________________ लघो० प्रमाणप्र० का०७] अवयव-अवयविनोभेंदाऽभेदादिवादः 229 रक्तत्वं कुङ्कमादिद्रव्येण संयोगः, स च अव्याप्यवृत्तिः, नहि रूपादिवत् स्वाश्रयमसौ व्याप्नोति अवयवान्तरे तदुपलब्धावपि अनुपलभ्यमानत्वात् , तत् कथमेकत्र रागे सर्वत्र रागप्रसङ्गः ? इत्यप्यसाम्प्रतम् ; निरंशेऽवयविनि संयोगस्य अव्याप्यवृत्तित्वाऽनुपपत्तेः / तस्याऽव्याप्यवृत्तित्वं हि सर्वद्रव्याऽव्यापकत्वम् , नियतप्रदेशे वर्तमानत्वम् , अवयवान्तरेऽवयविन्युपलभ्यमानेऽपि अनुपलभ्यमानत्वं वा ? तत्र आद्यविकल्पोऽनुपपन्नः ; द्रव्यस्यैकस्य सर्वशब्दविषयत्वाऽनभ्युप- 5 गमात् , निरंशत्वे चास्य कथं तत्संयोगेन साकल्यतः तदव्याप्तिः ? तथा तदव्याप्ती वा निरंशत्वविरोधः। द्वितीयविकल्पस्तु उपपन्नो यदि अवयविनो नियतप्रदेशत्वमभ्युपगम्येत, तदभ्युपगमे च अपसिद्धान्तप्रसङ्गः, योगैस्तस्याऽप्रदेशत्वप्रतिज्ञानात् / तृतीयविकल्पोऽप्येतेन प्रत्याख्यातः ; तस्य नियतप्रदेशत्वाऽनभ्युपगमे अवयवान्तरेऽवयविन्युपलभ्यमाने तत्संयोगस्याऽनुपलभ्यमानत्वाऽनुपपत्तेः / तन्नास्य अव्याप्यवृत्तित्वमुपपद्यते , तदुपपत्तौ वा सिद्धो विरुद्ध- 10 धर्माऽध्यासः, तत्कथमस्य सर्वथैकत्वं स्यात् ? अथ तस्मिन् रज्यमानेऽपि असौ न रज्यते; तदप्ययुक्तम् ; दृष्टेष्टविरोधात् , 'नहि तन्त्वाद्यवयवे रज्यमाने पटो न रज्यते' इति केनचिद् दृष्टमिष्टं वा। निरंशत्वे च अवयविनः चित्ररूपप्रतिपत्त्यनुपपत्तिः, नीलादिचित्राऽऽकाराणां विभिन्नप्रतिभास-विरुद्धधर्माऽऽक्रान्तानामेकत्वाऽयोगात्, नहि नीलम् 'पीतम्' इति शक्यं वक्तुम् , तथा- 15 भूतानामप्येषामैक्ये नानेकं जगत् स्यात् / ननु न नीलादीनि तत्र रूपाणि 'चित्रम् ' इति व्यपदिश्यन्ते तेषां विभिन्नप्रतिभासादितया चित्रज्ञानाऽगोचरत्वात् , किन्तु एकमेव तत् चित्रसंज्ञकं रूपम् , तद्योगात् अवयवी चित्रः यथा शुक्लयोगात् शुक्ल इति ; अत्रापि किं शुक्लादिविशेषशून्यं रूपमात्रं चित्रम् , शुक्लादय एव वा समुदिताः, शुक्लादिरूपविलक्षणं वा तद्रूपम् ? तत्र न तावद् रूपमात्रम् ; विशेषशून्यस्य सामान्यस्य क्वचिदप्यनुपलब्धेः / नापि नीलादय एव समु- 20 दिताः; प्रत्येकं तेषां चित्रत्वाऽभावात् , नहि 'नीलं चित्रम्' 'पीतं चित्रम्' इत्येकैकशः तेषां चित्ररूपत्वमस्ति / समुदितानां तद् भविष्यति; इत्यप्यसम्भाव्यम् ; समुदिता हि बहवः उच्यन्ते, 'चित्रम्' इत्येकम् , न च बहूनामप्राप्तावस्थाविशेषाणामेकं रूपं भवितुमर्हति / 1 “यदि सर्व द्रव्यं न व्याप्नोतीत्यर्थः; तदयुक्तम् ; द्रव्यस्य सर्वशब्दाविषयत्वाभ्युपगमात् / आश्रयस्यैकदेशे वर्तते; तदप्ययुक्तम् / तस्यैकदेशासंभवात् / .." तत्त्वसं० पं० पृ० 200 / २-गम्यते श्र०। 3 नीलमेव पीतम् / 4 “अचित्राणि रूपाणि संहत्य पटे चित्रं रूपमुत्पादयन्तीति पक्ष आश्रीयते / एवं चैतस्मिन्न किञ्चिद् बाध्यते।" न्यायवा० 4 / 2 / 11-12 पृ. 507 / " इष्यत एव अस्माभिर्यथा अवयवसमवेतैः सितहरितलोहितादिभिः असमवायिकारणैः अवयविनि चित्रं रूपमारभ्यत इति / " न्यायवा. ता० टी० 4 / 2 / 12 / "तस्मात् संभूय तैरारभ्यते / तच्चारभ्यमाणं विविधकारणस्वभावानुगमात् श्यामशुक्लहरितात्मकमेव स्यात् चित्रमिति च व्यपदिश्यते / " प्रश. कन्दली पृ. 30 / .