________________ लघी० प्रमाणप्र० का०७] रूपादिव्यतिरिक्त-अवयविसद्भाववादः 233 यविरूपतया तत्र विल्वाऽऽमलकादिरूपमिति / न च तत्प्रतिभासिनो बोधस्य निर्बाधत्वविशेषणमसिद्धम् ; तद्बाधकस्य कस्यचिदपि प्रमाणस्यासंभवात् / न हि प्रत्यक्षादिप्रमाणं तद्बाधकम् ; शतशो विचारयतोऽपि एकत्वाद्यात्मनैव अर्थानामवभासनात् / ननु च अवयवसंयोगपूर्विका एकत्वादिपरिणतिर्भवति, 'न च अवयवानां संयोगः सर्वात्मना एकदेशेन वा घटते' इत्युक्तम् ; तदयुक्तम् ; यस्मादेवं वदतो भवतःकिं तत्र सम्बन्धाऽभा- 5 वोऽभीष्टः, कात्स्न्यैकदेशं परित्यज्य प्रकारान्तरेण वा सम्बन्धोऽभिप्रेत इति ? तत्र आद्यविकल्पे प्रत्यक्षविरोधः, अनामवयवसम्बन्धस्य प्रत्यक्ष प्रतिभासनात् , तदसम्बन्धे रज्जु-वंशदण्डादेः एकदेशाऽऽकर्षणे तदन्याऽऽकर्षणं न स्यात् / यद् येनासम्बद्धम् न तस्याऽऽकर्षणे * तदन्यस्याऽऽकर्षणं दृष्टम् यथा कुम्भाऽऽकर्षणे कुड्यस्य, असम्बद्धश्च भवन्मते रज्जु-वंश दण्डादेः अर्वाग्भागः परभागेन इति / अथ कास्न्यैकदेशं परित्यज्य प्रकारान्तरेण अन्योन्यम- 10 वयवानां सम्बन्धोऽभिप्रेतः; तद् युक्तम् ; स्निग्धरूक्षैत्वलक्षणप्रकारान्तरेणैव अर्थानां सम्बन्धोपलब्धेः, नहि सक्तु-तौयादौ तत्परित्यज्य अन्यत्प्रकारान्तरं सम्बन्धहेतुः प्रतीयते / ___ यापि अणूनां षडंशतापत्तिः उक्ता; सा किम् आरम्भकदेशापेक्षया, संयोगहेतुभूतस्वभावाऽपेक्षया वा? तत्र प्रथमपक्षे परस्परविरोधः-'परमाणवः' 'षडंशारब्धाश्च' इति / षडंशारभ्यत्वे हि तेषां स्वावयवापेक्षया अधिकपरिमाणत्वसंभवात् कथं परमाणुत्वम् ? यस्य हि निरतिश- 15 यमल्पं परिमाणं स परमाणुः / द्वितीयपक्षस्तु न दोषाय, दिग्भागभेदेन अणुसंयोगहेतुभूतस्वभावलक्षण-अंशानां परमाणुष्वभिप्रेतत्वात् , कथमन्यथा जलधारणाहरणाद्यर्थक्रियाकारिणो घटादेर्निष्पत्तिः ? न खलु परमाणवः अयःशलाकाकल्पास्तत्कारिणः, परस्परमसम्बद्धत्वात् , ये परस्परमसम्बद्धाः न ते जलधारणाद्यर्थक्रियाकारिणः यथा विभिन्नदेशाः परमाणवः, परस्परमसम्बद्धाश्च घटादिव्यपदेशारे भवन्मते परमाणव इति / अथ देशप्रत्यासत्तिविशिष्टास्ते 20 तत्कारिणो नान्ये; तन्न; अवयविनोऽनभ्युपगमे देशप्रत्यासत्तेरप्यनुपपत्तेः देशस्याप्यवयवित्वात्। एतेन 'अन्योन्यविलक्षणाऽनंशपरमाणुप्रचयरूपं घटादिस्वरूपम् अक्षप्रभवप्रत्यये प्रतिभाससे' इति पक्षः प्रत्याख्यातः ; नहि यथोपवर्णितस्वभावाः परमाणवः अक्षप्रभवप्रत्यये कस्यचिदपि अवभासन्ते, स्थिर-स्थूल-साधारणस्वरूपस्यैवाऽर्थस्य अखिलप्राणिनां तत्र प्रतिभासनात् / १-धवि-आ० / 2 “धारणाकर्षणोपपत्तेश्च / " न्यायसू० 2 / 1 / 35 / “कार्यकारणादेरभेदैकान्ते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन विभागवत् / " अष्टश०, अष्टसह पृ० 223 / प्रमेयक० पृ० 152 पू० / सन्मति० टी० पृ० 253 / 3 "स्निग्धरूक्षत्वाद् बन्धः / " तत्त्वार्थसू० 5 / 33 / "सर्वात्मनैकदेशेन वाऽणूनामसम्बन्धात्, सम्बन्धस्य च प्रतीतेःप्रकारान्तरेण एषां सम्बन्ध इति कल्पना युक्तियुक्तव / " सन्मति० टी० पृ. 252 / 4 पृ. 231 पं० 21 / ५-हेतुस्व-ब०, ज०, भा०, श्र० / ६-धारणाद्य-आ० / ७-था भिन्न-ब०, ज०। ८-दिरूपम् श्र० / 9 "चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकान्तवादं प्रतिहन्ति / " अष्टश०, अष्टसह० पृ० 223 / “तदनेकार्थसंश्लेषविश्लेषपरिणामतः / स्कन्धस्तु सप्रदेशांशी बहिः साक्षात्कृतो जनैः // 106 // " न्यायवि. पृ. 481 उ०। 30