________________ 238 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० किञ्च, केवलव्यतिरेकी हेतुः स उच्यते यस्य पक्षव्यापकत्वे सति केवलो व्यतिरेकः नान्वयः स्यात् , ततश्च 'यत्र भेदाख्यः साध्यधर्मो नास्ति तत्र द्रव्यत्वमपि नास्ति' इति व्यतिरेकोऽनयोर्धमयोः असति प्रतिबन्धे कथं निश्चेतुं शक्यते ? 'किं भेदाऽभावात् तत्र द्रव्यत्वं नास्ति वस्त्वन्तराऽसत्त्वाद्वा' इति सन्देहः / यत्र हि प्रतिबन्धप्रतिपत्तिः तत्र 'एकाऽभावे द्वितीयो नास्ति' इति युक्तम् , यथा अग्निधूमयोः प्रत्यक्षाऽनुपलम्भादिप्रमाणेन प्रतिपन्ने कार्यकारणभावे 'अग्न्यभावे धूमो नास्ति' इति / इह पुनः साध्यसाधनधर्मयोः उक्तप्रकारेण स्वरूपतोsसिद्धत्वात् केनचित्प्रमाणेन अविनाभावस्याऽगृहीतत्वात् न साध्याऽभावे साधनाऽभावप्रतिपत्तिः, इति केवलव्यतिरेकिणोऽनुमानस्य अननुमानत्वात् न तेन इतरेभ्यो भेदः व्यवहारो वा शक्यते व्यवस्थापयितुम् / एतेन 'पृथिवीत्वाभिसम्बन्धात्' इत्यादि केवलव्यतिरेक्यनुमानं प्रत्याख्या१० तम् ; उक्तदोषाणामत्राप्यविशेषात् / किञ्च, पृथिव्यादीनामन्योन्यम् अत्यन्तमर्थान्तरत्वे सिद्धे सति एतद्वक्तुं शक्यते, न च तत् सिद्धम् पुद्गलात्मनाऽन्योन्यं तेषां कथञ्चिदभेदात् / ननु एकपुद्गलात्मकत्वे तेषां प्रतिनियतगन्धादिगुणाधारतानियमो न प्राप्नोति पुद्गलानाम विशेषतो रूप-रस-गन्ध-स्पर्शात्मकत्वाऽभ्युपगमात् , अतः तदा'पुद्गलात्मकत्वे पृथिव्यादीनां न . त्मकत्वे पृथिव्यादीनां चतुर्णामपि अविशेषेणैव गन्धादिप्रतीतिः 15 प्रतिनियतगन्धादिगुणाधारता स्यात् , न चैवम् , चतुलपि एतेषु गन्धादिगुणचतुष्टयस्य नियमः' इति यौगानां पूर्वपक्षः प्रतिनियमेनैव आधेयत्वप्रतीतेः / उक्त-च-"गन्धेः पृथिव्यामेव, अप्सु रसः, तेजसि रूपम्, वायौ स्पर्शः।" [ ] इति / पृथिवीत्वादिप्रतिनियतजातिसम्बन्धोऽपि तेषामेकत्वे दुर्घटः, अन्योन्यं हि तेषां तत्त्वा न्तरत्वाभावेनाभिन्नजातीयत्वे अबादीनामपि अविशेषतः पृथिवीत्वाद्यभिसम्बन्धः स्यात् / न 20 खलु घट-घटी-शराव-उदश्चनादीनां तथाऽभिन्नजातीयत्वेऽविशेषतः पृथिवीत्वाऽभिसम्बन्धो न दृष्टः, न च तेषामविशेषतः तत्सम्बन्धोऽस्ति, पृथिव्यामेव पृथिवीत्वाभिसम्बन्धप्रतीतेः, अबादावेव अस्वादिसम्बन्धप्रतीतेः इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'एकपुद्गलद्रव्यात्मकत्वे' इत्यादि; तदसमीक्षिताभि धानम् ; यतः प्रतिनियतगन्धादिगुणाधारतानियमस्तत्र तत्सतत्प्रतिविधानपुरस्सरं तेषाम् त्तापेक्षया, तदभिव्यक्त थपेक्षया वा स्यात् ? तत्राद्यविकल्पोऽ२५ एकपुदलात्मकत्व युक्तः; पृथिवीवत् जलादावपि गन्धादिगुणचतुष्टयसद्भावतः तदाप्रसाधनम् धारताप्रतिनियमाऽनुपपत्तेः / कुतः प्रमाणात् तत्र तत्सद्भावः सिद्धः इति चेत् ? 'अनुमानात्' इति ब्रूमः; तथाहि-जलादयो गन्धादिमन्तः स्पर्शवत्त्वात् , १“कथं तर्हि इमे गुणा विनियोक्तव्या इति ? एकैकश्येन उत्तरोत्तर गुणसद्भावादुत्तराणां तदनुपलब्धिः।" न्यायसू०३।१।६४ / 2 तत्त्वाभा-आ० / तत्त्वान्तराभा-ब०, ज०।३ अबादिस-श्र० / 4 "आपो गन्धवत्यः स्पर्शवत्त्वात् पृथिवीवत्"।" सर्वार्थसि 0 5 / 3 / .