________________ लघी० प्रमाणप्र० का०७] द्रव्यलक्षणविचारः 237 च इह किञ्चिद् व्यञ्जकमस्ति / क्रियावत्त्वं गुणवत्त्वं समवायिकारणत्वम् अत्राऽस्ति, इति चेत् ; तत् किं व्यस्तम् , समस्तं वा व्यञ्जकम् ? न तावद् व्यस्तम् ; क्रियावत्त्वस्य आकाशाविद्रव्यव्यक्तिषु असंभवात्। गुणवत्त्वस्यापि सद्यः समुत्पन्नेषु पटादिष्वसंभवान्न व्यञ्जकत्वम् / लब्धामलाभो हि अवयवी गुणोत्पत्तौ समवायिकारणं भवति, इति सद्यः समुत्पन्ने पटे गुणाभावो भवद्भिरेव इष्टः, इति योगिनां तत्र द्रव्यबुद्धिर्न स्यात् / नापि समवायिकारणत्वं तद्वथजकम् ; 5 तस्यापि सर्वदाऽसंभवात् , नहि सर्वः सर्वदा समवायिकारणम् , इति अस्य लक्षणस्य सर्वत्राऽ व्याप्तिदोषः / किञ्च, यदा कारणं तदा न समवायि, यदा समवायि न तदा कारणम् , 'कार्याद्धि पूर्वस्मिन् क्षणे कारणम् न च तदा कार्यमस्ति येन कार्यसमवायि स्यात् , या च कार्यसमवायि तदा निष्पन्नत्वात् कार्यस्य न कारणम्' इति असंभवो लक्षणदोषः / 'यद् यत्र संभवति तत् तत्र लक्षणम्' इत्यत्रापि सद्यः समुत्पन्ने घटादौ असंभव एव तदोषः, तत्र कस्यचिदपि तल्लक्ष- 10 णस्याऽसंभवात् / समुदितानों तल्लक्षणत्वेऽपि अव्याप्तिरेव, सद्यः समुत्पन्ने घंटादौ त्रितयस्याप्यभावात् , आकाशादौ तु क्रियावत्त्वस्य इति / यदपि 'द्रव्यम् इतरेभ्यो भिद्यते द्रव्यत्वाऽभिसम्बन्धात्' इत्याद्यनुमानम् ; तदप्यसाम्प्रतम् ; अनुमानं खलु उभयवादिप्रसिद्ध धर्मिणि पर्वतादौ सति प्रवर्तते, अन्यथा हेतूनामाश्रयाऽसिद्धता स्यात् , दृष्टान्ते च उभयवादिसम्प्रतिपन्ने, साध्यधर्मे वह्नौ साध्यधर्मिणि सन्दिग्धे, अन्यथा 15 अप्रसिद्धविशेषणः पक्षः स्यात् ; धर्मिणि च उभयवादिसम्प्रतिपन्ने साधनधर्मे धूमे, अन्यथा असिद्धो हेतुः स्यात् / न च इह नवद्रव्यप्रकारो धर्मी कस्यचित् केनचित्प्रमाणेन प्रसिद्धः , नापि तत्र प्रवर्त्तमानं द्रव्यत्वादिसाधनम् , भेदाख्यश्च साध्यधर्मः इति / भेदो हि इतरेतराभावः, स च प्रतियोगिसव्यपेक्ष एव प्रतीयते, प्रतियोगिनश्च द्रव्यव्यतिरेकिणोऽनन्ताः, ते अयोगिनां कस्य प्रमाणस्य ग्राह्याः इति चिन्त्यम् ? किञ्च, प्रतियोगिनो गृह्यमाणाः किं द्रव्या- 20 द्भिन्ना गृह्यन्ते, अभिन्ना वा ? प्रथमपक्षे भेदग्राहकप्रमाणेनैव द्रव्यस्य अन्येभ्यो भेदः प्रसिद्धः इति इदमनुमानमनर्थकम् / द्वितीयपक्षे तु परस्परसङ्कीर्णेषु गृह्यमाणेष्वर्थेषु कस्य कस्माद् भेदः इति अप्रसिद्धविशेषणः पक्षः स्यात् / 1 "न च लक्षणमप्येकं पृथिव्यादिषु पञ्चसु क्रियावत्स्वेव क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य भावात् / निष्क्रियेषु आकाशकालदिगात्मसु क्रियावत्त्वस्याभावात् / " आप्तप० पृ. 5 / स्या० रत्ना० पृ. 845 / 2 "तत्र तावद् गुणाश्रयो द्रव्यमित्यलक्षणं यतः-'अव्याप्तेरतिव्याप्तेद्रव्यं नैव गुणाश्रयः / आये क्षणे गुणाभावाद् गुणादावपि वीक्षणात् // उत्पन्नमात्रं द्रव्यं क्षणमगुणं तिष्ठतीत्यंगीकारादव्याप्तेः। गुणादावपि 'चतुर्विंशतिर्गुणाः' इत्यादि संख्यागुणान्वयवीक्षणादतिव्याप्तेः।” चित्सुखी पृ० 155 / खंडनखंड. पृ० 579 / ३-व्याप्तिः दो-आ०,श्र० / 4 यदा तु ज० / ५-नां लक्ष-आ०, ब०, ज० भां० / 6 पटादौ ब., ज० / 7 क्रियावत्त्वस्य गुणवत्त्वस्य समवायिकारणत्वस्य च / ८-प्यसंभा-भां।