________________ 228 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अथोच्यते-तदावरणेऽपि न शरीरस्यावरणम् अवयवाऽऽवारकद्रव्यसंयोगस्य तदावरणे सामर्थ्याऽभावात् , न खलु यावानवयवद्रव्यसंयोगोऽवयवमावृणोति तावानेव अवयविनम् तस्य महत्त्वात् / यद्येवम् ; प्रदेशतः तदावरणम् अस्ति, न वा ? अस्ति चेत् ; न; अनंशस्य प्रदेशाऽभावतः तथा तदावरणाऽनुपपत्तेः, उपपत्तौ वा अनंशताव्याघातः विरुद्धधर्मसंसर्गात् / 5 यद् विरुद्धधर्मसंसर्गि न तद् अनंशम् यथा जलाऽनलादि, विरुद्धधर्मसंसर्गि च आवृता ऽनावृतस्वभावतया अवयविस्वरूपम् इति / विरुद्धधर्मसंसर्गेऽपि अस्य अभेदे सर्वत्र भेदवातॊच्छेदः, विश्वस्य विश्वरूपत्वेऽपि एकद्रव्यत्वप्रसङ्गात् / अथ अवयवाऽऽवारकद्रव्यसंयोगेन अवयविनः प्रदेशतोऽपि नास्त्यावरणम् / तर्हि तत्प्रदेशेऽप्यस्य उपलब्धिप्रसङ्गात् समग्रोऽप्यवयवी उपलभ्येत अविशेषात् , नहि अवयवाऽऽवरणे अनावरणे वा अवयविनः कश्चिद् विशेषोऽस्ति 10 उभयत्राऽस्याऽनौवृतत्वाऽभ्युपगमात् / ननु समग्र-असमग्रशब्दयोर्भेदविषयत्वात् अभिन्नेऽवय विनि प्रवृत्तिरयुक्ता; इत्यपि प्रागेव कृतोत्तरम् , अवयविनः कथञ्चिद् भेदप्रतिपादनात् / अवयवाऽऽवरणेऽपि अवयविनोऽनावरणे च तस्य तत्र वृत्तिविरोधः , यत् खलु यत्र वर्तते तस्याऽऽवरणे तदपि आब्रियमाणं दृष्टम् यथा कुण्डाऽऽवरणे दधि, वर्तते च अवयवेषु अवयवीति / तथा, यदुपलब्धिपूर्विका यस्योपलब्धिः न तस्य अनुपलब्धौ तदुपलब्धिः यथा त्यस्रादिसंस्थाना१५ ऽनुपलब्धौ सङ्घाटकादेः, अवयवोपलब्धिपूर्विका च अवयविनः उपलब्धिः इति / अथ आवृ तावयव प्रदेशे तस्य अनुपलभ्यत्वमिष्यते; कथमेवम् अस्यैकत्वं स्यात् उपलभ्याऽनुपलभ्यत्वलक्षणविरुद्धधर्माध्यासतः कथञ्चिद्भेदप्रसिद्धः ? रक्ताऽरक्तत्वलक्षणविरुद्धधर्माव्यासाञ्च; तथाहि-एकस्मिन् तन्त्वाद्यवयवे रज्यमाने पटाद्ययवी रज्यते, न वा ? यदि रज्यते; कृत्स्नेऽप्यवयविनि रक्तप्रत्ययप्रसङ्गः / ननु च अवयविनो 1 "यो विरुद्धधर्मसंसर्गवान् नासावेकः यथा घटादिरर्थः,विरुद्धधर्माध्यासवांश्च स्थूलो नीलादिरर्थ इति।" (पृ०७८) "अथवा अन्यथाऽयं विरुद्धधर्मसंसर्गः / तथाहि-आवृते एकस्मिन् पाण्यादौ स्थूलस्यार्थस्य आव. तानावृतरूपे युगपद् भवन्तौ विरुद्धधर्मद्वयसंयोगमस्य आवेदयतः।” अवयविनिरा०पृ० 85 / 2. “एकावयवावरणेऽपि अवयव्यावरणस्याऽभावात् / " प्रश० कन्दली पृ०४२ / न्यायवा०ता० टी० 111 / 32 / पृ० 383 / "अर्धावरणेऽप्यवयविनोऽनावृतैकरूपत्वात् ।"न्यायली०पृ. 9 / 3 श्रृंगाटकादेः ब०, ज० / 'सिंघाड़ा' इति भाषायाम् / 4 "नचैकमेकरागादौ समरागादिदोषतः // 8 // " न्यायवि.पृ० 197 उ० / "तथा रागारागाभ्यां विरोधः संभावनीयः / ." अवयविनिरा० पृ. 87 / 5 "रागद्रव्यसंयोगो रक्तत्वम् , अरक्तत्वञ्च तदभावः, उभयञ्चैकत्र भवत्येव संयोगस्य अव्याप्यवृत्तिभावात् / " प्रश० कन्दली पृ. 42 / न्यायली. पृ० 9 / "ननु च इत्यादिना शंकरस्वामिनः परिहारमाशङ्कते-ननु चाव्याप्यवृत्तित्वात संयोगस्य न रक्तता। सर्वस्यासज्यते नापि सर्वमावृतमीक्ष्यते // 600 // " तत्त्वसं० पृ. 199 / शंकर. स्वामी अत्राह-वस्त्रस्य रागः कुङ्कुमादिद्रव्येण संयोग उच्यते / स चाव्याप्यवृत्तिः, तत एकत्र रक्त न सर्वस्य रागः, न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तमिति / " सन्मति० टी० पृ० 6.64 / /