________________ लघी० प्रमाणप्र० का०७] रूपादिव्यतिरिक्त अवयविसद्भाववादः 235 अथ सेना-वनप्रत्ययवत् तत्रासौ घटते, यथैव हि सेनाङ्गेषु वनाङ्गेषु बहुषु दूरादगृह्यमाणपृथक्त्वेषु 'एक वनम् , एका सेना' इति एकप्रत्ययः प्रादुर्भवति एवं परमाणुष्वत्यन्तप्रत्यासनेषु पृथक्त्वस्याऽग्रहणात् 'महान् एको घटः' इत्यादिप्रत्ययः प्रादुर्भवतीति / तदसाम्प्रतम् ; परमाणूनामतीन्द्रियत्वेनाऽनुपलब्धौ तत्प्रत्ययविषयत्वाऽनुपपत्तेः, उपलभ्यमानानां हि रथादिसेनाङ्गानां धवादिवनाङ्गानाञ्च 'एका सेना' इत्याद्यभेदप्रत्ययविषयत्वं दृष्टम् नाऽनुपलभ्यमानानाम् / 5 न च अवयव्यनभ्युपगमे 'सेना-वनप्रत्ययवत्' इति दृष्टान्तो घटते; सेना-वनाङ्गानामवयवित्वेन अनुपपत्तौ सेना-वनप्रत्ययस्याप्यनुपपत्तेः / यदि च एकाऽवयव्यनपेक्षः तद्वद् अवयवेषु एकप्रत्ययः स्यात् / तदा देशभेदे ग्रहणभेदोपलम्भः स्यात् , यत्र एकाऽवयव्यनपेक्षोऽभेदस्वरूपमात्रनिबन्धनः अभेदप्रत्ययः तत्र देशभेदे ग्रहणभेदो दृष्टः यथा सेनावनाङ्गेषु, एकावयव्यनपेक्षश्च अवयवेषु अभेदप्रत्ययो भवता इष्ट इति / सुप्रसिद्धो हि सेना-वनाङ्गेषु देशभेदाद् ग्रहणभेदः 10 दूराद् एकत्वग्रहणस्य आसन्नेऽनेकत्वग्रहणस्य च अवभासनात् , नचैवं देशविकल्पे ग्रहणविकल्पोपपत्तिर्घटादावस्ति / किञ्च, तदङ्गेषु एकाऽवयव्यभावेऽपि देशप्रत्यासत्तेः संयुक्तसंयोगस्य वा एकस्य निमित्तस्य सद्भावात् 'एका सेना' इत्याद्यभेदप्रत्ययो युक्तः, परमाणुषु तु कस्यचिदप्येकस्य निमित्तस्याऽसंभवात् कथमसौ युक्तः ? .. ___ यच्चान्यदुक्तम् -'स्थूलादिप्रतीतिर्धान्ता अतस्मिंस्तद्ग्रहणरूपत्वात्' इत्यादि ; तदप्यसमी- 15 क्षिताऽभिधानम् ; अतस्मिंस्तत्प्रत्ययस्य मुख्योपलम्भमन्तरेण अनुपपत्तेः / नहि अप्रसिद्धमुख्यपुरुषस्य स्थाणावपुरुषे पुरुषप्रत्ययो दृष्टः, न च स्थौल्यादिकं मुख्यतो भवतः क्वचित् प्रसिद्धम् अवयविसिद्धिप्रसङ्गात् / ___ यदप्यभिहितम्-'अर्वाग्भागभाव्यवयवग्राहिणा' इत्यादि ; तदप्यभिधानमात्रम् ; प्रत्यक्षस्मरणादिसहायेन आत्मना अर्वाक-परभागभाव्यवयवव्यापकत्वस्य अवयविनो ग्रहणोपपत्तेः / 20 नहि अस्माभिः प्रत्यक्षादिज्ञानपर्याय एव अर्थग्राहकोऽभिप्रेतः येनाऽयं दोषः स्यात् , किं तर्हि ? तत्परिणत आत्मा, तत्सद्भावश्च सन्तानविचाराऽवसरे प्रसाधितः / अर्वाक्-परभागभाव्यवयवसम्बन्धितया च विरुद्धधर्माध्यासात् प्रतिभासभेदाच्च अवयविनः कथञ्चिद्भेदः प्रसाध्येत, सर्वथा वा ? यदि कथञ्चित् ; तदा सिद्धसाधनम् , न खलु तत्सम्बन्धिनोऽवयविनो यौगवत् निरंशत्वम् अस्माभिरभिप्रेतम् , पँतिसम्बन्धं सम्बन्धिनः कथञ्चिद्भे- 25 दाऽभ्युपगमात् / सर्वथा ततस्तद्भेदसाधने तु रूपादिक्षणेन अनेकान्तः, तस्य रूप-रसादिक्षणान्तरं प्रति उपादान-सहकारिशक्तिलक्षणविरुद्धधर्माध्यासेऽपि अभेदाऽभ्युपगमात् / नहि रूपक्षणस्य 1 " सेनावनवद् ग्रहणमिति चेन्न ; अतीन्द्रियत्वादणूनाम् / " न्यायसू० 2 / 1 / 36 / २-ङ्गेषु दूराश्र० / 3 इतिप्र- आ० / 4 पृ० 232 पं० 3 / 5 पृ. 232 पं० 5 / ६-य पदार्थ-ब०, ज० / 7 पृ. 9 / 8 प्रतिसम्बन्धि सम्ब-ब०, ज० /