________________ 236 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० रूपक्षणान्तरं प्रति उपादानशक्तिरेव रसादिक्षणान्तरं प्रति सहकारिशक्तिः; रसादेरपि रूपत्व- . प्रसङ्गात् / तथाहि-रसो रूपस्वभावः रूपेण उपादानशक्तथा उत्पाद्यमानत्वात् उत्तररूपक्षणवत्। नापि सहकारिशक्तिरेव इतरा; तज्जन्योत्तररूपस्यापि रसत्वप्रसङ्गात् / तथाहि-रससहभावि रूपं रसस्वभावम् प्राक्तनरूपेण सहकारिशक्तथा उत्पाद्यमानत्वात् रसवत् / ततो रूप-रसयो५ भेदमिच्छता कारणस्य उपादानेतरशक्तयोर्वास्तवो भेदोऽभ्युपगन्तव्यः / अथ कल्पितत्वात् तत्र तद्भेदोऽवास्तवः ; तन्न ; अस्य अवास्तवत्वे कार्यकारणभावस्यापि अवास्तवत्वप्रसक्तितो रसाद् रूपादेरव्यभिचारिणोऽनुमानस्य अनुपपत्तेः कथम् “एकैसामग्र्य(नस्य रूपादरेसतो गतिः" [प्रमाणवा 0 1 / 10 ] स्यात् ? यदप्युक्तम् -'रूपरसाद्यात्मकत्वमपि' इत्यादि; तदप्यसङ्गतम् ; 'यमहमद्राक्षम् एतर्हि तमेव 10 स्पृशामि' इत्यनुसन्धानप्रत्ययाद् अवयविनो रूपाद्यात्मकत्वप्रसिद्धः / नहि द्वाभ्यामिन्द्रि याभ्यां रूपस्पर्शाधारैकार्थग्रहणमन्तरेण अनुसन्धानप्रत्ययो घटते, रूपस्पर्शयोश्च प्रतिनियतेन्द्रियग्राह्यत्वाद् असौ न संभवति / तदेवं प्रसिद्धसद्भावस्य अवयविनो नाऽपह्नवो युक्तः, .. तदपह्नवे परमाणुमात्रत्वस्यापि अपह्नवप्रसङ्गात्, तमन्तरेण अन्यस्य तद्वयवस्थापकोपायस्यास त्त्वात्। 'यत् कार्य तत् स्वपरिमाणादल्पपरिमाणकारणारब्धम् यथा पटः, कार्यञ्च द्वथणुक इति' 15 एतस्मात् , 'अल्पपरिमाणं कचित् परंमकाष्ठामापन्नम् प्रकृष्यमाणत्वात् महापरिमाणवत ' इत्यतो वा तद्वयवस्थापने; कथन्न अवयविप्रसादादेव तद्वयवस्थापनं स्यात् ? कथञ्च अवयविनोऽपह्नवे सँकलानुमानोच्छेदो. न स्यात् , धर्मि-हेतु-दृष्टान्तानामवयविस्वभावानां भवतोऽप्रसिद्धेः ? तत्प्रसिद्धौ वा कथं तदपह्नवः तेषामपरमाणुरूपाणामेव प्रसिद्धेरिति ? ततः सिद्धः स्वावयवेभ्यः कथञ्चिदभिन्नो वास्तवो घटादिरेकाऽनेकस्वभावः अवयवी / 20 इति न परपरिकल्पितं कार्यकारणभूतं परमाणु-द्वयणुकाद्यवयविद्रव्यमवतिष्ठते / अतः 'पृथि व्यप्तेजोवायवो द्विविधाः नित्यानित्यभेदात्' इत्यादि प्रत्युक्तम् ; उक्तप्रकारेण परपरिकल्पितस्य परमाण्वादिद्रव्यस्य अव्यवस्थितः। कुतश्च अस्य द्रव्यत्वं सिद्धयेत् ? द्रव्यत्वंयोगाचेत् ; ननु द्रव्यस्य भावो द्रव्यत्वम् , तच्च द्रव्ये ज्ञाते ज्ञायते, द्रव्यत्वञ्च विना न द्रव्यज्ञप्तिः, वैशेषिकैः वटपदार्थपरीक्षायां वैशेषि जातिद्वारेणैव द्रव्यादिप्रतिपत्त्यभ्युपगमात् , इत्यन्योन्याश्रयः / 25., कोक्तद्रव्यलक्षणस्य प्रतिविधानम् किञ्च, सामान्यं संस्थानादिना केनचिद् व्यज्यते यथा गोत्वं खुर-ककुदादिसंस्थानेन, घृततैलादीनां वो तप्तानां गन्धेन, न . १-णलक्षणस्यापि ब०, ज० / 2 "हेतुधर्मानुमानेन धूमेन्धनविकारवत् / " इति उत्तराद्धांशः प्रमाणवा० 110 / तत्त्वसं०पं० पृ. 417 / न्यायवा० ता० टी० पृ० 162 / 3 पृ. 232 पं० 18 / 4 “कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् / उभयाभावतस्तत्स्थं गुणजातीतरच न // 68 // " आप्तमी०,अष्टसह पृ० 223 / 5 परका-आ०।६कथन्नाम अ-भां०।७ देशकालानु-भां०। ८"द्रव्यस्वयोगाद् द्रव्यम् इति चेन्न; उभयासिद्धेः..." सर्वार्थसि०, तत्त्वार्थराज०५।२।९ वा इवार्थे / . .