________________ लघी० प्रमाणप्र० का० 7 ] पृथिव्यादिचतुणी पुद्गलात्मकत्वप्रसाधनम् 239 यत् स्पर्शवत् तद् गन्धादिमत् प्रसिद्धम् यथा पृथिवी, स्पर्शवन्तश्च जलादय इति / 'यत् पुनगन्धादिमन्न भवति न तत् स्पर्शवत् , यथा आत्मादि' इति विपक्षे बाधकं प्रमाणम् / / ___ अथ गन्धादिगुणानाम् अभिव्यक्त थपेक्षया पृथिव्यादौ तदाधारताप्रतिनियमोऽभिधीयते; अभिधीयताम् , तथापि न तावता तत्र द्रव्यान्तरत्वसिद्धिः, जल-कनकादिसंयुक्ताऽनलेन अनेकान्तात् / नहि अनभिव्यक्तभासुररूपोष्णस्पर्शो जल-कनकादिसंयुक्ताऽनलः अभिव्यक्तभा- 5 सुररूपोष्णस्पर्शादनलाद् द्रव्यान्तरं भवतां प्रसिद्धः, द्रव्यसंख्याव्याघातप्रसङ्गात् / एवं पृथिव्यादिरपि अनभिव्यक्तेनाप्यविशिष्टगुणेन उपेतत्वात् नाऽन्योन्यम् अत्यन्तद्रव्यान्तरत्वेन अर्थान्तरम् ; यद् अविशिष्टगुणोपेतम् न तद् अन्योन्यम् अत्यन्तद्रव्यान्तरत्वेन अर्थान्तरम् यथा आत्मादि, अविशिष्टरूपादिगुणोपेतञ्च पृथिव्यादि इति / यथैव हि आत्मनां बुद्धथादिमत्त्वाऽविशेषात् नाऽन्योन्यम् अत्यन्ततत्त्वान्तरत्वेनाऽर्थान्तरत्वम् तथा पृथिव्यादीनामपि रूपादिमत्त्वाऽविशेषात् 10 न तथा तत्त्वान्तरत्वम्। ___ यदप्युक्तम् -'पृथिवीत्वादिप्रतिनियतजातिसम्बन्ध' इत्यादि ; तदप्यविचारितरमणीयम् ; अवान्तरजातिसम्बन्धस्य सर्वथा तत्त्वभेदाऽप्रसाधकत्वात्, व्यक्तिभेदमेव हि असौ प्रसाधयति न तत्त्वभेदम् , अन्यथा क्षत्रियत्वाद्यवान्तरजातिसम्बन्धात आत्मनामपि तत्त्वान्तरत्वप्रसङ्गात तत्संख्याव्याघातः स्यात् / जातिभेदेन अन्योन्यं पृथिव्यादीनामात्यन्तिकभेदाऽभ्युपगमे च 15 उपादानोपादेयभावो न स्यात् ; येषां जातिभेदेन आत्यन्तिको भेदः न तेषाम् उपादानोपादेय भावः यथा आत्म-पृथिव्यादीनाम् , तथा तद्भेदश्च पृथिव्यादीनां भवद्भिरिष्ट इति / तन्तु. पटाधुपादानोपादेयभावेन व्यभिचारपरिहारार्थम् आत्यन्तिकविशेषणम् , नहि तत्र आत्यन्तिकः तद्भेदोऽस्ति पृथिवीत्वादिसामान्यस्य अभिन्नस्यापि संभवात् / नन्वेवं द्रव्यत्वादिना पृथिव्यादीनामपि अभेदसंभवात् तद्भावोऽस्तु; इत्यप्ययुक्तम् ; आत्म-पृथिव्यादीनामप्येवं तद्भेदाऽभावाद् उपा- 20 दानोपादेयभावः स्यात् , तथा च आत्माऽद्वैतप्रसङ्गात् पृथिव्यादिद्रव्यप्रपञ्चाय दत्तो जलाजलिः। ___तन्नआत्यन्तिकभेदाऽभ्युपगमे पृथिव्यादीनां तद्भावो घटते; अस्ति चासौ, चन्द्रकान्ताजलस्य जलादेश्व मुक्ताफलादेरुत्पत्तिप्रतीतेः / अतो न तेषां सर्वथा तत्त्वान्तरत्वेन भेदः ; येषाम् उपादानोपादेयभावः न तेषामन्योन्यमत्यन्ततत्त्वान्तरत्वेन भेदः यथा तन्तुपटादीनाम् , उपादानोपादेयभावश्च पृथिव्यादीनामिति / चन्द्रकान्ताद्यन्तर्भूतात् जलादिद्रव्यादेव जलादेरुत्पत्तिः, 25 इत्यप्यनुपपन्नम् ; तत्र तत्सद्भावाऽऽवेदकप्रमाणाऽभावात् / 'विजातीयाद् विजातीयस्योत्पत्तौ तत्त्वव्यवस्थाऽभावप्रसङ्गात्, तदन्तर्भूतात् तद्रव्यादेव तदुत्पत्तिः' इत्यभ्युपगमे 'मृत्पिण्डाद्यन्तर्भूताद् घटादेरेव घटाद्युत्पत्तिः' इत्यप्यभ्युपगम्यतामिति सांख्यदर्शनसिद्धिः। ततो मृत्पिण्डादौ . 1 प्रसिद्धथेत ज० / २-थाऽर्थान्तरत्वम् श्र० / 3 पृ. 238 पं० 18 / 4 सत्त्वभे-श्र० / 5 दत्ता ब०, ज०।६"चन्द्रकान्ताजलस्य जलान्मुक्ताफलादेः काष्ठादनलस्य व्यजनादेश्च अनिलस्योत्पत्तिप्रतीतेः / " प्रमेयक० पृ. 163 पू० / तत्त्वार्थ श्लो. पृ. 29 /