________________ 232 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० पपत्तेः / यथैव हि तैमिरिकस्य स्थूलैकाकाररहितेष्वपि केशेषु तदाकारा प्रतीतिर्भवति एवमस्मदादेः परमाणुष्वपि, नहि एकैकशः तैमिरिकेण केशाः कदाचिदपि प्रतीयन्ते / अतः स्थूलादिप्रतीतिर्धान्ता अतस्मिंस्तद्ग्रहणरूपत्वात् , स्थाणौ पुरुषप्रतीतिवत् / / किञ्च, अनेकाऽवयवव्यापित्वं रूपरसाद्यात्मकत्वञ्च अवयविनो भवद्भिरिष्यते , तच्च 5 अस्याऽखिलावयवाहणे सत्येव ग्रहीतुं शक्यम् नान्यथा / तद्ग्रहणञ्च अर्वाग्भागभाव्यवयव ग्राहिणा प्रत्यक्षेण स्यात् , परभागभाव्यवयवग्राहिणा, उभयप्रत्यक्षेण वा ? न तावद् अर्वाग्भागभाव्यवयवग्राहिणा ; तस्य परभागभाव्यवयववार्ताऽनभिज्ञत्वात् , न च व्याप्याऽग्रहणे तद्वथापित्वं ग्रहीतुं शक्यम् अतिप्रसङ्गात् / यद् येन रूपेण प्रतिभासते तत् तथैव सद्वयवहार विषयः यथा नीलं नीलरूपतयाऽवभासमानं तथैव सद्वयवहारविषयः, अर्वाग्भागभाव्यवयव१० सम्बन्धितया प्रतिभासते च अवयवीति / तथा च अर्वाग्भागभाव्यवयवसम्बन्ध्यवयविस्व रूपात् परभागभाव्यवयवसम्बन्धितत्स्वरूपस्य विरुद्धधर्माऽध्यासतो भेदसंभवात् कथं निखिलाऽवयवानामेकेनाऽवयविना व्याप्तिः सिद्धयेत् ? तत्सम्बन्धित्वलक्षणविरुद्धधर्माऽध्यासेऽपि अस्याऽभेदे भेदवा”च्छेदः स्यात् / तथा यस्मिन् प्रतिभासमाने यन्न प्रतिभासते तत् ततो भिन्नम यथा घटे प्रतिभासमानेऽप्रतिभासमानः पटः, न प्रतिभासतेच अवाग्भागभाव्यव१५ यवसम्बन्ध्यवयविस्वरूपे प्रतिभासमाने परभागभाव्यवयवसम्बन्ध्यवयविस्वरूपम् , इति प्रतिभासभेदादपि अस्य भेदः / एतेन परभागभाव्यवयवग्राहिणा प्रत्यक्षेण तद्वयापित्वग्रहणं प्रत्याख्यातम् / नाप्युभयप्रत्यक्षेण; तस्याऽसंभवात् , नहि अर्वाक्-पर-मध्यभागभाव्यवयवग्राहि . एक प्रत्यक्षं कदाचित् प्रतीयते / - रूपरसाद्यात्मकत्वमपि अस्य एतेनैव प्रतिविहितम् ; नहि रूपग्राहिणा रसपाहिणा उभय२० ग्राहिणा प्रत्यक्षेण तद्ग्रहणमुपपद्यते, रूपग्राहिणश्चाक्षुषप्रत्यक्षस्य रसेऽप्रवृत्तेः, तग्राहिणश्च रासनप्रत्यक्षस्य रूपेऽप्रवृत्तेः, उभयप्राहि च प्रत्यक्षं न स्वप्नेऽपि प्रतिभासते इति / अत्र प्रतिविधीयते / यत्तावदुक्तम् ' चक्षुरादीन्द्रियप्रभवप्रत्यये ' इत्यादि; तत्र किं तत्प्रभ ___वप्रत्यये घटादिव्यपदेशाई रूपम् एकत्वपरिणतिविशिष्टम् उर्ध्वाधोतत्प्रतिविधानपुरस्सरा अवय मध्यभागात्मकं विशिष्टाऽऽकारोपेतं प्रतिभासते, अन्योन्यविलक्षणावेभ्यः कथञ्चिदभिन्नस्य एकाऽ नेकात्मकस्य अवयविनः सिद्धिः ऽनंशपरमाणुप्रचयरूपं वा ? प्रथमपक्षे कथमवयविद्रव्यस्य तत्प्रभ - वप्रत्ययेऽप्रतिभासः , तद्भागात्मिकाया विशिष्टाकारान्वितायाः तत्पपरिणतेरेव अवयवित्वात् ? रूपाद्यतिरिक्तस्याऽवयविनः प्रतिभासाभावाद् असत्त्वाऽभ्युपगमे रूपादेरप्यसत्त्वप्रसङ्गः, तद्वयतिरेकेण अस्याप्यप्रतिभासनात् / न खलु बिल्वाऽऽमलकादि-अव यविद्रव्यरहिताः तद्रूपादयः स्वप्नेऽप्युपलभ्यन्ते / यद् यद्रूपतया निर्बाधबोधे प्रतिभासते तत् 30 तद्रूपमेव प्रतिपत्तव्यम् यथा नीलं नीलरूपतया, प्रतिभासते च एकत्वपरिणत्यादिलक्षण-अव १-चित् प्रती-श्र०। 2 तथार्वा-आ०, भां० / ३-मध्यभाव्य-आ० / 4 पृ० 231 पं० 8 / 25