तस्मात्तथा इति / न च द्रव्यकर्माऽन्यत्वमसिद्धम् ; तथाहि-शब्दो द्रव्यं न भवति एकद्रव्यत्वात् रूपादिवत् / किञ्चिद्धि द्रव्यम् अद्रव्यं भवति नित्यत्वात् यथा आत्मादि, किञ्चित्तु अनेकद्रव्यम् कार्यत्वात् यथा घटादि, न तु एकद्रव्यम् / शब्दस्य एकद्रव्यत्वं कुतः सिद्धमिति चेत् ? 'एंकद्रव्यं शब्दः सामान्य-विशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वात् रूपादिवत्' इत्य तोऽनुमानात् / अत्र च 'सामान्यविशेषवत्त्वात्' इत्युच्य माने परमाण्वादिभिर्व्यभिचारः स्यात् ; 15 तन्निवृत्त्यर्थम् 'इन्द्रियप्रत्यक्षत्वात्' इत्युक्तम् / तथापिघटादिना अनेकान्तः; तन्निरासार्थम् एकविशे षणम् / 'एकेन्द्रियप्रत्यक्षत्वात्' इत्युच्यमाने आत्मना व्यभिचारः; तन्निवृत्त्यर्थ बाह्यविशेषणम् / रूपत्वादिना व्यभिचारपरिहारार्थञ्च 'सामान्यविशेषवत्त्वे सति' इति विशेषणम् / तथा, कर्माऽपि न भवत्यसौ संयोग-विभागाऽकारणत्वात् रूपादिवदेव / इतश्च न द्रव्यं न कर्म शब्दः, अनित्यत्वे सति नियमेन अचाक्षुषप्रत्यक्षत्वात् , यद् यद् एवम् तत् तत् तथा यथा रसादि, 20 तथा च शब्दः, तस्मात्तथा इति / आत्मना व्यभिचारनिवृत्त्यर्थम् 'अनित्यत्वे सति' इति विशे षणम् / तथापि अचाक्षुषप्रत्यक्षप्रतीयमानद्रव्य-कर्मभ्यां व्यभिचारः; तत्परिहारार्थम् ‘निय 1 "शब्दः क्वचिदाश्रितः गुणत्वात् यथा रूपादिः / " प्रश० व्यो• पृ० 322 / 2 "प्रसक्तयोः द्रव्यकर्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः / कथं पुनः न द्रव्यं शब्दः ? एकद्रव्यत्वात् / अद्रव्यं वा भवति द्रव्यम् आकाशपरमाण्वादि, अनेकद्रव्यं वा द्वयणुकादिकार्यद्रव्यम् , एकद्रव्यं तु शब्दः एकाकाशाश्रितत्वात् / तस्मान्न द्रव्यम् / नापि कर्म शब्दः शब्दान्तरजनकत्वात् / कर्मणो हि समानजात्यारम्भकत्वं नास्ति / सत्ताशब्दत्वादिसामान्यसम्बन्धाच सामान्यादित्रयप्रसङ्गोऽस्य नास्ति इति पारिशेष्याद् गुण एव शब्दः / " न्यायमं० पृ० 229 / “न द्रव्यकर्मजातीयः शब्दः श्रोत्रग्रहणयोग्यत्वात् शब्दत्वादिवत् / गुणः शब्दः द्रव्यकर्मान्यत्वे सति सत्तासम्बन्धित्वात् रूपादिवत् / " प्रश. व्यो० पृ. 649 / ३न द्रव्यं समवायिकारणं यस्य तत् / 4 एकद्रव्यः श्र०।५ "शब्दो गुणः जातिमत्त्वे सति अस्मदादिबाह्याचाक्षुषप्रत्यक्षत्वाद् गन्धवत् / " न्यायलीला० पृ. 25 / 6 तत्तथा आ० / 7 अचक्षुष्यप्र-आ० /