________________ 230 लघीयस्त्रयालकारे न्यायकुमुदचन्द्रे [2 विषयपरि० किञ्च', एते नीलादयः किम् आश्रयव्यापिनः, एकदेशवृत्तयो वा ? यदि आश्रयव्यापिनः; तदा एकेनैव नीलेन आश्रयस्य व्याप्तत्वाद् अन्येषां निरवकाशता / एकदेशवृत्तित्वञ्च अयुक्तम् ; नहि आश्रयस्य देशाः सन्ति निरंशत्वादवयविनः / अथ अवयवानामेव तानि रूपाणि; तर्हि अवयवी नीरूपः स्यात् , तथा च अस्याऽप्रत्यक्षत्वम् , नोरूपस्यापि प्रत्यक्षत्वे गगनादेरपि प्रत्य५ क्षताप्रसङ्गः / अथ शुक्लादिरूपविलक्षणं तत् चित्रं रूपम् ; तर्हि परिदृश्यमाननीलादिविशेष व्यतिरेकेण विलक्षणैव प्रतीतिः स्यात् , न पुनस्तत्र प्रत्यभिज्ञायमाना नीलादयः प्रतिभासेरन् , न हि शुक्लादिविलक्षणे पीतादौ प्रतिभासमाने शुक्लप्रत्यभिज्ञानमस्ति / किञ्च, एते नीलाधुपाधयः अवयविनोऽपकारकाः, उपकारका वा ? तत्राद्यपक्षोऽयुक्तः, अपकारकाणामुपाधित्वाऽयोगात् / द्वितीयपक्षे तु समस्तोपकारकोपाध्यग्रहणे तदुपकार्यत्वेन उपा१० धिमतोऽप्यग्रहणात् सर्वाऽग्रहणप्रसङ्गः / नियतोपाध्युपकार्यत्वेन अस्य प्रतीतेर्न तत्प्रसङ्गश्चेत् ; तर्हि तदुपकार्यत्वेन अस्य प्रतीतौ समस्तोपाध्युपकार्यरूपत्वात् तदुपकार्यत्वेनाप्यस्य ग्रहणप्रसङ्गात् सर्वग्रहणाऽनुषङ्गः / अथ एकोपाध्युपकार्यत्वेन अस्य प्रतिपत्तौ तदुपाधिविशिष्टत्वेनैव ग्रहणात् उपाध्यन्तरविशिष्टत्वेनाऽग्रहणान्न सर्वग्रहणप्रसङ्गः ; तर्हि एकस्यावयविनो. गृहीताऽगृही तरूपद्वयप्रसङ्गात् निरंशत्वव्याघातः / नहि तस्य एकोपाध्युपकार्यत्वमेव रूपम् , अपि तु सम१५ प्रोपाध्युपकार्यत्वम् , तच्च अखिलोपाध्यप्रतिपत्ती प्रत्येतुं न शक्यते / ननु प्रत्युपाध्युपकार्याः तस्य शक्तयो भिन्नाः, तत्र एकोपाध्युपकार्यशक्तिविशिष्टस्य उपाधिमतो ग्रहणेऽपि उपाध्यन्तरोपकार्यशक्तिविशिष्टस्य अग्रहणात् न समग्रग्रहणमिति; अत्रापि उपाधिमतोऽ शेषशक्तयात्मकत्वाद् एकशक्तियुक्तस्य ग्रहणे अशेषशक्तियुक्तस्य ग्रहणप्रसङ्गात् उपाधिवर्गस्याप्यशेषस्य ग्रहणाऽनुषङ्गतः समप्रग्रहणमनिवार्यम् / येनैव हि रूपेण असौ एका शक्तिं विभर्ति तेनैव अपराम्, तत्रापि रूपान्तर विकल्पनेऽनवस्था निरंशाऽवयविप्रतिज्ञाक्षतिश्च / किञ्च, हस्तआकाशविभागाद् यदैव शरीर-आकाशविभागः तदैव पाद-आकाशसंयोगजः शरीर-आकाश संयोगः, इति एक एव अवयवी एकेनैवाऽऽकाशेन एकदैव संयुक्तो वियुक्तश्च इति अन्योन्यविरुद्धरूपद्वयाऽऽक्रान्तः कथमेकान्तेन एकत्वभाग भवेत् ? यद् अन्योन्यविरुद्धरूपद्वयाऽऽक्रा न्तम् न तद् एकान्तेनैकम् यथा प्रसारितेतराङ्गुलिस्वरूपम् , अन्योन्यविरुद्धरूपद्वयाऽऽक्रान्त२५ श्च आकाशादिना संयुक्तेतररूपः शरीराद्यवयवीति / 1 “अतो बहूनां रूपाणामेकस्यां पृथिव्यामभ्युपगमे व्याघातः / अभ्युपगम्यापि च ब्रूमः / शुक्लादीनां बहूनामेकत्र सद्भावे किमाश्रयव्यापित्वं प्रदेशवर्तित्वं वा ?..." प्रश० व्यो० पृ. 221 / २चित्ररूपम ज०।३" एकोपकारके ग्राह्येऽदृष्टाः तस्मिन्न सन्ति ते। सर्वोपकारकं ह्येकं तद्ग्रहे सकलग्रहः // " प्रमाणवा. 156 / “तदुक्तम्-एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे। दृष्टे यस्मिन्नदृष्टास्ते तद्ग्रहे सकलग्रहः / " अष्टसह पृ० 152 / ४-किं निधत्ते ते-आ० / ५-रपरिकल्पने ब०, ज०, भा०, श्र० /