________________ लघी० प्रमाणप्र० का० 7] रूपादिव्यतिरिक्त-अवयविसद्भाववादः 231 एवं चलोऽचलादिलक्षणविरुद्धधर्मद्वयेऽपि एकान्तेन एकत्वप्रतिक्षेपो द्रष्टव्यः, पाण्याद्यवयवे हि चलति तत्प्रदेशे शरीराऽवयविनः चलत्वम् अन्यत्र च अचलत्वमिति / ततो न अवयवेभ्योऽत्यन्तभिन्नो निरंशोऽवयवी प्रतिपत्तव्यः , किं तर्हि ? तन्त्वाद्यवयवानामेव आतानवितानीभूताद्यवस्थाविशेषविशिष्टानां कथञ्चिदेकत्वपरिणतिलक्षणोऽवस्थाविशेषः पटाद्यवयवी प्रतिपत्तव्यः, तस्यैव 'यमहमद्राक्षम् एतर्हि तमेव संस्पृशामि' इति प्रतीतेरिति / ननु रूपादिव्यतिरिक्तस्य अवयविनः कुतश्चित् प्रमाणादप्रतीतेः कथं तदभ्युपगमः प्रेक्षावतां 1 युक्तः ? तथाहि-तद्वयतिरिक्तः अवयवी प्रत्यक्षतः प्रतीयेत, प्रासङ्गिकः ‘रूपादिव्यतिरिक्तो ___ अनुमानतो वा ? न तावत् प्रत्यक्षतः; चक्षुरादीन्द्रियप्रभवप्रत्यनास्ति अवयवी इति बौद्धस्य पूर्वपक्षः ये हि रूपादिकमेव अवभासते नापरोऽवयवी, तस्यैव अवयवि त्वव्यपदेशे न किञ्चिदनिष्टम् , संज्ञामात्रभेदात् / नाप्यनुमानतः; 10 प्रत्यक्षाऽविषये तस्याप्रवृत्तेः। यदि हि कदाचित् प्रत्यक्षतोऽवयवी प्रतिपन्नः स्यात् ,तेन च अविनाभूतं किञ्चिल्लिङ्गम् ; तदा कचित् धूमादमिवत् तदर्शनादसौ अनुमीयेत, न च रूपादिव्यतिरेकेण स्वप्नेऽप्यसौ प्रत्यक्षे प्रतिभासते,अतः अस्य ग्राहकप्रमाणाऽभावाद् अभाव एव ज्यायान् / यद्ग्राहकं प्रमाणं नास्ति तदसत् यथा खरविषाणम् ,नास्ति च अवयविनो ग्राहक किञ्चित् प्रमाणमिति / तदुत्पत्तौ कारणाऽनुपपत्तेश्च ; यदुत्पत्तौ कारणं नोपपद्यते तत् नास्ति यथा वन्ध्यास्त- 15 नन्धयः, नोपपद्यते च अवयव्युत्पत्तौ किञ्चित्कारणमिति / नचेदमसिद्धम् ; दयणुकाद्यवयव्युत्पत्तौ हि कारणं परमाणुसंयोगः, स च तेषां सर्वात्मना एकदेशेन वा नोपपद्यते / सर्वात्मना हि परमाणूनां संयोगे पिण्डस्याऽणुमात्रत्वप्रसङ्गाद् दत्तोऽवयविने जलाञ्जलिः। नाप्येकदेशेन; अणूनां देशाऽसंभवात् , तत्संभवे तेषां परमाणुत्वाऽनुपर्पत्तेः दिग्भागभेदतः परमाणुषटकेन युगपत् संयुज्यमानानां तेषां षडंशतापत्तेः / तस्मादयःशलाकाकल्पाः परमाणव एव परमार्थतोऽ- 20 भ्युपगन्तव्याः / न च अवयविद्रव्याऽनभ्युपगमे अन्योन्याऽसम्बद्धेषु अयःशलाकाकल्पेषु अणुषु स्थूलैकाकारप्रतिपत्तिर्न स्यादित्यभिधातव्यम् ; केशेषु तैमिरिकोपलब्धिवत् तत्र तत्प्रतिपत्त्यु 1 “पाण्यादिकम्पे सर्वस्य जन्मप्राप्तेविरोधिनः / एकत्र कर्मणोऽयोगात् स्यात् पृथक् सिद्धिरन्यथा // " प्रमाणवा० 2084 / “तत्र पाण्यादावेकस्मिन् कम्पमाने स्थूलोऽर्थः सकम्पनिष्कम्पे रूपे युगपत् प्रतिपद्यमानः कथं विरुद्धधर्मसंसर्गवान्न स्यात् ?" अवयविनिरा० पृ०८१।२-त्वे प्र-आ० / एकप्रतिब०, ज० / 3 प्रतीतेः ननु आ० / ४'ननु' इत्यतः प्राक् आदर्श लिखितः 'बौद्धः' इति शब्दः टिप्पणीगत एवेति प्रतिभाति / 5 “षट्केन युगपद्योगात्" इत्यादि; विज्ञप्तिमा० कारि० 12 / “यद्वा सर्वात्मना वृत्तौ अनेकत्वं प्रसज्यते / एकदेशेन चानिष्टा नैको वा न क्वचिच्च सः // 613 // " तत्त्वसं०। ६-पत्तिः श्र०। ७-पत्तिः श्र० / 8 "अयःशलाकाकल्पा हि क्रमसंगतमूर्तयः। दृश्यन्ते व्यक्तयः सर्वाः कल्पनामिश्रितात्मकाः // 42 // " "अणुसंहतिमात्रञ्च घटाद्यस्माभिरिष्यते // 78 // " तत्त्वसं०। 9 “यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् // 1 // " विंश. विज्ञप्ति० / “समानज्वालासंभूतेर्यथा दीपे न विभ्रमः। नैरन्तर्यस्थितानेकसूक्ष्मवित्तौ तथैकथा // 589 // " तत्त्वसं०। .