________________ 234 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० तैमिरिकोपलब्धिवत् तत्र तत्प्रतिभासः; इत्यप्यसमीचीनम् ; नहि तैमिरिकस्यापि अन्योन्यमसम्बद्धाः केशाः कदाचिदपि उपलब्धिविषयाः, संयोगविशेषलक्षणसमूहावस्थापनानामेव तेषां तद्विषयत्वप्रतीतेः / केशदृष्टान्ताच्च अवयविप्रतिषेधोऽनुपपन्नः; केशानामेव अवयवित्वात् / किञ्च, अवयविनोऽनभ्युपगमे घटादिप्रत्ययो निर्विषयः, सविषयो वा रयात् ? न तावन्नि५ विषयः; 'घटमहं जानामि' इत्याद्यल्लेखेन अस्य विषयसंवेदकत्वात् , तन्निर्विषयत्वे प्रमाणाऽभा वाच्च / 'सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नादिप्रत्ययवत्' इत्यादि च तन्निर्विषयत्वप्रसाधकं प्रमाणं बाह्यार्थसिद्धौ विस्तरतः प्रतिव्यूढम् / अथ सविषयः; कोऽस्य विषयः ? परमाणुसमूहश्चेत् ; कः पुनरयं परमाणुसमूहो नाम-किं. परमाणव एव, तद्धर्मो वा ? तत्राद्यविकल्पोऽनुपपन्नः; परमाणूनामत्यन्तमणुरवेन अतीन्द्रियत्वतः 10 प्रत्यक्षविषयत्वाऽनुपपत्तेः, तथा च सर्वाऽग्रहणप्रसङ्गात् न क्वचित् प्रत्यक्षव्यवहारः स्यात् , गुण कर्मसामान्यादेरपि अवयव्यामकरयैव प्रत्यक्षविषयत्वप्रतीतेः 'गौः' 'शुक्लः' 'चलति' इत्यादिवत् / अथ तद्धर्मः संयोगरूपः तत्समूहशब्दवाच्यः ; तन्न; अणूनां संयोगाऽभ्युपगमे अवयविप्रत्याख्यानाऽनुपपत्तेः न्यायस्य समानत्वात् , येनैव हि न्यायेन अयमेकोऽनेकत्र वर्त्तते तेनैव अवयव्यपि। किञ्च, अयं तत्संयोगः वास्तवः, अवास्तवो वा ? यद्यवास्तवः; कथं प्रत्यक्षविषयः ? यदवास्तवम् न तत् प्रत्यक्षविषयः यथा गगनेन्दीवरम् , अवास्तवश्च भवद्भिरभिप्रेतोऽणुसंयोग इति / वास्तवत्वेऽपि अस्य अस्मदादिप्रत्यक्षविषयामयुक्तम् , निरतिशयपरिमाणद्रव्यसंयोगत्वात् , यो निरतिशयपरिमाणेद्रव्यसंयोगः स न अस्मदादिप्रत्यक्षविषयः यथा आकाशपरमाणुसंयोगः, निरतिशयपरिमाणद्रव्यसंयोगश्च अणूनामन्योन्यसंयोग इति / ननु न तत्संयोगः अस्मदादिप्रत्यक्षविषयः, किं तर्हि ? "सञ्चिताः परमाणव एव ; इत्यपि 20 अयुक्तम् ; परमाणुप्रत्यक्षतापक्षस्य कृतोत्तरत्वात्।"सञ्चितत्वञ्चामीषां देशप्रत्यासत्तिः, संयोग विशिष्टत्वं वा स्यात् ? उभयत्रापि अवयविसिद्धिः, देशस्य स्वयमवयवित्वात् , संयोगे च समानन्यायात् / यदि च परमाणवस्तद्विषयाः / तदा 'महान् एको घटः' इत्यादिप्रत्ययो न स्यात्, तेषां महत्त्वाऽभावाद् बहुत्वाच्च / 1 तत्र प्र-आ० / 2 तत्प्रतिभासते श्र० / 3 “केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः / " . "स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो नाविषये प्रवृत्तिः / " न्यायसू० 4 / 2 / 13, 14 / 4 पृ० 135 / ५-न्तपरमाणु-भां० / “तत्र दिग्भागभेदेन षडंशाः परमाणवः / नो चेत् पिण्डोऽणुमात्रः स्यान्न च ते बुद्धिगोचराः // 87 // " न्यायवि• पृ० 197 / ६-त्मकस्यैकस्यैव श्र० / 7 संयोगः / ८-त्वं न युक्तम् ब०, ज०, भां०, श्र० / ९-णसंयो-आ०, ब०, ज० / 10 "सश्चयमात्रं विषय इति चेन्न; सञ्चयस्य संयोगभावात्तस्य चातौन्द्रियस्याग्रहणादयुक्तम् / " न्यायभा० 4 / 2 / 14 / 11 " सन्निवेशस्तेषां देशप्रत्यासत्तिः, संयोगविशेषो वा ?" स्या० रत्ना. पृ.८८६।